Sunday, June 14, 2015

अवाङ्मनसगोचरः

॥ अवाङ्मनसगोचरः ॥

द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम् (२.४.२) इति सूत्रम् । प्राणि-तूर्य​-सेनाङ्गानां यः द्वन्द्वः सः एकवद् भवति इति अर्थः । उदाहरणं यथा - पाणि-पादम्, मार्दङ्गिक​-वैणविकम्, रथिकाश्वारोहम् इति । ततः न दधिपयाआदीनि (२.४.१४) इति सूत्रम् । दधिपयआदीनि शब्दरूपाणि न एकवद् भवन्ति । एकवचनान्तानि न भवन्ति इति तात्पर्यम् । दधिपयआदिगणे "वाङ्मनसे" इति शब्दरूपम् अपि पठितम् । अतः वाक् च मनः च = वाङ्मनसे इति एव सर्वदा द्विवचनान्तं रूपम् एव भवति । अत्र संशयः भवति - वाक् च मनः च = वाङ्मनसी इति खलु स्याद् इति । अत्र समाधानम् उच्यते -अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्षामवाङ्मनसाक्षिभ्रुवदारगवौउर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षौपशुनगोष्ठश्वाः (५.४.७७) इति सूत्रेण केषाञ्चिद् शब्दरूपाणाम् अच्-प्रत्ययः समासान्तः विधीयते, समासनियमः च विधीयते । अत्र "वाङ्मनस​" इति अच्-प्रत्ययान्तः शब्दः स च द्वन्द्वसमासः इति पठ्यते । तस्मात् वाक् च मनः च = वाङ्मनसे इत्येव साधु रूपम् ॥

अत एव "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" (२.३०) इति योगसूत्रे व्यासभाष्ये "सत्यं यथार्थे वाङ्मनसे" इति व्याख्यातम् । "यस्य वाङ्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा" (२-१६०) इति मनुः अपि प्रयुक्तवान् । भगवान् आदिशङ्करः अपि छान्दोग्यभाष्ये "ते एते वाङ्मनसे वर्तनी मार्गौ याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी" (छा.१.१) इति प्रयुक्तवान् । किञ्च कालिदासः अपि "प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यम् अवाङ्मनसगोचरम् ॥" इति । तत्र मल्लिनाथः इत्थं व्याख्याति - वाक् च मनश्च वाङ्मनसे । "अचतुर​.." इत्यच्प्रत्ययान्तो निपातः । तयोर्गोचरो विषयो न भवतीति अवाङ्मनसगोचरः । तमेनं विष्णुं तुष्टुवुरस्तुवन् ॥" इति ।

तथा च शिष्टप्रयोगानुसारेण व्याकरणानुसारेण "वाङ्मनसे" इत्येव रूपं साधु । तेन सह समासे वाङ्मनसयोः गोचरः = वाङ्मनसगोचरः, न (भवति) वाङ्मनसगोचरः = अवाङ्मनसगोचरः इति सिद्धम् । कथमपि एकवचनान्तेन समासः "वाङ्मनसः गोचरः = वाङ्मनोगोचरः" अथवा षष्ठ्या अलुकि "वाङ्मनसोगोचरः" इति तु न सिद्ध्यति । यतः वाङ्मनसे इत्यस्य एकवचनान्तं रूपम् एव न भवति । तर्हि प्रश्नः - कथं स्वामिना विवेकानन्देन "अवाङ्मनसोगोचर​" इति प्रयुक्तम् इति प्रश्नः । तस्य त्रेधा समाधानं भवितुमर्हति - १) (मन्ये अहं स्वामिना एषः प्रयोगः वङ्गभाषायामेव कृतः इति) क्षेत्रीयभाषासु संस्कृतव्याकरणनियमः न प्रवर्तते इति, अतः साधुः । २) अवाङ्मनसः गोचरः इति व्यस्तप्रयोगः कथञ्चिद् द्रष्टव्यः । अत्र प्रमाणं - क्वचिद् "वाङ्मनसे" इति स्थाने "वाङ्मनसी शुद्धे कालुष्यं न गच्छतः" मेधाथितिवर्येण "वाङ्मनसी" इति प्रयुक्तम् । "एते वाङ्मनसी" इति कुल्लुकभट्टेनापि प्रयुक्तम् । एवञ्च "वाङ्मनसी" इति शिष्टप्रयोगः मन्यते तथा "अवाङ्मनसः" इत्यपि शिष्टप्रयोगः मन्तव्यः । ३) स्वामी विवेकानन्दः ऋषिप्रवरः, तस्माद् आर्षत्वात् साधु ॥ इतोऽपि चिनतनं विधास्यते अस्मिन् प्रयोगविषये साधुत्वकल्पनाय​, यदि किञ्चित् समाधानं प्राप्यते, नूनं निवदयिष्यते ॥

*****

No comments: