Wednesday, April 13, 2016

कृपालुः इति शब्दविचारः


कृपालुः इति शब्दस्य व्युत्पत्तिः बहुधा भवितुमर्हति इति विद्वांसः। तद्यथा –

1) माधवीयधातुवृत्तौ - ला आदाने । कृपामादत्ते इति कृपालुः “मितद्र्वादित्वाड्डुः” इत्यात्रेयः इति दर्शितम् ।

2) तत्त्व-बोधिन्यां – “ननु कथं कृपालुः स्पर्धालुरिति? कृपां स्पर्धां च लातीति विग्रहे मृगय्वादित्वात्कुः”। अर्थात् “मृगय्वादिभ्यश्च” (उ.1-39) इति उणादिसूत्रेण मृगयु-गणम् आकृतिगणं विभाव्य तत्र कृपालुः इत्यस्य अन्तर्भावः इति ।

3) शब्दकल्पद्रुमे – कृपालुः कृपां लाति आदत्ते । ला + डुः । यद्वा कृपा विद्यते अस्य अस्मिन् वा  कृपा +  आलुच् इति । एतस्य मूलं “बहुलं छन्दसि” (5-2-122) इति सूत्रस्थं वार्त्तिकम् – “हृदयदाच्चालुरन्यतरस्याम्” इति, “शीतोष्ण-तृ-प्रेभ्यः तन्न सहते” इति च वार्त्तिकम् । पूर्ववार्त्तिकात् “सर्वत्रामयस्य” इत्यस्मात् ‘सर्वत्र’ इति अनुवर्तते । तेन लोके वेदे च इति सिद्धम् । सूत्रात् ‘बहुलम्’ इति अनुवर्तते । तेन आलु-प्रत्ययः अन्यत्रापि भवति । तथा च कृपालुः (कृपा अस्ति अस्य अस्मिन् वा) इति सिद्धम् ।

यद्यपि सर्वमिदं समाधानदृष्ट्या साध्वेव द्वितीयं समाधानं विहाय । द्वितीयसमाधाने आचार्यप्रवृत्तेः विरोधः दृश्यते । तद्यथा – “मृगय्वादिभ्यश्च” इति सूत्रात्पूर्वं कु-प्रत्यविधायकाः योगाः इमे सन्ति – “हरिमितयोर्द्रुवः”, “शते च”, “स्वरु शङ्कु पीयु नीलङ्गु लिगु”, “पिबतेरित्वं युगागमश्च” इति । एतेषु सर्वेषु सूत्रेषु कु-प्रत्ययं विहाय निपातनद्वारा अन्यानि कार्याण्यपि साध्यन्ते । परन्तु मृगय्वादिभ्यश्च इत्यस्मिन् सूत्रे समानान्तानि पदान्येव अभिप्रेतानि सूत्रकृता इति विभायितुं अस्ति निदानम् । अन्यथा “शतादीनां च” इत्येव उक्तं स्यात् । अत एव भट्टोजीदीक्षितेनापि समानान्तानि उदाहरणान्येव प्रदर्शितानि मृगयुः, देवयुः, मित्रयुः इत्यादीनि । अतः इदं समाधानम् आचार्यप्रवृत्तेः विरुद्धं लक्ष्यते । 
इतराण्यपि समाधानानि भाष्याशयविरुद्धानि । भाष्ये “स्पृहिगृहि...” (3-2-158) इति सूत्रे विचारः कृतः । स च इत्थं – किमर्थम् आलुच् इति महान् प्रत्ययः लुश् (लुश् इत्यत्र लकारलोपः न चिन्तनीयः, यतः लुप्तयकारनिर्देशः अर्थात् “(य्)लुश्” इति अथवा लकारलोपस्य प्रयोजनाभावाद् इति कैयटे दर्शितत्वात्) इत्येव प्रत्ययः भवतु इति आशङ्क्य का रूपसिद्धिः इति प्रश्नः कृतः । तस्य उत्तरं – स्पृहयालुः दयालुः इति उक्तम् । तदुपरि भाष्यकारः आह – इदं च रूपं स्पृहि इत्यस्मात् शप्-प्रत्यये (तिङ्-परत्वाभावेऽपि सार्वधातुकत्वात् शप् भवितुमर्हति), “अतो दीर्घो यञि” इति दीर्घे स्पृहयालुः इति सिद्धम् । किमर्थं तर्हि महता प्रयत्नेन आलुच् विधीयते इत्याशङ्क्य – एवं सिद्धे सति पुनः महता प्रयत्नेन आलुच्-विधानम् अन्येभ्योऽपि आलुच् भवति इति ज्ञापनार्थम् इति समादधाति । तत्र पुनः एतस्य ज्ञापनस्य किं प्रयोजनम् इति पृष्ट्वा अग्रे वार्त्तिककारः वक्ष्यति “आलुचि शीङ्ग्रहणम्” इति, तत् न वक्तव्यं भवति ।

एतेन भाष्यकृतः मतं कृपालुः स्पर्धालुः इत्यादीनि रूपाणि “अन्येभ्योऽपि दृश्यते” इति सूत्रेण एव सिद्ध्यन्ति इति स्पष्टम् । अन्यत्सर्वं समाधानं यद्यपि साधु तथापि भाष्याशयानुसारेण न वर्तते अथवा तस्यैव प्रपञ्चः इत्येव सिद्धान्तः ॥

********

No comments: