Sunday, April 5, 2015

Netra Tantram - 6th Chapter - Verse - 42

॥ नेत्रतन्त्रे षष्ठे अधिकारे द्विचत्वारिंशः श्लोकः ॥

चतुर्नवामृताधारं नवधा नवपूरितम् ।
शतार्धक्षोभितं नित्यं षट्पञ्चैकसमन्वितम् ॥

चतुर्थे नव = चतुर्नव अर्थात् ४x९=३६ । नवधा = नवप्रकारेण, नवभिः पूरितं = नवपूरितम् अर्थात् ९x९=८१ । शतार्धेन क्षोभितं = शतार्धक्षोभितं, शतार्धं = ५० । षट् पञ्च एकम् = षट्पञ्चैकम् अर्थात् ६, , १ ।

पदार्थः -

चतुर्नवामृताधारं = (चतुर्थे नव = चतुर्नव​, चतुर्नव एव अमृतं = चतुर्नवामृतं, चतुर्नवामृतम् एव आधारः यस्य तत् = चतुर्नवामृताधारम्) षट्त्रिंशत्-तत्त्वरूपम् अमृतं यस्य आधारः तत् अर्थात् षट्त्रिंशत् अमृतरूपं तत्त्वाधारम्,
नवधा = नवप्रकारेण (शिव-सदाशिवादि नव​)
नवपूरितम् = (नवप्रकाराणां) प्रत्येकं नवभिः अर्थात् ९x९=८१ एकाशित्या पदैः सम्पूर्णम्, अर्थात् नवात्म व्योम​-व्याप्यादि-पञ्चीकरण​-प्रक्रियाभिः नवभिः शिव​-सदाशिवादिभेदेन नवप्रकाराः यदि समीक्रियन्ते तदा आहत्य ८१ प्रकाराः भवन्ति
शतार्धक्षोभितम् = (शतार्धेन क्षोभितम्) अ-इत्यारभ्य क्ष​-इति पर्यन्तं ५० वर्णाः (नेत्रतन्त्रानुसारेण​) तैः वर्णैः व्याप्तम्,
नित्यं = सर्वदा
षट्पञ्चैकसमन्वितम् - षड्बिः = षद्भिः अङ्गैः, पञ्चभिः = पञ्चभिः वक्त्रैः, एकेन = एकेन मूलेन च सम्यग् अन्वितम् अर्थात् साध्यमन्त्रसंहितापूर्णम् (अस्य श्लोकस्य अग्रिमश्लोकेन अन्वयः) ।

तात्पर्यम् – षट्त्रिंशत्-तत्त्वरूपामृतम् आधाररूपेण वर्तमानं, एकाशीत्या पदैः सम्पूर्णं, पञ्चाशता वर्णैः व्याप्तं, षड्भिः अङ्गैः पञ्चभिः वक्त्रैः एकेन मूलेन च सम्यग्-रूपेण संयुक्तम् (तीर्थं तेन यः अभिषिच्यते सः नूनं मोक्षं प्राप्नोति एव​) ॥

हिन्दी – ३६ तत्त्वों को आधार रुप में रखनेवाले, ८१ पदों से सम्पूर्ण शिव-सदाशिव आदि नव प्रकारों यदि व्योमव्याप्य नौ प्रक्रियाओं से समीकरण करेंगें तब ९x९=८१ भेद होते हैं, ५० वर्णो से (अ से लेकर क्ष तक ५० वर्ण नेत्रतन्त्र के अनुसार​) व्याप्त​, ६ अङ्गों ५ मुहों तथा १ मूलाधार से अच्छी तरह युक्त (जल से अभिषेक जिसे होगा वह अवश्य ही मोक्ष को प्राप्त करेगा) ॥

English -   Which stands on the foundation of 36 Tattvaas, which is filled with 82 steps (9 kinds of Shiva-Sadaashiv etc., if infused with 9 other processes then we get 81 types), which is pervaded with 50 letter from “a” to “ksha” (as per Netra Tantra), which is well united with 6 parta, 5 faces and 1 centre point (if that auspicious water is sprinkled on a person certainly he will get liberation).


******

1 comment:

Saujanya jha said...

Please explain नवात्म