Wednesday, September 9, 2015

स्त्रीणां नामानि

॥ स्त्रीणां नामानि ॥


आधुनिके काले "मुदिता शर्मा", "रमा भट्टः" इत्यादीनि नामानि स्त्रीणां श्रूयन्ते । गृहिणीनां परिचयकाले "एषा मिसर्स् जगन्नाथः (Mrs.Jagannath)", "मिसर्स् सुदर्शनः (Mrs.Sudarshan)" इत्यादिरपि श्रूयते। एतेषां साधुत्वं कथम्? वस्तुतः शास्त्राणुसारेण "शर्मा, भट्टः" इत्यादीनि स्त्रीणां नाम्नाम् अन्ते न योजनीयानि । मनुः वदति - 
स्त्रीणां सुखोद्यम् अक्रूरं विस्पष्टार्थं मनोहरम् । 
मङ्गळ्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ (म​.स्मृ.२.३३) इति । सुखेन उद्यते सुखेन वदितुं शक्यं वा (सुखेन उच्चारयितुं योग्यम्) सुखोद्यम् अन्यत् सर्वं स्पष्टम् । तत्र व्याख्यासु "यशोदा, मङ्गलदेवी, चारुमती, सुवदना, मङ्गला, सुभद्रा" इत्यादीनि उदाहरणानि दर्शितानि । अत्रैव मेधातिथिः "शर्मवती रुद्रवती इति मङ्गलम्" इति दर्शयति । 

तथा च एषः निष्कर्षः -
१) शास्त्रोक्तानि संस्कृतानि सुखोद्यादीनि नामानि एव पितरः कुर्युः, येन समस्या न भवेत् ।
२) प्राक् काले "शर्मा, भट्टः" इत्यादीनां स्त्रीणां नामान्ते योजनस्य परम्परा न आसीत् । इयम् आधुनिकरीतिः आश्रीयते, इदं न साधु ।
३) यदि आत्मानं शर्मादिकुलोत्पन्नां ख्यापयितुम् इच्छति, तर्हि (नाम्नः पञ्जीकरणम् कथम् अपि वा भवतु यथा "मुदिता शर्मा" इत्यादि) व्यवहारः तु एवम् भवितुम् अर्हति यथा "मुदिता शर्मवती", "रमा भट्टवती" इति ।
४) यथावद् "मुदिता शर्मा", "रमा भट्टः" इत्यादि तु दोषपूर्णमेव ।
५) "एषा मीसर्स् श्रीधरः (Mrs.Shriidhar)" इत्यादिप्रयोगाः भाषान्तरप्रकृतिकाः, न तु संस्कृतप्रकृतिकाः । तादृशप्रयोगाः न आदर्तव्याः ।
६) पुनश्च आङ्गलभाषायामपि "Mrs.Shridhar" इत्यस्य वाक्ये विनियोगः "एषा Mrs. of Shridhar" इत्येव । अतः तत्र वाक्यप्रयोगं मनसि निधाय एव अर्थबोधः जायते । तस्मात् तादृशः प्रयोगः संस्कृते इत्थं भवितुम् अर्हति वाक्यरूपेण "एषा पत्नी श्रीधरस्य (श्रीधरस्य पत्नी)" इति ।
७) "राधा सुदर्शनः" इत्यादिस्थलेषु यत्र पितुः नाम अग्रे वर्तते, तत्रापि इदमेव तात्पर्यं "सुदर्शनस्य पुत्री राधा (Radha D/O Sudharshan" (सुदर्शनपुत्री राधा) । अत्रापि एषः एव उपायः आश्रयणीयः पञ्जीकरणं कथमपि भवतु, व्यवहारे शुद्धम् एव भवेत् ।
८) अपरः कश्चन सरलः उपायः व्यवहारकाले "वर्या" इत्यादिशब्दाः संयोजनीयाः यथा मुदिताशर्मवर्या, रमाभट्टवर्या इत्यादि 

संस्कृतभाषायां संस्कृतभाषाप्रकृतिः एव आश्रयणीया  "तदशिष्यं संज्ञा प्रमाणत्वात्" इत्यस्य दुरुपयोगः एतादृशस्थलेषु न करणीयः ।

&&&&&

No comments: