Sunday, June 21, 2015

योगः आसनं च

योगः आसनं च
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि (यो.सू.२-२९)

यमः, नियमः, आसनं, प्राणायामः, प्रत्याहारः, धारणा, ध्यानं, समाधिः इति योगस्य अष्टौ अङ्गानि ।

योग के आठ आङ्ग हैं वे इस प्रकार हैं - यम​, नियम​, आसन​, प्राणायाम​, प्रत्याहार​, धारणा, ध्यान​, समाधि ।

तत्र यमः नाम कः इति जिज्ञासायां उच्यते -
यम का मतलब क्या है? इस प्रश्न पर कहते हैं -
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः (यो.सू.२-३०)

अहिंसा, सत्यम्, अस्तेयं, ब्रह्मचर्यम्, अपरिग्रहः इति इमे पञ्च यमाः । "अहिंसा सर्वदा सर्वथा सर्वभूतानाम् अनभिद्रोहः" इति व्यासभाष्यम् । सर्वदा = सर्वेषु कालेषु, सर्वथा = सर्वैः प्रकारैः, सर्वभूतानां = सर्वेषां जन्तूनां, अनभिद्रोहः = द्रोहराहित्यं, प्रीतिः । तथा च सर्वभूतेषु त्रिष्वपि कालेषु सर्वप्रकारेण प्रीतिभावः एव अहिंसा । न केवलं हिंसायाः अकरणं, परन्तु प्रीतिप्रदर्शनम् अहिंसा । एवञ्च कस्मैचिदपि न द्रुह्येत्, प्रीतिं च सर्वेषु प्रदर्शयेत् ।
सत्यं भवति यथार्था वाक्, यथार्थं मनः च । दृष्टानुसारेण अनुमितानुसारेण च वाङ्-मनश्च भवेताम् ।
परद्रव्याणां अस्वीकरणं तेषु अस्पृहा च अस्तेयं भवति ।
गुप्तेन्द्रियसंयमः ब्रह्मचर्यम् । लोलुपानि इन्द्रियाणि अन्यानि अपि संयमेन रक्षणीयानि ।
अशास्त्रीयाणाम् अयत्नोपनतानामपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनात् शास्त्रीयाणामपि उपार्जितानां च रक्षणादिदोषदर्शनाद् अस्वीकरणम् अपरिग्रहः । इत्थं यमाः निरूपिताः

अहिंसा सत्य अस्तेय ब्रह्मचर्य अपरिग्रह - ये ही पांच यम के नाम से जाने जाते हैं ।
अहिंसा वह है कि सभी प्राणियों में सभी काल में प्रीति भाव दिखाना ही अहिंसा है । अहिंसा केवल हिंसा न करना ही नहीं है, अपि तु प्रीति दिखाना भी है ।
सत्य होता है कि यथार्थ वाक् और यथार्थ मन ।
दूसरों के द्रव्य का अपहरण न करना और उन पर स्पृहा न करना ही अस्तेय है । अर्थात सूसरों के द्रव्य को अपहरण न करन ही अस्तेय नहीं है, किं तु उन पर मन से भी इच्छा न करना है ।
गुप्त इन्द्रिय पर संयम रखना ही ब्रह्मचर्य है । विषय पर प्रवृत्त होने वाले अन्य इन्द्रियों पर भी संयम रखना ब्रह्मचर्य होता है ।
विषय को स्वीकार नहीं करना ही अपरिग्रह है । इस प्रकार यम का निरूपण किया गया है ।

सम्प्रति नियमः क इति उच्यते ।
अब नियम क्या है यह बताया जाता है -
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः (यो.सू.२-३२)

शौचं, सन्तोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानम् इति इमे पञ्च नियमाः भवन्ति । तत्र शौचं भवति ब् आह्यम् आभ्यन्तरम् इति द्विधा । बाह्यं च मृज्जलादिजनितं भवति । आभ्यन्तरं चित्तशुद्धिः । सन्निहितसाधनाद् अधिकस्य अनुपादित्सा सन्तोषः इति व्यासभाष्यम् । अर्थात् अपेक्षामतिरिच्य असङ्ग्रहः एव सन्तोषः । तपः भवति द्वन्द्वसहनम् । द्वन्द्वाः च अत्तुम् इच्छा पातुम् इच्छा, शीतम् उष्णं, स्थानम् आसनम्, काष्ठमौनम् आकारमौनं च । अत्र काष्ठमौनं नाम इङ्गितेनापि स्वाभिप्रायस्य अप्रकटनम् । आकारमौनं नाम अकथनम् ।स्वाध्यायः नाम मोक्षशास्त्राणाम् अध्ययनं प्रणवस्य जपः वा । ईश्वरप्रणिधानं नाम परमपुरुषे सर्वकर्मणाम् अर्पणम् ।

शौच​, सन्तोष​, तपस्या, स्वाध्याय और ईश्वर प्रणिधान ये पांच नियम कहे जाते हैं । शौच बाह्य और आभ्यन्तर के रूप दो प्रकार हैं । बाह्य तो वह है कि जो मिट्ठी पानी आदि से होता है, आभ्यन्तर चित्त की शुद्धि है । जितना अपेक्षित है उस से अधिक वस्तु का संग्रह नहीं करना ही सन्तोष है । द्वन्द्वों का सहन करना तप कहलाता है, जैसे बुभुक्षा-पिपासा, शीत​-उष्ण​, आदि । स्नाध्याय है मोक्ष शास्त्रों का अध्ययन अथवा प्रणव का जप करना । उस परम पुरुष को अपने सभी कार्यों को अर्पित करना ही ईश्वर प्रणिधान है ॥

इस के बाद आता है आसन का स्थान । 
इतः परमेव आसनस्य स्थानम् । तद्यथा
स्थिरसुखम् आसनम् (यो.सू.२-४६)

स्थिरं च तत् सुखं स्थिरसुखम् । निश्चलं सुखावहं यत् तत् आसनम् । अत्र द्वादश आसनानि परिगणितानि भाष्यकारेण अन्ते तदादीनि इति आदिशब्दः प्रयुक्तः । अत आसनानाम् इयत्ता नास्ति ।

स्थिर रहकर सुख देने वाला ही आसन कहलाता है । इन आसनों के बारह प्रकारों का नाम लेकर इत्यादीनि कह दिये हैं भाष्यकार । अतः आसनों की संख्या कितनी है यह कहना सम्भव नहीं है । क्यों कि यह आचार्यों के अपने अपने अनुभव के आधार पर प्राणि और प्रकृतियों के अनुसार क्ऐइ प्रकार के हो सकते है ।

इस लेख का तात्पर्य इतना ही है कि आसन के पहले यम और नियम का अभ्यास करना अति आवश्यक है । सीधे आसन करने पर उतरना शास्त्र सम्मत नहीं है । अतः मन की शुद्धि पहले अपेक्षित है ।


एतस्य लेखस्य उद्देश्यं भवति आसनानाम् अभ्यासात् पूर्वं यमनियमयोः अभ्यासः करणीयः । साक्षात् आसनाभ्यासे अवतरणं न शास्त्रसम्मतम् । अतः अन्तःकरणशुद्धिः प्रथमम् अपेक्ष्यते ॥
*****

No comments: