Monday, June 1, 2015

वात्यापुरेश्वरीसुप्रभातम् - १२

वात्यापुरेश्वरीसुप्रभातम् - १२

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः खलु विष्णुशर्मा ।
स्तुत्वार्पयामि भवतीचरणारविन्दे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


पदच्छेदः

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः, खलु, विष्णुशर्मा, स्तुत्वा, अर्पयामि, भवतीचरणारविन्दे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम् ॥

अन्वयः

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः, खलु, विष्णुशर्मा, स्तुत्वा, भवतीचरणारविन्दे, वात्यापुरेश्वरि, शिवे, तव, सुप्रभातम्, अर्पयामि ॥

प्रतिपदार्थः

त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः = तव पूजायै प्राप्ताधिकारकुले उत्तमे नव्यश्रेणी-नामके गृहे (कुले) जातः, खलु = तावत्, विष्णुशर्मा = विष्णुनामकः (अहं), स्तुत्वा = स्तोत्रं विधाय​, भवतीचरणारविन्दे = देव्याः भवत्याः पादपद्मयोः, वात्यापुरेश्वरि = हे वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं त्  अद्रूपं कुसुमम्, अर्पयामि = समर्पयामि ॥

तात्पर्यम्

हे वात्यापुरेश्वरि, भद्रे, अहं विष्णुशर्मा तव पूजायै अधिकृतकुले नव्यश्रेणी-नामकगृहनामयुते जन्म लब्धवान् । त्वाम् सुप्रभातेन स्तोत्रेण स्तुत्वा भवत्याः चरणनलिनयोः इदं सुप्रभातरूपं कुसुमम् अर्पयामि ॥

हिन्दी

हे वात्यापुर की इस्श्वरि, भद्रे, मैं विष्णुशर्मा आप की पूजा करने के लिए अधिकारप्राप्त कुल में नव्यश्रेणी-नामक गृहे जन्म लिया । सुप्रभात स्तोत्र से अप्प की स्तुति कर आप के चरण कमल में इस सुप्रभात पुष्प को अर्पित करता हूं ॥

विशेषः

१) त्वत्तान्त्रिकाधिकृतगोत्रकभव्य”नव्यश्रेणी”निकेतनभवः = तन्त्रं जानाति वेत्ति वा इति तान्त्रिकः, तन्त्रशास्त्रवेत्ता । तन्त्रविहिते अपि तान्त्रिकम् । तन्त्रस्य इदम् इति तान्त्रिकम् । तव तान्त्रिकः = त्वत्तान्त्रिकः, तान्त्रिकेण (तन्त्रेण) अधिकृतः = तान्त्रिकाधिकृतः, तान्त्रिकाधिकृतस्य गोत्रकः = तान्त्रिकाधिकृतगोत्रकः, भव्यं च नव्यश्रेणीनिकेतनं च = भव्यनव्यश्रेणीनिकेतनं, त्वत्तान्त्रिकाधिकृतगोत्रकस्य भव्यनव्यश्रेणीनिकेतनं, तत्र भवः = त्वत्तान्त्रिकाधिकृतनव्यश्रेणीनिकेतनभवः । अर्थात् भगवत्याः पूजातन्त्रे ये अधिकृताः तेषाम् गोत्रीयाणां यः वंशः नव्यश्रेणी इति ज्ञायमानः तस्मिन् वंशे प्राप्तजन्मा एषः कविः विष्णुशर्मा इति ।
२) भवतीचरणारविन्दे = भवत्याः चरणारविन्दं तस्मिन् । चरणरूपम् अरविन्दं = चरणारविन्दम् ॥

ENGLISH
(Translation by Brahmasri Ganeshan @vezhamukhan)

Hey VatyapureSvari, benign Mother, known as Vishnu Sarma, this man poetic Into a family of accomplished souls endowed with the powers formal & mystic 
For your worship in the house named ‘NavyaSreni’ in this hamlet 
Lays this flower-garland of hymns called ‘Suprabhatam’ at your lotus-feet!

******

No comments: