Friday, January 2, 2015

A SHLOKA FROM BALARAMAYANA

आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधिः
त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां गुरुः ।
वर्ण्यं वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ
देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥

अन्वयः इत्थं – असौ, कवीनां गुरुः (राजशेखरः), आपन्नार्तिहरः, पराक्रमधनः, सौजन्यवारांनिधिः, त्यागी, सत्यसुधाप्रवाहशशभृत्कान्तः, तस्य, गुणरत्नरोहणगिरेः, किं, वा, वर्ण्यम् ! असौ, साक्षात्, देवः, यस्य, शिष्य:, रघुग्रामणीः, महेन्द्रपालनृपतिः

पदार्थः इत्थं – (असौ = एषः), कवीनां गुरुः (राजशेखरः), आपन्नार्तिहरः - आपन्नानां पीडाप्रशमयिता, पराक्रमधनः = शूरः, सौजन्यवारांनिधिः = साधुतमः, त्यागी = दानशीलः, सत्यसुधाप्रवाहशशभृत्कान्तः = सत्यमेव सुधाप्रवाहः यस्य सः, शशभृत्कान्तः = चन्द्र इव कान्तियुतः, तस्य = तादृशस्य, गुणरत्नरोहणगिरेः = गुणरत्नानां रोहणस्य = उत्पत्तेः, यः पर्वतः तत्स्वरूपस्य (रोहणाभिधः कश्चित् पर्वतः तत्तुल्यस्य​), किं वा वर्ण्यम् ! असौ साक्षाद् देवः, रघूणां = रघुवंशीयानां, ग्रामणीः = धुरन्धरः, महेन्द्रपालनृपतिः = महेन्द्रपालनामा राजा, यस्य = राजशेखरस्य​, शिष्यः ॥

कानिचन विशेषणानि राजविशेषणत्वेनापि नेतुं शक्यन्ते ॥


This shloka talks about the Poet of Balaramayana - a Sanskrit Drama based on Ramayana. Here, the Poet is praised for his various qualities. Rajashekhara, whose disciple is Mahendrapala - the King belonged to Raghuvamsha (the clan of Sri Rama) is remover the hardships of the persons who take refuge, has valour as his wealth, Good in nature, philanthropist, always stood by truth thereby glowing like a Moon, and is like a Mount where-from precious character gems are originated.

No comments: