Monday, August 1, 2016

निशमय

धातोरमन्तत्वेन ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग. सू. भ्वादिः) इति मित्त्वम् । तेन
‘मितां ह्रस्वः’ (6-4-92) इति णौ सर्वत्र ह्रस्वः । ‘शमो दर्शने’ (ग. सू. भ्वादिः)
इति दर्शनार्थे मित्त्वं निषिद्धम् । एवञ्च ‘निशामयति रूपम्’ इत्यत्र मित्त्वाभावात्
दीर्घः, ‘निशमयति वचः’ इत्यत्र मित्त्वम्, इति बोध्यम् । इति त। कृदन
तरूपमालायाम्। तथा च निशामयति निशमयति इति उभयं साधु। लोटि मध्यमपुरुषैकवचने ह्रस्वपक्षे "निशमय" इति रूपम्।।
वचो निशम्याधिपतिर्दिवौकसाम् ।’
इत्यादौ अनेकार्थत्वात् श्रुत्वेत्यर्थः ॥ "वा शम-यम" इत्यत्र वाशब्दस्य व्यवस्थावाचित्वाद् अस्य ञौ नित्यं ह्रस्वे शमयति । इति निशमयति इत्यत्र ह्रस्वः। तथा च लोटि "निशमय" इति रूपम्।।

No comments: