Monday, November 23, 2015

संयमः

देशबन्धश्चित्तस्य धारणा।।3.1।। 
इति सूत्रम्। अर्थात् कस्मिन् चित् देशे (पदार्थे) नाभिचक्रे, हृदयमूले, शिरसः ऊर्ध्वभागे, नेत्रे, नासिकायाः अग्रभागे, जिह्वायाः अग्रभागे अन्यत्र वा बाह्यविषये (चित्रे, विग्रहे, स्तम्भे इत्यादिषु वा) चित्तस्य बन्धः स्थापनम् एव धारणा भवति ।।
तत्र प्रत्ययैकतानता ध्यानम्।।3.2।। 
इति उत्तरसूत्रम् । यत्र पूर्वसूत्रोक्तरीत्या एकस्मिन् देशे चित्तं स्थापितं तत्र ज्ञानस्य अन्यविषयचिन्तनं विना निरन्तरम् अविच्छिन्नरूपेण स्थापनं ध्यानं भवति । अर्थात् चित्तस्य एकस्मिन् देशे स्थापनं धारणा, तत्र अन्यविषयचिन्तनं विना ज्ञानस्य एकत्र स्थापनं ध्यानं भवति ।।

तदेवार्थमात्रनिर्भास स्वरूपशून्यमिव समाधिः।।3.3।। 
इति अनन्तरसूत्रम्। सम्यग् आधीयते एकाग्रीक्रियते विक्षेपान् परिहृत्य मनः यत्र सः समाधिः। अर्थात् यत्र “अहं ध्यानकर्ता, इदं ध्यानं, इदं ध्यायते” इत्यादि ज्ञानं यस्मिन् अवस्थायां न भवति सः समाधिः भवति । अर्थात् यत्र शून्यमिव यदा भवति सः समाधिः भवति ।।
त्रयमेकत्र संयमः।।3.4।। 
इति अग्रिमं सूत्रम्। यत्र उपर्युक्तं त्रयमपि भवति सः संयमः भवति। अर्थात् यत्र एकस्मिन् विषये चित्तं स्थाप्यते, तदा इतरविषयाणां चिन्तनं न भवति, एवं “अहं ध्याता, इदं ध्येयं, इदं ध्यानं” इति चिन्तनं विना शून्यमिव यदा भवति इति त्रयमपि सम्भूय संयमः इति ज्ञायते ।
तादृशस्य संयमस्य फलं भवति प्रज्ञायाः आलोकः । यः संयमी भवति सः ईश्वरप्रसादात् (समाधि) प्रज्ञां प्राप्नोति ।

एतेन समाधिज्ञानेन सर्वेषां भुवनानां यथावत् ज्ञानं जायते । यः सूर्ये संयमं करोति तस्य -
ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्।
माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः।।
इत्युक्तरीत्या सर्वं यथावत् दृश्यते । एवमेव यः चन्द्रे संयमं करोति तस्य नक्षत्राणां विशिष्टव्यवस्थापनक्रमः दृश्यते ।।
तथा च संयमस्य फलं महत्तरं भवति। परन्तु इदं न परमम् उद्देश्यं, परमम् उद्देश्यं भवति असंप्रज्ञातसमाधिः (कैवल्यम्) इति ।।

No comments: