Thursday, August 20, 2015

मा मां पातु

मा मां पातु

मा मा मायते मा मातु मया मया मायते मा ।
मामामामयामायाममायां मा मा मायताम् ॥

पदार्थः
मा=लक्ष्मी:, मा=माता, मायते=मानं करोति (मापयति), (परन्तु) मा=लक्ष्मीः, मया=मया, मया=मात्रा, मायते=पूज्यते, मा मातु=(अतः) न मापयतु (परीक्षताम्) । मा=लक्ष्मीः, अमामा=मात्रा सहिता, अमया=चन्द्रस्य षोडशकलाभिः च सहिता, अमायां=अस्यां पूर्णतिथौ अमावास्यायां, अमायां=मायारहितां, मा=मां, मा=न​, मायतां=परीक्षताम् ॥ 

तात्पर्यम्
सामान्यतया लक्ष्मीः माता च सर्वान् भक्तान् परीक्षते । परन्तु, मां न परीक्षतां, यतः लक्ष्मीः मया मात्रा च पूज्यते । लक्ष्मीः मात्रा सहिता चन्द्रस्य षोडशभिः कलाभिः च युक्ता अस्याम् अमायां पूर्णतिथौ मायारहितां मां न परीक्षताम् इति काचिद् बालिका प्रार्थयते ॥

&&&&&&&

Monday, August 17, 2015

॥ अमि पूर्वः इति सूत्रार्थविचारः ॥

अमि पूर्वः (६-१-१०३) इति सूत्रम् । अकः सवर्णे दीर्घः (६-१-१०१) इति सूत्रात् अकः इति अनुवर्तते । एकः पूर्वपरयोः (६-१-८४) इति अधिकारः । इको यणचि (६-१-७७) इति सूत्रात् अचि इति अनुवर्तते । तथा च सूत्रार्थः भवति - अकः अम् इत्यस्य अवयवभूते अचि परे पूर्वपरयोः पूर्वरूपम् एकादेशः भवति इति । उदाहरणं यथा - राम+अम् इत्यत्र "राम​" इति मकारात् परः अकारः, तस्य परत्र यदि अम् इत्यस्य अवयवभूतः अकारः भवति, तदा पूर्वरूपम् एकादेशः भवति, तेन रामम् इति रूपम् । अत्र अमि परे इत्येव अस्तु "अमि अचि" इति किमर्थम् इति प्रश्नः । अचि इति अनुक्ते सति एकादेशः "अम्" इति सम्पूर्णस्य भवेत् । तद्वारणार्थं "अमि अचि" इति उक्तम् । तेन "अम् इत्यस्य अवयवभूते अचि परे" इति सूत्रार्थलाभात्  मकारसहितस्य अकारस्य आदेशः न भवति । तदर्थम् "अमि अचि" इति अचि इत्यनुवर्तनं क्रियते ॥

अत्र कश्चन विचारः । कथं तर्हि काशिकाकारेण "अमि परतोरकः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति" इति उक्तम् इति प्रश्नः । तस्य समाधानम् उच्यते - तस्मादित्युत्तरस्य (१-१-६६), आदेः परस्य (१ -१-५४) इति परिभाषासूत्रे वर्तेते । तेन परस्य आदेः एव आदेशः भवति, एकः पूर्वपरयोः (६-१-८४) इति अधिकारे पूर्वपरयोः वर्णयोः एव पूर्वरूपम् एकादेशः भवति इत्यर्थः लभ्यते । एतद् एव मनसि निधाय काशिकाकारेण तथा उक्तम् ॥

तथा च काशिकापक्षे "अचि" इत्यनुवृत्तेः आवश्यकता नास्ति इति, मनोरमाकारादीनां पक्षे "अम्" इति सम्पूर्णस्य व्यावृत्तये "अचि" इत्यस्य अनुवृत्तिः इति च सिद्धम् ॥

वस्तुतः अत्र स्पष्टार्थमेव "अचि" इत्यस्य अनुवृत्तिः इति बोद्ध्यम् ॥

&&&&&&