Saturday, September 3, 2016

लटः शतृशनचावप्रथमासमानाधिकरणे


लटः शतृशनचावप्रथमासमानाधिकरणे (३।२।१२४) इति सूत्रम्। लटः शतृ शानच् इत्यादेशौ भवतः, अप्रथमान्तेन (द्वितीयादिभिः विभक्तिभिः) सामानाधिकरण्यं चेत्, प्रथमया सामानाधिकरण्यं चेत् न भवतः इति सूत्रार्थः। तथा च गच्छन्तं देवदत्तं, गच्छता देवदत्तेन​, गच्छते देवदत्ताय​, गच्छतः देवदत्तात्, गच्छतः देवदत्तस्य, गच्छति देवदत्ते इत्यादीनि उदाहरणानि। अत्र विचारः "गच्छन् देवदत्तः", "सेवमानः देवदत्तः" इति "देवदत्तः" इति प्रथमया समानाधिकरणे कथं शतृ शानच् इति आदेशौ इति॥

अत्र काशिकारः - "क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे। मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणम् अनुवर्तयन्ति नन्वोर् विभाषा ३।२।१२१ इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः" इति। तथाच "पठन् देवदत्तः", "पचमानः देवदत्तः" इत्यादिः प्रयोगः सिद्ध्यति॥

अत्र एतस्य काशिकाकारवचनस्य किं मूलम्? इति प्रश्नः उदियात्। तस्य समाधानम् इत्थम् - "न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यं । वक्तव्यं च । किं प्रयोजनम् । नित्यार्थम्। अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् । क्व तर्हि इदानीं विभाषा । प्रथमासमानाधिकरणे । पचन् पचति, पचमानः पचते इति" इ ति भाष्यम् अत्र प्रमाणम्॥

तथा च प्रथमासमानाधिकरणे शतृ शानच् इत्यादेशौ विकल्पेन भवतः। द्वितीयादिविभक्तिभिः समानाधिकरणे नित्यं भवतः । यथा - देवदत्तः पचति, अत्र विकल्पेन शतृ शानच् च भवतः, तेन "देवदत्तः पचति" अथवा "देवदत्तः पचन्" ("देवदत्तः पचमानः") इति। एवं च "देवदत्तेन पता" "देवदत्तेन पचमानेन​" इत्येव न तु "देवदत्तेन पचति" "देवदत्तेन पचते" वा॥

एवं च प्रथमासमानाधिकरणे विकल्पः, अप्रथमासमानाधिकरणे नित्यम् इति सिद्धम्॥

_______