Saturday, October 8, 2016

क्त​-प्रत्ययः

क्त​-प्रत्ययस्य नियमाः
१) सुबन्तम् अनुसृत्य क्त​-प्रत्ययान्तं रूपं भवति। कर्मणि प्रयोगे - कर्ता तृतीयाविभक्तौ भवति, कर्म प्रथमाविभक्तौ भवति, क्तप्रत्ययान्तं पदं कर्मपदस्य विभक्तिं वचनं च आश्रित्य भवति यथा  - छात्रेण पाठः पठितः, छात्रेण लता दृष्टा, छात्रेण फलं खादितम्।

२) भाववाच्ये (अकर्मकधातुः चेत्) क्त​-प्रत्ययान्तं पदं सर्वदा प्रथमाविभक्तौ एकवचने एव भवति । यथा - छात्रेण हसितं (हस​-धातुः अकर्मकः), छात्रेण क्रीडितं (क्रीड​-धातुः अकर्मकः), छात्रेण जल्पितम् (जल्प​-धातुः अकर्मकः)। सूत्रम् - नपुंसके भावे क्तः (३-३-११४)

३) कर्तरि अपि कुत्रचित् क्त​-प्रत्ययान्तं रूपं भवति । तत्र नियमाः - अ) गतिः इत्यर्थे प्रयुज्यमानाः धातवः, आ) सकर्मकधातूनां कर्मणः आवश्यकता यत्र न​ विद्यते, इ) श्लिष्, शीङ्, स्था, आस्, वस​, जन्, रुह्, जॄ इति धातवः अपि कर्तरि क्त​-प्रत्ययान्ताः भवन्ति (सूत्रम् - गत्यर्थाकर्मकश्लिषशीङ्स्थासवजनरुहजीर्यतिभ्यश्च (३-४-७२)। यथा - अहं गृहं गतः, छात्रः गृहम् आगतः, छात्रः (यमुनाम्) अवतीर्णः, पत्नीम् आश्लिष्टः पतिः, विष्णुः सर्पम् अधिशयितः, छात्रः हरिम् उपासितः, छात्रः स्थितः, छात्रः ग्रामम् उषितः, पुत्रः जातः, छात्रः वृक्षम् आरूढः, शरीरं जीर्णम्।

४) क्त​-प्रत्ययान्तं रूपं सामान्यतया भूतकालः इत्यर्थे एव भवति। परन्तु केषाञ्चन धातूनां वर्तमानकालः इत्यर्थे अपि क्त​-प्रत्ययान्तं रूपं भवति । ते धातवः यथा - ञिमिदा स्नेहने - मिन्नः, ञिक्ष्विदा - क्ष्विण्णः, ञिधृषा - धृष्टः (स् ऊत्रम् - ञीतः क्तः ३-२-१८७), मतिः, बुद्धिः, पूजा इत्यर्थेषु विद्यमानाः धातवः अपि क्त​-प्रत्ययान्ताः वर्तमानकाले भवन्ति, यथा - राज्ञां मतः, बुद्धः, इष्टः, पूजितः, अर्चितः (सूत्रम् - मतिबुद्धिपूजार्थेभ्यश्च (३-२-१८८)। एतदतिरिच्य शीलितः, रक्षितः, क्षान्तः, आक्रुष्टः, जुष्टः, हृष्टः, तुष्टः, कान्तः, संयतः, उद्यतः, अमृतः, सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येतानि अपि वर्तमानकालार्थे क्त​-प्रत्ययान्तरूपाणि। (प्रमाणम् - महाभाष्यकारस्य श्लोकः (३-२-१८८) - 

शीलितो रक्षितः क्षान्त आक्रुष्टो इत्यपि ।
रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥
हृष्टतुष्टौ तथा कान्तस्थथोभौ साम्यतोद्यतौ ॥
कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः ॥
अत्र कष्टम् (कष हिंसायाम् इति धातुः) इति केवलं भविष्यत्कालार्थे, अन्यत् सर्वं वर्तमानकालार्थे एव​॥

********

1 comment:

Unknown said...

Thank you so much sir.you wrote a whole blog to explain my twitter query. I am forever indebted to you. Now I will never have a problem with क्त प्रत्यय।