Saturday, July 18, 2015

हैमाष्टकम् Explained as Vishnu Stuti by श्लेष​

The Same हैमाष्टकम्  is explained as Vishnu Stuti here by श्लेष​

 हैमाष्टकम् 

स्वयम्भू राजते शिवः धृत्वा हैमम् अलौकिकम् ।
स्वयञ्च लुप्यते यश्च स्मारयन् जीवितं क्षुद्रम् ॥१॥

स्वयम्भूः=स्वतः उत्पन्नः न केनापि प्रतिष्ठापितः, शिवः=शिवं कल्याणं अस्ति अस्मिन्, श्यति अशुभम् इति वा शिवः विष्णुः, अलौकिकं=अप्राकृतिकं, हैमं=हिममयं नरनारायणाख्यं हिमरूपं, धृत्वा=धारयन्, राजते=प्रकाशते । स्वयं च=स्वयमेव​, लुप्यते=अन्तर्दधाति, यः च​=यः विष्णुः (मासषट्कं बदरिकाश्रमे म्थित्वा ततः मासषट्कं लुप्यते, ज्योतिर्मठं प्रति गमनात्), जीवितं=जीवनं, क्षुद्रं=क्षणिकम् इति, स्मारयन्=बोधयन् (जनान् लोकान्) ॥१॥

विभूतिं दर्शयन् स्वस्य भक्तानाकर्षति स्वयम् ।
पर्वते चापि पाषाणे नयत्यप्राकृतं शुभम् ॥२॥

स्वस्य​=स्वकीयस्य​, विभूतिं=विभवहेतुभूतां लक्ष्मीं, तथा च उक्तं कूर्मे - "ऐश्वर्य्यं तस्य यन्नित्यं विभूतिरिति गीयते" इति । अपि च "विभूतिरस्तु सूनृता" इति ऋग्वेदभाष्ये "विभूतिः=लक्ष्मीः" इति सायणः । दर्शयन्=प्रकाशयन्, भक्तान्=भागवतान्, स्वयं=स्वयमेव, आकर्षति=वशीकरोति ।पर्वते च​=नरनारायणाख्ये पर्वतविशेषे, पाषाणे अपि=शालग्रामादिशिलास्वपि, अप्राकृतं=अलौकिकं, शुभं=कल्याणं, नयति=प्रापयति ॥२॥

नद्या धावितौ चरणौ तस्यामेकीभवन्मरो ।
बोधयन् मायाऽस्थिरतां जायते ह्यमरो नाथः ॥३॥

नद्या=अन्तर्वाहिनीसरस्वतीयुतया अलकनन्दया नद्या, धावितौ=प्रक्षालितौ, चरणौ=पादौ तव​, तस्याम्=तस्याम् अलकनन्दायाम्, एकीभवन्=लयं प्राप्नुवन् (जलरूपं धारयन्, विष्णुः मन्त्ररूपी बद्रिकाश्रमे, वनरूपी नैमिशारण्ये, अन्नरूपी श्रीजगन्नाथे तद्वद् जलरूपेण सर्वत्र जलेषु), मरः=मर्त्यलोकः अर्थात् भूमिः (स्वयं मर्त्यः जायते सौलभ्यात्) जायते । तेन मायाऽस्थिरतां=मायाजीवनस्य क्षणिकतां, बोधयन्=स्मारयन्, हि, अमरः नाथः=देवनाथः, जायते=भवति । अर्थात् मररूपेण विद्यमानोऽपि अमरनाथः जायते इति चमत्कृतिः ॥३॥

सेव्यमानः कपोताभ्यां सुखदुःखे श्वेतनीले ।
जीवनस्य क्रमागते पक्वं करोति मानसम् ॥४॥

कपोताभ्यां=कं च पोतः च​=कपोतौ ताभ्यां अर्थात् केन​=जलेन​, पोतेन​=पोतरूपेण आदिशेषेण च​, सेव्यमानः=भजमानः, जीवनस्य​=जीवितस्य​, क्रमागते=क्रमेण आगते, श्वेतनीले=क्षीरसागरस्य श्वेतत्वं, आदिशेषस्य कृष्णत्वं च​, सुखदुःखे=सुखस्य दुःखस्य च प्रतीके (इति दर्शयन्), मानसं=जनमानसम् अर्थात् भक्तमानसं, पक्वं=स्थिरं, करोति=कुरुते ॥४॥

ददद् श्रान्तिं गते मार्गे शीतं करोति सन्निधौ ।
पीडां विस्मृत्य ते रूपे हैमे मज्जति मानवः ॥५॥

गते=अतीते, मार्गे=जीविते, श्रान्तिं=श्रमेण उत्पन्नं कष्टं, ददत्=ददानः, सन्निधौ=तव समीपे आगते सति, शीतं=सुखमयं, करोति=कुरुते, मानवः=मनुष्यः, पीडां=संसारवेदनां, विस्मृत्य​=अविचिन्त्य​, ते=तव​, हैमे=सुवर्णमये हिममये वा, रूपे=मूर्तौ "आप्रणखात् सर्व एव सुवर्णः" इति छान्दोग्ये (१-६-६) श्रूयमाणत्वात् हैमो विष्णुः तद्रूपे, मज्जति=निमग्नः जायते ॥५॥

शिखरे च समासीनः सर्वं पश्यति शीतलम् ।
घर्मं करोति देहं च शीतले हिमपर्वते ॥६॥

शिखरे=नरनारायणाख्ये हिमशिखरे, समासीनः=स्थितः च​, सर्वं=निखिलं लोकं, शीतं=शान्तं, पश्यति=अवलोकयति, तव दर्शनाय आगते सति शीतले=शीतयुक्ते, हिमपर्वते=हिमालये, देहं च​=अस्माकं शरीरं हि, घर्मं=औष्ण्यं, करोति=कुरुते । अर्थात् शीतले अपि हिमालये अस्माकं शरीरं तप्तकुण्डेन औष्ण्यं रक्षति ॥६॥

झराणां प्रवहद्धाराऽनुकम्पारसस्य ते ।
दयाऽक्षयाऽस्तु ते पूर्णा शैवं भवतु ते वरम् ॥७॥

ते=तव​, अनुकम्पारसस्य​=करुणारसस्य​, यथा देशिकैराह - प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया इक्षुसारस्रवन्त्येव यन्मूर्त्या शर्करायितम् इति तद्वत् । झराणां=निर्झराणां, प्रवहद्धारा=प्रवहन्ती धारा, दया=करुणामयी, अक्षया=ह्रासरहिता, पूर्णा=परिपूर्णा च​, अस्तु=भवतु । ते=तव​, वरं=प्रसादः, शैवं=मङ्गलकारि, भवतु=अस्तु ॥७॥

कैलासे राजते नित्यं योगमुद्रां ददत्सदा ।
शीतलं चक्षुरुन्मील्य मासस्द्वौ पश्यति भृशम् ॥८॥

कैलासे=के=जले, लसः=लसनं दीप्तिः अस्य इति केलसः हलन्तात् सप्तम्या इति अलिक्समासः । केलसः आदिशेषः केलसः एव कैलासः, तस्मिन्, अर्थात् क्षीरसागरे आदिशेषे, नित्यं=सर्वदा, योगमुद्रां=परमयोगमुद्रां, अर्थात् उपायरूपां मुद्रां शरणागतानां रक्षणे तत्परमुद्रां प्रपतीरूपां मुद्रां वा धारयन्, ददत्=धारयन्, सदा=सर्वदा, राजते=विराजते । शीतलं=शीतयुतं, लक्ष्मी-भूदेवीसमेतत्वात् शीतलत्वं, चक्षुः=नेत्रं, उन्मील्य​=उद्घाट्य​, द्वौ=उभौ, मासः=चन्द्र​-सूर्यौ, माति परिच्छिनत्ति कालम् इति मास् चन्द्रः सूर्यः च​, तथा च अदधुर्मास्यक्तून् इति ऋग्भाष्ये "मासि=चन्द्रमसि" इति सायणः । भृशं=अतिशयं, पश्यति=विलोकयति सर्वदा मेघाच्छन्नत्वात् हिमाच्छन्नत्वाद्वा चन्द्र​-सूर्ययोः दर्शनम् अतिशयेन एव जायते ॥८॥

य इदमष्टकं भक्त्या पठेत्प्रतिदिनं नरः ।
यात्रायाः फलमाप्नोति हैमो देवः प्रसीदति ॥९॥

यः नरः=यः मानवः, इदम्=एतत्, अष्टकं=अस्टौ पद्यानि, भक्त्या=भक्तिपूर्वकं, प्रतिदिनं=प्रतिदिवसं, पठति=जपति, सः यात्रायाः=बद्रिकाश्रमयात्रायाः, फलं=पुण्यं, आप्नोति=प्राप्नोति, हैमः=सुवर्णबिन्दुः अक्षोभ्यः इत्युक्तः हिममयः, देवः=भगवान् नारायणः, प्रसीदति=तस्मिन् प्रसन्नो भवति ॥९॥

*****

No comments: