Wednesday, April 27, 2016

॥अमः॥

1) Sayana gives meaning of अमः as बलम् (strength or power) (R.V.6-61-8)

2) Also while explaining the mantra (R.V.5-56-3) gives meaning as “strength or power”.

3) In another place he explains अमः as सर्वतो गमनशीलं बलम् meaning “power to move in all directions” (R.V.6-93-14)

4) In Ekagnikanda “अमः means “साम (सा त्वमस्यमो’हम् = सा त्वम् असि = your are Rik, अमः अहम् = I am Saama)

5) Sayana explains अमः in (T.S.4-7-2) as “अमः = अप्रमेयत्वं विरोधिभिः इयत्तया परिच्छेत्तुम् अशक्यत्वम्। meaning “immeasurable i.e. enemies cannot measure how much it is”. So, by implication we get the meaning as “strength or power”. 

6) अमो नामासि अमा हि सर्वमिदम् (छान्दोग्य-उपनिस्द्) Here, अमः means “प्राणाः” the air that is known as प्राणाः। it is so called because it always moving with dynamism. (सर्वदा गतिमत्त्वात्) 

7) अम गत्यादिषु (भ्वादिः सकर्मकः सेट् परस्मैपदी) is the root. अमति (गच्छति) इति अमः । Meaning that “one moves”. As roots have many meanings, it is derived to mean “strength or power”.

Hence, except in S.No.4 (which is entirely different context) in all other instances अमः means "power or strength".
*****

आस्तिकः - नास्तिकः

There is a Panini Sutra "अस्ति नास्ति दिष्टं मतिः" (4-4-60). By this Sutra, we get this form "आस्तिकः" &"नास्तिकः"। This Sutra says "where there is the mind that this is" is known as आस्तिकः। "Where is the mind that this is not" is known as नास्तिकः। Only this much is the actual meaning of these words "आस्तिकः & नास्तिकः"। Now it is up to one's own intellect in what way " this is" & "this is not" are to be interpreted. So you can interpret in many ways such as "there is Veda/God/Deeds/other world" is आस्तिकः। In the same way नास्तिकः could also be interpreted.
However, in ancient days these terms were in use to convey "Veda/God/Other world". In this context Panini coined this Sutra to convey the meaning that were in vogue in those days.
...........

Saturday, April 23, 2016

॥चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते॥


This is one compound word. This can be explained in many ways as shown below:

1) चतुरविचारधुरीणमहाशिवदूतः  कृतप्रमथाधिपतिः यस्याः सा = चतुरविचारधुरीणमहाशिवदूत-कृतप्रमथाधिपतिः (बहुव्रीहिः), सम्बोधने चतुरविचारधुरीणमहाशिवदूत-कृतप्रमथाधिपते! अत्र इत्थं क्रमेण समासः –

अ) विचारे धुरीणः = विचारधुरीणः (सप्तमीतत्पुरुषः), चतुरः च विचारधुरीणः च = चतुरविचारधुरीणः (कर्मधारयः), चतुरविचारधुरीणः च शिवदूतः च = चतुरविचारधुरीणमहाशिवदूतः [(कर्मधारयः), शिवः एव दूतः (अवधारणापूर्वपदकर्मधारयः) अथवा शिवः दूतः (विशेषण-उत्तरपदकर्म्मधारयः) = शिवदूतः], कृतः प्रमथः अधिपतिः येन सः = कृतप्रमथाधिपतिः अर्थात् शिवः (बहुव्रीहिः) ।

2) चतुरा विचारधुरीणा च = चतुरविचारधुरीणा (कर्मधारयः), महाशिवः दूतः यस्याः सा = महाशिवदूता (बहुव्रीहिः), कृतः प्रमथः अधिपतिः यया सा = कृतप्रमथाधिपतिः अर्थात् दुर्गा (बहुव्रीहिः), चतुरविचारधुरीणा च महाशिवदूता च = चतुरविचारधुरीणमहाशिवदूता (कर्मधारयः), चतुरविचारधुरीणनहाशिवदूता च कृतप्रमथाधिपतिः च = चतुरविचारधुरीणनहाशिवदूत-कृतप्रमथाधिपतिः अर्थात् दुर्गा (कर्मधारयः), सम्बोधने चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते ।

3)  (चतुरविचारधुरीणमहाशिवः) दूतः कृतः यया सा = चतुरविचारधुरीणमहाशिवदूतकृता (बहुव्रीहिः), चतुरविचारधुरीणमहाशिवदूतकृता च प्रमथाधिपतिः (प्रमथानाम् अधिपतिः=प्रमथाधिपतिः अर्थात् दुर्गा, तत्पुरुषः) च = चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपतिः (कर्मधारयः) सम्बोधने चतुरविचारधुरीणमहाशिवदूतकृतप्रमथाधिपते ।

4) कृतः दूतः = दूतकृतः (कथञ्चिद् विशेषणोत्तरपदकर्मधारयः चिन्तनीयः) । अन्यत्सर्वं पूर्ववद् एव ।

एतावान् प्रयासः किमर्थं करणीयः आपतितः इति चेत् – कृतशब्दः बाधते । तस्य समीकरणार्थम् एतावान् प्रयासः अपेक्ष्यते । यदि “कृतचतुरविचारधुरीणमहाशिवदूतप्रमथाधिपते” अथवा “कृतदूतचतुरविचारधुरीणमहाशिवप्रमथाधिपते” अथवा “चतुरविचारधुरीणकृतदूतमहाशिवप्रमथाधिपते” अथवा “चतुरविचारधुरीणमहाशिवकृतदूतप्रमथाधिपते” इति अभविष्यत् तर्हि न क्लेशः । तथा क्रियते चेत् छन्दोभङ्गः प्रसज्यते । अतः स्थितस्य गतिः चिन्त्यते, तदर्थम् एतावान् प्रयत्नः अपेक्ष्यते ॥

 *******

Friday, April 22, 2016

Iron Weapons


सोमारुद्रा धारयेथामसुर्यं पर वामिष्टयोऽअरमश्नुवन्तु 
                              दमे दमे सप्त रत्ना दधाना शं नो भूतं दविपदेशं चतुष्पदे ॥ (6-75-1)
In this Rik, सप्त रत्ना = seven gems are mentioned. So during Rigvedic time, people were aware of gems.
                             तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मर्ळतं नः  
                             पर नो मुञ्चतं वरुणस्य पाशाद गोपायतं नः सुमनस्यमाना ॥(6-75-4) 
In this Rik, तिग्मायुधौ=bright bows (weapon), तिग्महेती=sharp arrows (weapons) are mentioned. This may be an indication of metal weapons, though not directly.
                             आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम्  
                             इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः  (6-75-15)
In this Rik, आलाक्ता=oiled with poison, (arrows) रुरुशीर्ष्णी=with killer head, अयो मुखम्=which have iron-made tip is mentioned. Here, it is clearly mentioned about iron.
                             देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन्  (10-28-8)
In this Rik, देवासः=Gods, परशून्=with axes, आयन्=came is mentioned. Here, the weapon “axe” is clearly mentioned. However, Sayana defines परशु as वज्रायुध ।
Thus, so manu instances can be quoted for iron or weapon of various metals.
******


Sunday, April 17, 2016

Significance of Shikha and Yajnopavitam

Before starting Japa or Puja, one should touch his Shikha chanting a mantra “शक्त्यै शिखायै वैषट्”. So if Shikha is not there, one is not even eligible for Japa or Puja. Sushrut says “तत्रापि सद्यो मरणं मस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः तत्रापि सद्य एव The supreme sensitive spot on the head is Adhipati Marma, where is the nexus of all nerves, and a joint. An injury to the Adhipati Marma the verticalgroove on the frontal bone, which is marhed in the inner side of the roof of cranium by the Sira Sannipata (superior langtitutinal sinus) and on the exterior side by the ringlet of the hair (Romavarta) proves fatal within the day. (Sushrut Samhitã 6/71). Below this pint lies Brahmarandhra where Sushama Nadi arrives from the lower part of the body. Yoga Shastra describes Brahmarandhra is the highest point known as Seventh Chakrs. Shikha protects this point, hence Shikha is significant.


Yajnopavitam (यज्ञोपवीतम्) is a symbolic triad thread worn by Brahmana, Kshatriya and Vaishya. This thread is symbol to that one is eligible for performing Yajnas. यज्ञोपवीतम् means यज्ञार्थम् उपवीतम् i.e. thread worn for sacrifice. This thread makes one eligible to perform Yagaas. It is said – यज्ञोपवीतं परमं पवित्रं प्रजापतेः यत्सहजं पुरस्तात् । आयुष्यम् अग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ Meaning wearing this most sacred thread gives us long-life, strength etc. Some acts have direct benefits and some have indirect benefits. This has direct and indirect benefits. Direct is making us eligible for performing Yagaas and Pujas and gives us long life etc. Indirect is it is said as “sacred” which though does not have any direct benefit; it will help us to go near the ultimate wisdom (a belief). This thread is of various types and made of various materials.    

Friday, April 15, 2016

आर्यावर्तः कः?

शूद्राणाम् अनिरवसितानाम् (2-4-10) इति सूत्रम् । पृषोदराणि यथोपदिष्टम् (6-3-109) इति अन्यत्सूत्रम् । एतस्मिन् सूत्रद्वये आर्यावर्तलक्षणम् आह भगवान् भाष्यकारः । तच्च इत्थम् –
शूद्राणाम् अनिरवसितानाम् (2-4-10) अत्र इदं भाष्यम् –

अनिरवसितानाम् इति उच्यते । कुतः अनिरवसितानाम् ? आर्यावर्तात् अनिरवसितानाम् । कः पुनः आर्यावर्तः ? प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति सिध्यति । एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् । कः पुनः आर्यनिवासः ? ग्रामः घोषः नगरम् संवाहः इति  एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः वसन्ति तत्र चण्डालमृतपाः इति सिध्यति । एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् । एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति सिध्यति । एव म् तर्हि पात्रात् अनिरवसितानाम् । यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः । यैः भुक्ते संस्कारेण अपि शुध्यति ते निरवसिताः

अत्र कुतः अनिरवसिताः इति पृष्ट्वा आर्यावर्तात् इति समाहितम् । कः आर्यावर्तः इति तल्लक्षणमुच्यते इत्थं - प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् इति । इदं सूत्रं द्वन्द्वप्रकरणगतम् । अनेन सूत्र्रेण एकत्वं प्रतिषिध्यते । यदि आर्यावर्तात् बहिर्भूतानाम् इत्यर्थः क्रियते तर्हि किष्किण्धाः च गन्दिकाः च = किष्किन्ध-गन्दिकम् इति एकत्वम् इष्यते । तत् न सिध्यति बहुत्वं प्राप्नोति । तदर्थं तर्हि आर्यनिवासाद् बहिर्भूताः इत्युच्यते । तथा चेत् महत्सु निवासस्थानेषु यत्र आर्याः एकत्र, चन्डालाः मृतपाः च अन्यत्र निवसन्ति तत्र चन्डालाः च मृतपाः च = चण्डाल-मृतपाः इति इष्यते, तच्च न सिध्यति, यतः तेषामपि आर्यनिवासे (महति) अन्तर्भावात् । तर्हि यज्ञात् कर्मणः ये बहिर्भूताः इत्युच्यते । तथा चेदपि तक्षाः च अयस्काराः च = तक्षायस्कारम् इति इष्यते तच्च न सिध्यति । तर्हि पात्रात् अनिरवसितानाम् इत्युच्यते । तथा सति इष्टं सिध्यति । एवञ्च अनिरवसितानाम् इत्यस्य यैः भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः (बहिर्भूताः), यैः भुक्ते पात्रं संस्कारेण शुध्यति अनिरवसिताः (अन्तर्भूताः) । अस्मिअन् प्रकरणे प्रसङ्गवशात् आर्यावर्तलक्षणम् अभिहितं भगवता भाष्यकारेण ॥

पृषोदराणि यथोपदिष्टम् (6-3-109) अत्र इदं भाष्यम् –
पृषोदरादीनि इति उच्यते कानि पृषोदरादीनि ? पृषोदरप्रकाराणि । कानि पुनः पृषोदरप्रकाराणि ? येषु लोपागमविकाराः श्रूयन्ते उच्यन्ते अथ यथा इति किम् इदम् ? प्रकारवचने थाल् अथ किम् इदम् उपदिष्टानि इति । उच्चारितानि । कुतः एतत् ? दिशिः उच्चारणक्रियः । उच्चार्य हि वर्णान् आह उप्दिष्टाः इमे वर्णाः इति । कैः पुनः उपदिष्टाः ? शिष्टैः । के पुनः शिष्टाः ? वैयाकरणाः  कुतः एतत् ? शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः शास्त्रज्ञाः । यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकम् शास्त्रम् तत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि प्रकल्पन्ते । एवम् तर्हि निवासतः आचारतः । सः आचारः आर्यावर्त्ते एव । कः पुनः आर्यावर्त्तः ? प्राक् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । एतस्मिन् आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किम् चित् अन्तरेण कस्याः चित् विद्यायाः पारगाः तत्रभवन्तः शिष्टाः । यदि तर्हि शिष्टाः शब्देषु प्रमाणम् किम् अष्टाध्याय्या क्रियते । शिष्टज्ञानार्था अष्टाध्यायी । कथम् पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुम् ? अष्टाध्यायीम् अधीयानः अन्यम् पश्यति अनधीयानम् ये अत्र विहिताः शब्दाः तान् प्रयुञ्जानम् । सः पश्यति । नूनम् अस्य दैवानुग्रहः स्वभावः वा यः अयम् अष्टाध्यायीम् अधीते ये अस्यम् विहिताः शब्दाः तान् प्रयुङ्क्ते । नूनम् अयम् अन्यान् अपि जानाति । एवम् एषा शिष्टज्ञानार्था अष्टाध्यायी

कानिचन रूपाणि व्याकरणप्रक्रियया न सिध्यन्ति, तथापि तानि शिष्टैः परिगृहीतानि अर्थात् प्रयुक्तानि, तेषां यथा यथा शिष्टैः प्रयुक्तं तथैव साधुता इति निर्णयः अनेन सूत्रेण क्रियते । अत्र प्रसङ्गवशाद् शिष्टानां ब्राह्मणानां निवासदेशः आर्यावर्तः इत्युक्त्वा आर्यावर्तस्य लक्षणम् अभिहितं भगवता भाष्यकारेण ॥

उभयत्रापि आर्यावर्तलक्षणं समानम् एव । तच्च यथा प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । अत्र प्रकरणे निवासतः आचारतश्च इत्युक्तत्वात्, स च आचारः आर्यावर्ते एव इति च उक्तत्वात् आर्यावर्तः परिच्चिन्नभूमिभागः (देशविशेषः) इति स्पष्टं ज्ञायते ।

मत्स्यपुराणे सप्तानां कुलपर्वतानां नामानि उक्तानि तानि यथा – “सप्त येऽस्मिन् महापर्व्वा विस्तृताः कुलपर्व्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि

विन्ध्यश्च पारिपात्रश्च इत्येते कुलपर्व्वताःइति । श्रेष्ठपर्वतानां नामसु अपि बिन्ध्यश्च पारिपात्रश्च कैलासो मन्दरस्तथाइति पारियात्रः दृश्यते । किञ्च पारियात्रपर्वतोद्भवनदीजलस्य गुणः इत्थं वर्णितः – हिमवत्प्रभवा याश्च जलं तास्वमृतोपमम् । पारिपात्रभवा याश्च बिन्ध्यर्क्षप्रभवाश्च याः ॥ शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य । चन्द्रार्ककरसंस्पृष्टं वायुनास्फालितां मुहुः ॥ पर्व्वतोपरि यद्बारि समं पौरन्दरेण तत् । तस्यानुगुणमुद्दिष्टं शैलप्रस्रवणोद्भवम्  लेखनं दीपनं रूक्षं किञ्चिद्वातप्रकोपणम्इति । सुमेरोः पश्चिमायां दिशि विद्यमानेषु पर्वतेषु पारियात्रस्य नाम दृश्यते सहस्रशिखरश्चाद्रिः पारिपात्रः शृङ्गवान्इति ।

अत्र आदर्शात् इत्यस्य केचन अदर्शात् इत्यपि वदन्ति पाठम् । तद्दृष्ट्या सरस्वतीनद्याः अदर्शनक्षेत्रम् इति मतम् । कालकवनम् अद्यतनः प्रयागः इति विद्वांसः । अत्र भूगोलविदः परस्परं विवदन्ते । तथा च यत्र सरस्वतीनदी लुप्यते तत्स्थानम् अर्थात् कुरुक्षेत्रं, कालकवनम् अर्थात् प्रयागः, पारियात्रः अर्थात् विन्ध्यपर्वतः, हिमवान् इत्येतेषां स्थानानां मध्यवर्ती भूभागः आर्यावर्तः इति अनुमातुं शक्यते । अत्र बहूनां मतानि बहुधा वर्तन्ते । केचन भारताद् बहिर्भूतं भूभागमपि आर्यावर्ते अन्तर्भावयन्ति । वस्तुतः अत्र आर्यावर्तस्य लक्षणम् उक्तम्, न तु जम्बूद्वीपस्य वा सप्तानां द्वीपानां वा । अतः भारताद् बहिर्भूतः भूभागः आर्यावर्ते भवितुं नार्हति । एतस्य सामान्यज्ञानार्थं चौखम्बासंस्कृतप्रतिष्ठानेन प्रकाशितं (1987 संस्करणं) महाभास्यं द्रष्टुं शक्यते यत्र प्रथमपुटे एव मानचित्रम् आर्यावर्तस्य प्रदर्शितं वर्तते । परन्तु इदमेव अन्तिमो निर्णयः इति न ग्राह्यः । आर्यावर्तलक्षणं भगव्ता भाष्यकारेण उक्तम् आधुनिकदृष्ट्या परिच्छेत्तुम् इतोपि अनुसन्धानम् अपेक्ष्यते । अत्र धर्मसूत्रकाराणां बोधायनप्रभृतीनामपि विशिष्टं किञ्चित् मतं वर्तते । तत्सर्वं परिशील्य आधुनिकदृष्ट्या च भूभागं विचार्यैव निर्णयः कर्तुं शक्यते । मम मतं सम्प्रति कुरुक्षेत्रं, प्रयागः, विन्ध्यः, हिमवान् इति चतुर्णां मध्यवर्ती भूभागः एव आर्यावर्तः ।

एतेन दाक्षिणात्याः न शिष्टाः इति न मन्तव्यम् । शिष्तत्वं भिन्नम् आर्यावर्तलक्षणं भिन्नम् । अत एव भगवान् भाष्यकारः शिष्टलक्षणे अलोलुपाः कुम्भीधान्याः अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारङ्गताः शिष्टाः इत्याह । शिष्टत्वं याज्ञिकत्वं च दाक्षिणात्येष्वपि वर्तत एव ॥
*******