Sunday, September 13, 2015

धरा-वन्दना

धराऽधरा पराऽपरा वराऽवरा धुराऽधुरा ।
सुराऽसुरा हराऽहरा खुराऽखुरा  भराऽभरा ॥

धरा=ध्रियते शेषेण​, अधरा=न ध्रियते च​, परा=उत्कृष्टा, अपरा=न पूर्यते इति, वरा=श्रेष्ठा, अवरा=न श्रेष्ठा यस्याः सा, धुरा=भारयुता, अधुरा=भारशून्या च​, सुरा=सुष्ठु राति (ददाति) अभीष्टम् इति, असुरा=न मदा, हरा=हरति पापानि, अहरा=न हरति विभाजयति (सर्वम्), खुरा=खुरति (छिनत्ति) दुष्कर्म इति, अखुरा=न खुरति (छिनत्ति) लोकान्, भरा=भारयुता, अभरा=न भरा (अतिशयः) यस्याः सा ॥ तादृशी इयं भूमिः इति तात्पर्यम् ॥

No comments: