Tuesday, April 28, 2015

अनन्तपद्मनाभ की स्तुति


शेषेऽशेषशेषिशयने शेषाशेषशेषिशरणाः ।
शेषाशेषशेषभरणाः शेषे शेषशेषिकरुणाः ॥

शेषे=अनन्ताख्ये आदिशेषे, अशेषशेषिशयने=सर्वेषां शरीरी यः तस्य शयने (अनन्तपद्मनाभस्य शयने), शेषाशेषशेषिशरणाः=इतरे शेषाः जीवात्मानः अशेषशेषिणं शरणं गताः, शेषाशेषशेषभरणाः=बलदेवस्य सकलप्रसादभरणाः, शेषे=अस्मिन् लोके, शेष​-शेषिकरुणाः=शेषस्य​, शेषिणः भगवतः च करुणापूर्णाः (राजन्ते)॥

१. शेषे=अत्र शेषशब्दः सर्पराजः अनन्तः इत्यर्थे प्रयुक्तः, तस्य सप्तमी शेषे = सर्पराजे इति ।
२. अशेषशेषिशयने = अशेषः=सकलजीवात्मा, अशेषस्य शेषी = अशेषशेषी, अर्थात् सकलजीवात्मनं शेषी = अङ्गी, तस्य शयने = अनन्तपद्मनाभस्य शयने इति ।
३. शेषाशेषशेषिशरणाः = शेषाः = इतरे चराचरपदार्थजातं, अशेषशेषिणः शरणाः = अशेषशेषिशरणाः, अर्थात् सर्वेषां अङ्गिरूपं भगवन्तं शरणं गताः जीवात्मानः इति ।
४. शेषाशेषशेषभरणाः = शेषस्य = बलदेवस्य​, अशेषशेषाणां=सकलप्रसादैः, भरणाः=पोषिताः, अर्थात् कृष्णभ्रातुः सकलविधप्रासादेन पोषिताः इति ।
५. शेषे=शेषः भगवतः शरीररूपं जगत्, तस्मिन् इति ।
६. शेषशेषिकरुणाः = शेषस्य शेषिणः च करुणाभाजः
७. राजन्ते = शोभन्ते इति पदम् अध्याहार्यम् ॥

अत्र श्लोके शेषशब्दः बहुषु अर्थेषु प्रयुक्तः वर्तते । तद्यथा -
१.    शेषः = सर्पराजः, २. अशेषः = सकलः, ३. शेषी (शेषिन्) = अङ्गी (तद्रूपी भगवान्), ४. शेषः = इतरः (उद्दिष्टाद् अन्यः), ५. शेषः = बलभद्रः, ६. शेषः = प्रसादः, ७ . शेषः = लोकः (जगत्) ॥

तात्पर्यम् - अनन्ते भगवतः शयने, अशेषशेषिणं भगवन्तं शरणं गताः सर्वेऽपि जीवाः, भगवतः श्रीकृष्णस्य भ्रातुः सकलप्रसादैः पोषिताः, अस्मिन् लोके सर्पराजस्य शेषिणः भगवतः च करुणया पूर्णाः राजन्ते ॥

हिन्दी - अनन्त नाम के सर्पराज पर लेटे हुए भगवान् की दृष्टि से, उस सकल जीवों के मूलभूत ईश्वर से शरण लिए हुए सभी जीव​, श्रीकृष्ण के भाई बलदेव के सर्व विध प्रसाद से पोषित​, सर्पराज और भगवान् की करुणा से इस दुनियां में जीते हैं ॥


*******

Sunday, April 26, 2015

USAGE OF परामृशन्

USAGE OF परामृशन्

Here the root is मृश आमर्शने । आमर्शनं means स्पर्शः = to touch. When it is prefixed with परा, it may mean “to touch”, “to think”, “to reflect”, “to consider”, “to rub” etc. If it is prefixed with परा and suffixed with शतृ-प्रत्यय​, it takes the form परा+मृश्+शतृ=परामृशन् ।

See the usage in Kumarasambhavam by Kalidasa - तेजोदग्धानि गात्राणि पाणिनास्य परामृशन्। Here, पाणिना परामृशन् means touching by hand. Also see the usage in Mahabharata तूणांश्चापि परामृशन् meaning touching the quiver. Observe this sentence, इष्टदेवतां परामृशन् meaning thinking the desired God. See this sentence - विवेकी दूरदर्शी यो नीरं क्षीरं परामृशन्। It means that thinking the difference between the water and the milk. Observe this sentence from Nitishastra by Masuraksha - कौशलं सुप्रयुञ्जीत वस्तुजातं परामृशन्। Here, परामृशन् means considering. Consider this sentence from Ramayana - शप्तो   ह्येष   पुरा   पापो   वधूं   रम्भां   परामृशन्. Here, परामृशन् means assaulting. Thus, परामृशन् means touching, thinking, considering, assaulting etc.

Now, we will take only the meaning of “touching” here. हस्तेन परामृशन् means touching by hand and पादेन परामृशन् means touching by leg. However, if you change the तृतीयाविभक्ति into द्वितीयाविभक्ति, the meaning entirely differs. See these sentences - हस्तं परामृशन्, पादं परामृशन्. Here, these sentences mean “touching the hand (not by hand)” and “touching the foot (not by foot)”. If you use तृतीयाविभक्ति, हस्तेन परामृशन् it means “touching by hand (some other thing)”. In the same way if use तृतीयाविभक्ति, पादेन परामृशन्, it means “touching by foot (some other thing)”.

In the same way if you use द्वितीयाविभक्ति, हस्तं परामृशन्, पादं परामृशन्, it means that “touching the hand” and “touching the foot”. I hope I made it clear.


*******

Thursday, April 23, 2015

श्रीरामानुजपञ्चकम्

॥ श्रीरामानुजपञ्चकम् ॥

श्रुतिमतमनुसृत्य सम्प्रवर्त्य च वैष्णवम् ।
जनमतमिह सम्यक् जीवताच्छ्रीभाष्यकारः ॥१॥

पुरुषं सत्कुलसम्पन्नं मनुजं मानवधीरं तम् ।
विनयं सद्गुरुवीक्षाभं प्रणुमो रामपरं शान्तम् ॥२॥

आर्द्राभेऽवतीर्यास्मिन् जगति महितं हेतुजनुषं
श्रीभूताह्वतीर्थेऽस्मिन् प्रभवविभवं द्राविडनिभम् ।
गोत्रेऽशेषमूर्धन्येऽनघगुणरविं लक्ष्मणमुनिं
विश्वे को न वन्देत प्रखरधिषणं वैष्णवयतिम् ॥३॥

पाषण्डचण्डपरमतान् खण्डयित्वा वितण्डान्
वैशिष्ट्यपूर्णनिजमतं स्थापयित्वा सुबद्धम् ।
श्रीवैष्णवाख्यगुरुमतं वैदिकं तर्कसिद्धं
प्रज्ञानवादशुभमतं राजते भाष्यकारः ॥४॥

प्रसन्नगम्भीरभाष्येषु सत्सु
कृतेश्च कर्तुश्च सिद्धेषु तेषु ।
इदं ह्यनन्यं विभाति क्षितौ च
गुणेन शैल्या च माभाष्यमेव ॥५॥

नन्दताद् रामानुजो यतिः जीवतात् तद्वैष्णवं मतम् ।
तिष्ठताद् विश्वे परस्समाः जयताद् रामानुजं यशः ॥६॥


*******

॥ हे सुभ्रु - साधुत्वविचारः ॥

॥ हे सुभ्रु - साधुत्वविचारः ॥

वधूः, सुभ्रूः, पुनर्भूः इत्यादयः शब्दाः स्त्रियाम् ऊकारान्ताः । अत्र विचारः "सुभ्रू" इति ऊकारान्तस्य सम्बोधनप्रथमायां किं रूपम् इति । सम्बोधनप्रथमायां "हे सुभ्रूः" इति अथवा "हे सुभ्रु" इति रूपम् इति संशयः । प्रथमं सुभ्रूः इत्यस्य व्युत्पत्तिः विचार्यते - शोभना भ्रूः यस्याः सा = सुभ्रूः इति । भ्रूः इति शब्दः कथं निष्पन्नः ।  भ्रमति इति भ्रूः । अत्र भ्रमेश्च डूः (उ-२.२३६) इति सूत्रेण डू-प्रत्ययः । डू इत्यत्र डकारः इत्संज्ञकः । तेन भ्रम्+डू इति स्थिते, डकारस्य इत्संज्ञायां भ्रम् इत्यस्य टि-लोपः । भ् र् + ऊ = भ्रू इति डू-प्रत्ययान्तम् । अत्र डू इति न स्त्रीप्रत्ययः, अतः गोस्त्रियोरुपसर्जनस्य (१-२-४८) इति सम्बुद्धौ ह्रस्वः न भवति । अतः ह्रस्वाभावात्    "हे सुभ्रु" इति रूपं न सिद्ध्यति । यदि अत्र अम्बार्थनद्योर्ह्रस्वः (७-३-१०७) इति सूत्रेण ह्रस्वः भवतु इति उच्यते, तदपि न भवति । यतः नेयङुवङ्स्थानावस्त्री (१.४.४) इति सूत्रेण अस्त्रीप्रत्ययान्तस्य तदन्तस्य च नदी-संज्ञा निषिद्ध्यते । सुभ्रू इति अस्त्रीप्रत्ययान्तः । नदी-संज्ञायाः अभावे अम्बार्थनद्योर्ह्रस्वः (७-३-१०७) इति सूत्रम् अपि न प्रवर्तते । तथा च अनेन अपि "हे सुभ्रु" इति रूपं न सिद्ध्यति ॥

तर्हि कथं शास्त्रकविः भट्टिः "हापितः क्वासि मे सुभ्रु" (भ​.का.६-११) इति, महाकविः कालिदासः च "विमानिता सुभ्रु पितुर्गृहे कुतः" (कु.सं.५-४३) इति प्रयुक्तवन्तौ । तत्र स च ह्रस्वान्तः प्रयोगः दोषपूर्णः एव इति भट्टोजीदीक्षितः ॥


अत्र तत्त्वबोधिनीकारः एकं समाधानं विचार्य तत् खण्डयति पश्चात् । तद्यथा - नेयङुवङ्स्थानावस्त्री (१.४.४) इति सूत्रम् । अत्र उत्तरसूत्राद् "वामि" (१.४.५) इत्यतः "वा" इति पदम् अपकृष्य पूर्वसूत्रेण विहितः नदीसंज्ञानिषेधः विकल्पेन प्रवर्तते इति अर्थं परिकल्प्य, विकल्पेन नदीसंज्ञायाः निषेधात् एकस्मिन् पक्षे नदी-संज्ञायाम् अम्बार्थनद्योर्ह्रस्वः (७-३-१०७) इति ह्रस्वे "हे सुभ्रु" इति रूपं सिद्धम् । परन्तु एषः पक्षः खण्डितः तत्त्वबोधिनीकारेण एव । यदि नदीसंज्ञाविकल्पः करणीयः तर्हि पूर्वसूत्रे "न​+इङुवङ्स्थानावस्त्री" इति नञः प्रयोगः व्यर्थः स्यात् । किञ्च उत्तरसूत्रे "वा+आमि" इत्यत्र वा-ग्रहणम् अपि व्यर्थं स्यात् । लाघवेन "वा+इयङुवङ्स्थानावस्त्री" इत्येव पाणिनिना सूत्रितं स्यात् । अतः एषः पक्षः न साधुः ॥


तर्हि कथम् अस्य समाधानम् इति प्रश्ने दीक्षितस्य मतम् एषः प्रयोगः असाधुः एव इति । इतरे तु कविप्रयोगसमर्थनदृष्ट्या अत्र "सुभ्रु" इति सामान्यकथने नपुंसकलिङ्गस्य प्रयोगः इति समर्थनं कुर्वन्ति कथञ्चित्, यद्यपि इदमपि समाधानं तथा न स्वरसम् इत्येव अभिप्रायः ॥


अत्र कौमुद्याः सरलाव्याख्याकारः जीवानन्दः समाधानम् अन्यद् दर्शयति । तद्यथा - "प्रमाद एवायमिति बहवः" इति दीक्षितस्य वाक्ये "प्रमाद​"शब्दस्य व्याख्या सरलाकारेण इत्थं क्रियते - प्रमाद इति । विरहपीडितस्य रामस्य एव प्रमादलक्षणः प्रमादः, न तु कवेः । स च काव्ये विरहपोषकतया गुणाय एव कविना तथा निबद्धः इति विभावनीयम् इति । अर्थात् कविः काव्यनायकस्य (पात्रस्य​) मनोऽनुकूलं प्रयोगं करोति, न तु व्याकरणानुकूलम् इति तात्पर्यम् ॥

अन्ये तु अप्राणिजातेश्चारज्ज्वादीनाम् (वा.४-१-६६) इत्यत्र "अलाबूः" "कर्कन्धूः" इत्यूकारन्तस्य अपि ऊङ्-प्रत्ययम् उदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात् क्वचिद् ऊकारान्तस्य अपि ऊङन्तत्वाद् नदीत्वे ह्रस्वम् इत्याहुः । अत एवाह वामनः- ऊकाराद् अपि ऊङ्-प्रकृतेः इति ॥ 

अर्थात् भाष्योदाहरणप्रामाण्यात् ऊङन्तस्य अलाबू इत्यस्य पुनः ऊङ्-विधानं भवति । अत्र ऊकारान्तस्य पुनः ऊङ्-विधानसामर्थ्यात् क्वचिद् अस्त्रीप्रत्ययान्तस्य अपि ह्रस्वः भवति इति ज्ञाप्यते इति तात्पर्यम्  

परन्तु अत्र अलाबू इत्यस्त्र ऊकारान्तस्य ऊङ्-विधानं नोङ्धात्वोः (६-१-१६५) इति विभक्तेः उदात्तत्वनिषेधः प्रयोजनम् इति कैयटः नागेशोऽपि ॥ अतः "सुभ्रु" इति ह्रस्वः सम्बुद्धौ प्रमादः एव इति दीक्षितमतम् एव तिष्ठति ॥

*********

॥ नमोऽस्तु शङ्कराय ॥

TODAY IS SHRI SHANKARA JAYANTI, LET US SALUTE THE YUGA PURUSHA

नमोऽस्तु शङ्कराय

वटक्कुनाथभक्तदम्पतीसुबोधपुत्रता
सुकेरलेषु सिद्धवंशनम्बुतीरिजन्मता ।
सुमातृवत्सलेन पोषिता सुपुत्रधीरता
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥१॥

अधीतवेदसर्वशास्त्रशीलवांश्च बुद्धिमान्
परम्परानुपालने पटुश्च सिद्धवाग्घरः ।
अभूतपूर्वपाण्डिती सनातने च यस्य धीः
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥२॥

अभेदतत्त्वसारवर्णनेऽद्वितीयभास्करः
श्रुतेः प्रमाणमाश्रितं ह्यपेक्षितं च वर्णितम् ।
अमूलवाङ् न चोदितं परं परञ्च दर्शितं
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥३॥

प्रसन्नभाष्यमालया विभूषितं प्रभाषितं
विपश्चितां प्रमोदनाय वैदुषी प्रदर्शिता ।
प्रचण्डतर्कभाषया श्रुतेर्मतं प्रमाणितं
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥४॥

गुरोश्च पादसेवयाऽऽदिशङ्करोऽभवद्भवे
शिवस्य भूरि सेवयाऽञ्जसा भुवं परित्यजन् ।
वितण्डदर्शनं विखण्ड्य धर्मरक्षकोऽभवन्
नमोऽस्तु ते सुधारकाय धर्मवीर भूरिशः ॥५॥

******

Tuesday, April 21, 2015

तज्जपः तदर्थभावनम्

तज्जपः तदर्थभावनम्

तज्जपः तदर्थभावनम् (समाधिपादे सूत्रसं-२८) । तस्य जपः = तज्जपः, तस्य अर्थः = तदर्थः, तदर्थस्य भावनम् = तदर्थभावनम् । तज्जपः इत्यत्र तत् इति शब्देन पूर्वस्मिन् सूत्रे परामृष्टः "तस्य वाचकः प्रणवः" इति प्रणवः परामृश्यते । तथा च तज्जपः = प्रणवस्य जपः, तदर्थभावनम् = प्रणवस्य यः अर्थः तस्य भावनम् = पुनः पुनः चित्ते निवेशनम् । तस्य प्रणवस्य जपः, प्रणवार्थस्य च भावनं करणीयम् । क्रियते चेत् किं भवति? चित्तम् एकाग्रं सम्पद्यते । तथा च अयम् अर्थः फलति - प्रणवस्य जपेन प्रणवार्थस्य च भावनेन चित्तम् एकाग्रं जायते इति । कः प्रणवार्थः? प्रणवस्य अर्थः ईश्वरः एव । एवञ्च प्रणवस्य जपेन तदर्थस्य ईश्वरस्य च भावनेन चित्तम् एकाग्रं सम्पद्यते इति परिनिष्ठितः अर्थः ॥

यह सूत्र है कि तज्जपः तदर्थभावनम् । यहां पर तज्जप का विग्रह होगा "उस का जप​" । किस का जप​? पूर्व सूत्र में जिस का उल्लेख किया गया है उस प्रणव का । तदर्थभावनम् का विग्रह होगा कि उस का अर्थ​, और उस अर्थ का भावन । उस का अर्थ का मतलब है प्रणव का अर्थ​, उस प्रणव का अर्थ को भावन करना, भावन का मतलब है बार बार चित्त में स्थापित करना । तथा च सूत्र का अर्थ होगा उस प्रणव का जप करना और उस प्रणव के अर्थ को चित्त में बार बार स्थापित करना । ऐसे करने से क्या होगा? ऐसे करने से चित्त का एकाग्र सम्पन्न होता है ॥


******

रण्डा - EXPLANATION

रण्डा -  EXPLANATION

रण्डा इति । रमु क्रीडायाम् इत्यस्माद् धातोः ञमन्ताड्डः (उ.सू.१-११७) इति ड​-प्रत्ययः । बाहुलकाद् डकारस्य इत्संज्ञा नास्ति । ततः परसवर्णः स्त्रीत्वविवक्षायां टाप् रण्डा इति रूपम् । रण्डा इत्यस्य विधवा इति प्रसिद्धः अर्थः । किञ्च रमन्ते अस्याम् (भक्ताः) इति रमते अस्यां (शिवः) इति वा विग्रहे "काली" इत्यपि अर्थः । सामान्यतया स्त्री इत्यस्मिन् अर्थेपि रण्डा इति, तत्र "रण्डा मूषकपर्ण्यां च विधवायां च योषिति" इति कोशप्रामाण्यात् । अपि च रण्डः इति छिन्नावयवः, स्त्री चेत् रण्डा इति, तथा च काल्याः एकं रुपं "छिन्नमस्तका" अपि रण्डा इति उच्यते ।


रमु धातु से रण्डा इति शब्द बनता है । इस शब्द का कई अर्थ हैं । पहला अर्थ है विधवा । दूसरा अर्थ है स्त्री । तीसरा अर्थ है काली अर्थात जिस पर भक्त लोग मातृभाव से प्रेम करते है अथवा जिस पर शिव जी प्रेम करते है । और एक अर्थ है कि जिस का अवयव खटा हुआ है अर्थात "छिन्नमस्तका" जो कि काली का एक स्वरूप है ॥

********

Saturday, April 18, 2015

॥ द्विः अण्-विधाने हेतुः ॥

॥ द्विः अण्-विधाने हेतुः ॥

पर्शु-शब्दात् "द्व्यञ्मगध​-" इत्यादिना अण् तस्य "तद्राजस्य​-" इत्यनेन लुक्, पुनः संघविवक्षायाम् "पर्श्वादियौधे-" इत्यादिना अण् तस्यापि "तद्राजस्य​-" इत्यादिना लुक्, तेन बहुवचने "पर्शवः" इति रूपं सिद्धम् । अत्र इयं शंका - द्विः अण् विधाय तस्य लुग्-विधानापेक्षया साक्षाद् "पर्श्वादि-" इत्यादिना एव अण् कुतो न विधीयते इति । अर्थात् पर्शुः इति जनपदशब्दात् अपत्ये अर्थे "द्व्यञ्मगध​-" इत्यनेन अण्, तस्य "तद्राज​-" इत्यनेन लुक् । ततः संघविवक्षायाम् अण्, तस्यापि "तद्राज​-" इत्यनेन लुक् । अत्र कुतः साक्षाद् एव जनपदवाचिनः पर्शु-शब्दात् "पर्श्वादि-" इत्यनेन अण् न विधीयते इति शंका । तस्य इदं समाधानम् उच्यते - अत्र केवलः पर्शु-शब्दः जनपदवाची, तस्माद् स्वार्थे प्रकृतसूत्रेण "पर्श्वादि-" इत्यनेन अण् विधीयते चेद् अर्थात् जनपदवाचिनः पर्शु-शब्दात् स्वार्थे अण् विधीयते चेद् जनपदवाचित्वमेव सिद्ध्यति, तच्च न इष्यते, अपत्यार्थत्वं संघवाचित्वं वा न सिद्ध्यति , तच्च अपेक्ष्यते । अतः प्रथमम् अपत्यार्थे "द्व्यञ्मगध​-" इत्यनेन अण् विधाय ततः संघवाचित्वविवक्षायां "पर्श्वादि-" सूत्रेण स्वार्थे अण् विधीयते । अत्र कश्चन अवान्तरशंका उदियात् । अपत्यार्थस्य पर्शु-शब्दस्य संघवाचित्वं कथमिति । तत्र इदं समाधानं भवति - बह्वपत्यवाचित्वं नाम संघवाचित्वम् (समूहवाचित्वम्) एव इति ॥

*******

॥ दृष्टान्त​-उदाहरणयोः भेदः ॥

॥ दृष्टान्त​-उदाहरणयोः भेदः ॥

सामान्यतया दृष्टान्तः उदाहरणम् इति द्वयमपि पर्यायवाचि । शास्त्रेऽपि क्वचित् पर्यायत्वेन दर्शितं क्वचिद् अन्यथा अपि । दृष्टः अन्तो निश्चयो यस्मिन् इति दृष्टान्तस्य व्युत्पत्तिः । अर्थात् एकस्मिन् पदार्थे दृष्टः धर्मः अन्यत्र पदार्थेऽपि (तत्समानः) दृश्यते तेन निश्चयः जायते उपमेयपदार्थस्य विषये इति । तथापि न्यायसूत्रे दृष्टान्तलक्षणं पृथग् दर्शितम् उदाहरणलक्षणं च । तद्यथा - लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं सः दृष्टान्तः इति दृष्टान्तलक्षणम् (न्यायसूत्रं-प्रथमाध्यायः सू-२७) अर्थात् यस्मिन् विषये द्रष्टॄणाम् बुद्धौ समानप्रत्ययः जायते सः दृष्टान्तः । एतदेव लक्षणं प्रकारन्तरेण उक्तं - वादिप्रतिवादिनोः संप्रतिपत्तिविषयोऽर्थो दृष्टान्तः । यथा पर्वतो वह्निमान् धूमात् महानसवद् इत्यादौ महानसो दृष्टान्तः । स द्विविधः - साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तः च । आद्यः पर्वते वह्निसाधने धूमवत्त्वस्य हेतोर्महानसः । द्वितीयः तत्रैव धूमवत्त्वस्य हेतोर्महाह्रदः ॥

तथा च उदाहरणलक्षणं यथा - साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम्, तद्विपर्ययाद्वा विपरीतम् (न्यायसूत्रं-प्रथमाध्यायः सू-३६, ३७) इति द्वेधा दर्शितम् । अर्थात् यस्य या दृशः धर्मः तादृशः धर्मः अन्यत्र दृश्यते चेत् तद् उदाहरणम् । तथैव यस्य यादृशः धर्मः नास्ति तादृशः धर्मः अन्यत्रापि न दृश्यते चेत् तद् विपरीतम् उदाहरणम् इति । शास्त्रीयशैल्या वक्तव्यं चेद् - अनुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्य-ज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठ-नियतव्यापकत्वाभिमत-सम्बन्धबोधजनकशब्दत्वम् उदाहरणत्वम् इति उदाहरणसामान्यलक्षणम् किञ्च साध्यसाधनसम्बन्धबोधकत्वं, साध्यसाधनाभावसम्बन्धबोधकत्वञ्च इति विशेषलक्षणद्वयम् । अर्थाद् इतरार्थान्वितस्वार्थाबोधकन्यायावयवत्वमुदाहरणत्वम् इति सामान्यलक्षणम् । अन्वयव्याप्तिबोधकतत्त्वं व्यतिरेकव्याप्तिबोधकतत्त्वञ्च इति विशेषलक्षणद्वयम् ॥

उदाहरणलक्षणे सूत्रकारेण शब्दद्वयमपि प्रयुक्तं "दृष्टान्तः उदाहरणम्" इति । तेन इदं स्पष्टं भवति सूत्रकारः अपि अनयोः पार्थक्यं न मन्यते इति । पुनश्च दृष्टान्त​-उदाहरणलक्षणयोरपि साम्यं दृश्यते, तेनापि इदं स्पष्टम् अनयोः भेदः नास्ति इत्येव सूत्रकारस्य मतम् इति ॥

साहित्यदर्पणे
यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।
साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् ॥
इति लक्षणम् अभिहितम् । इष्टस्य अर्थस्य साधनाय तदितरद् वाक्यं यदा दर्श्यते तद् उदाहरणम् इत्यर्थः । तत्रैव पुनः - उदाहरणमुत्कर्षयुक्तं वचनमुच्यते इत्यपि दृश्यते । इदं लक्षणं किञ्चन भिन्नमेव वस्तु निरूपयति, तस्यापि उदाहरणम् इति नाम । यथा -
देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः।
अब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरताम्
आपातालनिमग्नपीवरतनुर्जानाति मन्थाचलः॥
इति मुरारिकवेः वचनम् अत्र उदाहरणम् । एतच्च न प्रकृतम्, अतः इदं त्यजामः । दृष्टान्तस्तु सधर्म्मस्य वस्तुनः प्रतिविम्बनम् इति साहित्यदर्पणे उक्तम् । अर्थाद् एकस्मिन् वस्तुनि विद्यमानः धर्मः अपरस्मिन् वस्तुनि विद्यमानेन धर्मेण समानतां (पूर्णतः अंशतः वा)  भजन् तस्मिन् धर्मिणि स्वस्य धर्मिणः प्रतिविम्बनं यत् कारयति इति । अत्रापि दृष्टान्त​-उदाहरणयोः भेदः स्पष्टं न दृश्यते इति हेतो: उभयोरपि पर्यायत्वे न कापि क्षतिः इति ज्ञायते ॥

उपायहृदयाख्ये ग्रन्थेऽपि दृष्टान्तलक्षणं दर्शितम् इत्थं - दृष्टान्तवचनं हि यत्र पृथग्जनानामार्याणाञ्च बुद्धिसाम्यं तदा वक्तव्यम्। यथा चित्तं चञ्चलं द्रुतवायुवत्। सर्वेषां जनानां वायुचाञ्चल्यस्य प्रतीतेः इति ॥

एवञ्च यद्यपि वस्तुनोः एकस्मिन् अर्थे बुद्धिसाम्यता, साध्यसाधर्म्याद् तद्धर्मभाविता इति सूक्ष्मभेदः दृष्टान्त​-उदाहरणयोः शास्त्रे दर्शितः तथापि अनयोः लोकव्यवहारे नास्ति भेदः इत्येव निर्णयः ॥

यथाशक्ति विवरणं प्रदत्तं, स्पष्टं भवेद् इति विश्वासः ॥


******

Thursday, April 16, 2015

पर्शु-परशु-शब्दविचारः

पर्शु-परशु-शब्दविचारः

अर्धर्चाः पुंसि च (२-४-३१) पार्श्वादिषूपसंख्यानम् (वा.३-२-१५) पर्श्वादियौधेयादिभ्योऽणञौ (५-३-११७) इति त्रिषु स्थानेषु अष्टाध्याय्यां गणपाठे पर्शु अथवा पार्श्व इति शब्दः पठितः । तत्र अर्धर्चाः पुंसि च (२-४-३१) इति सूत्रे गणपाठे पठितः "पार्श्व​"शब्दः । तस्य सूत्रस्य अर्थः भवति अर्धर्चादयः पुंसि क्लीबे च स्युः इति । तथा च अत्र गणे पठितानां शब्दानाम् इदमेव प्रयोजनं ते शब्दाः पुंसि क्लीबे च भवन्ति । अत्र गणे पठितः पार्श्वशब्दः । तस्यापि प्रयोजनं - "पार्श्वम्", "पार्श्वः" इति ।

द्वितीयं वार्त्तिकं पार्श्वादिषूपसंख्यानम् (३-२-१५) इति । अधिकरणे शेते (३-२-१५) इति सूत्रम् । एतस्य अयम् अर्थः - अधिकरणे उपपदे शीङ्-धातोः अच्-प्रत्ययः स्यात्। तेन खे शेते इति खशयः इति सिद्धम् । परन्तु पार्श्वशयः इति न सिद्ध्यति । यतः तस्य विग्रहः भवति "पार्श्वाभ्यां शेते" इति । अत्र "पार्श्वाभ्याम्" इति न सप्तमी (अधिकरणम्) । तस्मात् वार्तीकारम्भः - "पार्श्वादिषूपसंख्यानम्" इति। तेन पार्श्व​-प्रभृतयः उपपदरूपेण भवन्ति चेदपि अधिकरणाभावेऽपि (सप्तम्याः अभावेऽपि) अच्-प्रत्ययः भवति । तथा च पार्श्वाभ्यां शेते = पार्श्वशयः इति सिद्धम् ॥

उपरि सूत्रद्वयेऽपि पार्श्व​-शब्दस्य रूपनिष्पत्तिविषये किमपि नास्ति । एकत्र लिङ्गविषये, अन्यत्र उपपदरूपेण पार्श्वशब्दः भवति चेत् अच्-प्रत्ययः (कृत्) इति विषये च प्रसङ्गः । किं च एताभ्यां सूत्र​-वार्त्तिकाभ्याम् उद्धृतः पार्श्व​-शब्दः समीपार्थकः, कक्षस्य अधोभागार्थकः, सन्निकृष्टार्थकः च । पार्श्वः इति जिनस्य अपि नाम । अत्र आयुधार्थः नास्ति एव ॥

तृतीये सूत्रे पर्श्वादियौधेयादिभ्योऽणञौ (५-३-११७) इत्यत्र रूपनिष्पत्तिविषयकः प्रसङ्गः । सूत्रस्य अयम् अर्थः - पर्शु इत्यादिभ्यः अण्, यौधेय इत्यादिभ्यः अञ् च भवतः यदि इमे शब्दाः आयुधजीविसंघवाचिनः भवेयुः । पर्शु+अण् = (आदिवृद्धिः, गुणः, अव्-आदेशः) पार्शवः इति तद्धितान्तं रूपम् । अत्र पार्शवः पार्शवौ पर्शवः इति रूपाणि भवन्ति । अर्थात् बहुवचने "पार्शवाः" इति न भवति, परन्तु "पर्शवः" इति भवति । अत्र पर्शु शब्दात् "द्व्यञ्म​गध-​कलिङ्ग-सूरमसादण्-" (४-१-१७०) इति सूत्रेण अण्, तस्य बहुत्वे "तद्राजस्य बहुषु तेनैवास्त्रियाम्-" (२-४-६२) इति लुक्, तदुपरि अनेन  सूत्रेण संघवाचित्वे अण्, तस्य पुनः "तद्राजस्य बहुषु तेनैवास्त्रियाम्" इति बहुत्वे लुक्, ततः "पर्शवः" इति बहुवचने रूपम् । (अत्र कश्चन विचारः अस्ति, तदत्र मास्तु) । तथा च पार्शवः पार्शवौ पर्शवः इति रूपाणि भवन्ति ॥

एतस्य "पार्शवः" इत्यस्य अर्थः भवति - पर्शुना आयुधेन जीवति यः संघः सः पार्शवः अथवा पर्शुना आयुधेन युद्ध्यते यः सः योद्धा पार्शवः ॥

परशुः पर्शुः इति शब्दौ आयुधार्थकौ (कुठारार्थे) । परान् शृणाति इति परशुः पर्शुः वा । पर​+शॄ इत्यवस्थायाम् "आङ्-परयोः खनिशॄभ्यां डिच्च​" (उ.१-३४) इति उणादिसूत्रेण कुः (कुर्भ्रश्च (उ.१-२२) इत्यतः कुः इत्यनुवर्तते । तथा च सूत्रार्थः आङ्-परस्य खनु-धातोः, पर​-परस्य शॄ-धातोश्च कुः स्यात्, स च डित्), तेन पर+शॄ+कु= (पर​+शॄ+उ=पर​+श्+उ=परशु+सु=परशुः) परशुः इति रूपम् । पर​+शुः इत्यत्र पृषोदरादित्वात् पर इति रेफोत्तराकारलोपे पर्+शुः=पर्शुः इत्यपि रूपम् इति भट्टोजीदीक्षितः । स्पृश धातोः अशुन्-प्रत्यये स्पृश इत्यस्य पृ इत्यादेशे गुणे पर्+शु=पर्शुः इति क्लिष्टकल्पनां तथापि युक्तकल्पनां करोति शब्दकल्पद्रुमकारः । उभौ अपि आयुधार्थौ एव ॥

इति परशुः, पर्शुः, पार्शवः इत्यादिशब्दानां रूपविवेकः ॥


*******