Monday, November 23, 2015

संयमः

देशबन्धश्चित्तस्य धारणा।।3.1।। 
इति सूत्रम्। अर्थात् कस्मिन् चित् देशे (पदार्थे) नाभिचक्रे, हृदयमूले, शिरसः ऊर्ध्वभागे, नेत्रे, नासिकायाः अग्रभागे, जिह्वायाः अग्रभागे अन्यत्र वा बाह्यविषये (चित्रे, विग्रहे, स्तम्भे इत्यादिषु वा) चित्तस्य बन्धः स्थापनम् एव धारणा भवति ।।
तत्र प्रत्ययैकतानता ध्यानम्।।3.2।। 
इति उत्तरसूत्रम् । यत्र पूर्वसूत्रोक्तरीत्या एकस्मिन् देशे चित्तं स्थापितं तत्र ज्ञानस्य अन्यविषयचिन्तनं विना निरन्तरम् अविच्छिन्नरूपेण स्थापनं ध्यानं भवति । अर्थात् चित्तस्य एकस्मिन् देशे स्थापनं धारणा, तत्र अन्यविषयचिन्तनं विना ज्ञानस्य एकत्र स्थापनं ध्यानं भवति ।।

तदेवार्थमात्रनिर्भास स्वरूपशून्यमिव समाधिः।।3.3।। 
इति अनन्तरसूत्रम्। सम्यग् आधीयते एकाग्रीक्रियते विक्षेपान् परिहृत्य मनः यत्र सः समाधिः। अर्थात् यत्र “अहं ध्यानकर्ता, इदं ध्यानं, इदं ध्यायते” इत्यादि ज्ञानं यस्मिन् अवस्थायां न भवति सः समाधिः भवति । अर्थात् यत्र शून्यमिव यदा भवति सः समाधिः भवति ।।
त्रयमेकत्र संयमः।।3.4।। 
इति अग्रिमं सूत्रम्। यत्र उपर्युक्तं त्रयमपि भवति सः संयमः भवति। अर्थात् यत्र एकस्मिन् विषये चित्तं स्थाप्यते, तदा इतरविषयाणां चिन्तनं न भवति, एवं “अहं ध्याता, इदं ध्येयं, इदं ध्यानं” इति चिन्तनं विना शून्यमिव यदा भवति इति त्रयमपि सम्भूय संयमः इति ज्ञायते ।
तादृशस्य संयमस्य फलं भवति प्रज्ञायाः आलोकः । यः संयमी भवति सः ईश्वरप्रसादात् (समाधि) प्रज्ञां प्राप्नोति ।

एतेन समाधिज्ञानेन सर्वेषां भुवनानां यथावत् ज्ञानं जायते । यः सूर्ये संयमं करोति तस्य -
ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान्।
माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः।।
इत्युक्तरीत्या सर्वं यथावत् दृश्यते । एवमेव यः चन्द्रे संयमं करोति तस्य नक्षत्राणां विशिष्टव्यवस्थापनक्रमः दृश्यते ।।
तथा च संयमस्य फलं महत्तरं भवति। परन्तु इदं न परमम् उद्देश्यं, परमम् उद्देश्यं भवति असंप्रज्ञातसमाधिः (कैवल्यम्) इति ।।

Saturday, November 7, 2015

दशावतार स्तोत्र - Comparison

जयदेव का दशावतार स्तोत्र -

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रतेदैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।पौलस्त्यं जयते हलं कुलयते कारुण्यमातन्वतेम्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥1॥

Extricator of Vedas, Upholder of the world, Savior of Earth, Tearer of the Demon Hiranya-kasipu, Deceiver of Bali, Destroyer of the Kings, Conqueror of Ravana, Wielder of the plough, Advocate of compassion and Destroyer, who took incarnation of ten forms, O Krishna my obeisances to you. 


श्रीस्वामी देशिक का दशावतार स्तोत्र - 
इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे
रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् ।
क्रीडावल्लव कल्कवाहनदशाकल्किन्निति प्रत्यहं
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥

Born as a fish with own wish, Sportively born as a tortoise, Taken the form of a big boar, Spantaneously came out as Narasimha, Born for protection as Vamana, Angry Parasurama, Merciful Rama, Sportive plough holder Balarama, Playful Krishna, Riding on a white horse Kalki. Those who chant these names daily 
would surly make this world pure having made this world as a shop of good deeds.



Tuesday, November 3, 2015

Patanjala Yoga Sutram - 4

 कथं तर्हि दर्शितविषयत्वात् -
वृत्तिसारूप्यमितरत्र॥४॥
व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः। तथा च सूत्रम् एकमेव दर्शनं ख्यातिरेव दर्शनमिति। चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिस्सम्बन्धो हेतुः॥४॥
कथं=How, तर्हि=then (does that happen.?) It happens because दर्शितविषत्वात्=objects are presented. (as objects are seen i.e. attracted by the objects)

वृत्तिसारूप्यमितरत्र ॥

वृत्तिसारूप्यम् इतरत्र । वृत्तेः सारूप्यं=वृत्तिसारूप्यम् । सरूपस्य भावः=सारूप्यम् । सरूपम्=एकरूपम् अर्थात् समानरूपम् ।।

व्युत्थाने = समाधि-अवस्थां विहाय अन्यासु अवस्थासु, याः=ये चित्तवृत्तिविशेषाः, चित्तवृत्तयः=चित्तस्य वृत्तयः (अर्थात् स्वभावः), तदविशिष्टवृत्तिः=व्युत्थाना-अवस्था-चित्तवृत्तिभिः अविशिष्टाः चित्तवृत्तयः, ताभिः युक्तः अर्थात् व्युत्थाना-अवस्था-चित्तवृत्तिभिः न युक्तः, पुरुषः=पुरुषरूपः आत्मा । तथा च = एवं च, सूत्रं=पञ्चशिखनामकेन योगाचार्येण प्रणितं सूत्रं, एकम् एव दर्शनम् ख्यातिः एव दर्शनम्=एकः एव पुरुषः स च बुद्धेः परिवर्तनरूपः (दर्शनं=पुरुषः, ख्यातिः=परिवर्तितबुद्धिः, दर्शनं=पुरुषः) अर्थात् आचार्येण पञ्चशिखेन उक्तं - बुद्धेः विषयेभ्यः निवारणं, शुद्धस्वरूपेण अवस्थापनम् एव शुद्धसत्त्वपुरुषः । चित्तं=मनः, अयस्कान्तमणिकल्पं=अयस्कान्तस्य समानं, सन्निधिमात्रोपकारि=(सन्निधेः मात्रा=सन्निधिमात्रा, सन्निधिमात्रायाः उपकारि=सन्निधिमात्रोपकारि) समीपे स्थित्वा साहाय्यं मात्रं आचरति अर्थात् यथा अयस्कान्तमणिः कमपि पदार्थं स्वसमीपे आकर्षति तद्वत् चित्तं पदार्थान् स्वसमीपे आकर्षति । पुरुषस्य=शुद्धचित्तस्य स्वामिनः=यजमानस्य, दृश्यत्वेन=दर्शनयोग्यत्वेन, स्वं=स्वत्त्वं, भवति=जायते । तस्मात=अतः, चित्तवृत्तिबोधे=चित्तस्य वृत्तिः=चित्तवृत्तिः, चित्तवृत्तीनां बोधः=चित्तवृत्तिबोधः, तस्मिन् चित्तवृत्तिबोधे, पुरुषस्य=शुद्धसत्त्वस्य, अनादिः=आदिरहितः, सम्बन्धः=समवायः, हेतुः=कारणम् ॥ 

तात्पर्यम - समाधि-अवस्थां विहाय इतरासु अवस्थासु (पदार्थैः चित्तस्य युक्तासु अवस्थासु) शुद्धसत्त्वस्य अनादिकालात् चित्तस्य वृत्तीनां सम्बन्धात् कारणात् चित्तस्य पुरुषस्य च समानरूपता दृश्यते । वस्तुतः चित्तात् चित्तवृत्तीनां च पुरुषः अन्यः । तस्य ज्ञानं तु समाधिना एव भवति ॥

हिन्दी - समाधि अवस्था को चोड्कर अन्य सभी अवस्थाओं में (अर्थात विषयों के साथ जब चित्त जुडा हुआ रहता है तब) इस शुद्ध सत्त्व पुरुष का मन की वृत्तियों के साथ अनादि काल से ही सम्बन्ध होने से मन और पुरुष एक जैसा दिखता है । वास्तविक में ऐसा नहीं है । पुरुष तो शुद्ध सत्त्व है । जैसे अयस्कान्तमणि अपने ओर पदार्थों को खींचता है वैसे पदार्थों से खींचा हुआ मन पुरुष के साथ एक समान अनुभव करता है । वस्तुतः वैसा नहीं हैं, यह ज्ञान तो समाधि से ही हो सकता है । वय समाधि संप्रज्ञात हो असंप्रज्ञात हो ॥

In other occasions (इतरत्र), there exists identity (सारूप्यम्) (between Purusha and) modifications of mind (वृत्ति) ||4||
Those (यः) mental (चित्त)modifications (वृत्तयः) (arise) during व्युत्थान i.e. in any state except समाधि. (In व्युत्थान,) that (तद्) पुरुष or Self does not appear to be different (अविशिष्ट) from(those) वृत्तिs or modifications i.e. पुरुष appears to be identical with them. Accordingly (तथा च), said by Acharya Panchashikha Consciousness (दर्शनम्) is only one, the modification of Buddhi (ख्यातिः) is only Consciousness.
The mind (चित्तम्) is equal (कल्पम्) to a magnet stone and it acts solely in proximity. Due to its character of being a object seems to become the property of Purusha, the owner.
So, the cause of knowledge of the mental modifications is the beginningless association of Purusha and the mind, which is an object to Purusha)||4||
*******