Sunday, May 31, 2015

ऋग्वेदे रुद्रसूक्तम् (१-११४)

ऋग्वेदे रुद्रसूक्तम् (१-११४)

इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम्॥१॥
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु॥२॥
अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः।
सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः॥३॥
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे।
आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे॥४॥
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे।
हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत्॥५॥
इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम्।
रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ॥६॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम्।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः॥७॥
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे॥८॥
उप॑ ते॒ स्तोमा॑न्पशु॒पाइ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे।
भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे॥९॥
आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु।
मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑॥१०॥
अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न्।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॥११॥

*******

विष्णुसूक्तम् ऋग्वेदः - १.१५४

विष्णुसूक्तम् ऋग्वेदः - १.१५४

विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥

पदपाठः

विष्णोः नु वीर्याणि प्र वोचम् यः पार्थिवानि विऽममे रजांसि यः अस्कभायत् उत्ऽतरम् सधऽस्थम् विऽचक्रमाणः त्रेधा उरुऽगायः ॥

अन्वयः

विष्णोः वीर्याणि नु प्र वोचम् । यः पार्थिवानि रजांसि विममे । यः उत्तरं सधस्थम् अस्कभायत् । त्रेधा विचक्रमाणः, उरुगायः ॥

प्रतिपदार्थः

विष्णोः = सर्वत्र व्याप्तस्य देवस्य​, वीर्याणि = वीरकर्माणि, नु कम् = अञ्जसा, प्र वोचम् = वदामि । यः = विष्णुः, पार्थिवानि = भूसम्बद्धानि, रजांसि = अग्नि-वाय्वादीनि तत्त्वानि, विममे = निर्मितवान् । यः = विष्णुः, उत्तरम् = अतिविस्तीर्णं, सधस्थम् = अन्तरिक्षं, अस्कभायत् = निर्मितवान् । त्रेधा = प्रकारत्रयेण​, विचक्रमाणः = विविधरूपेण क्रममाणः, उरुगायः = महद्भिः गीयमानः (वर्तते) ॥

तात्पर्यम्

सर्वत्र व्यापनशीलस्य विष्णोः वीरकर्माणि शीघ्रं वदामि । यः पृथिवीसम्बद्धानि अग्निवाय्वादीनि निर्मितवान् । यः अतिविस्तीर्णम् अन्तरिक्षं च निर्मितवान् आधाररूपेण । भूमिं विविधरूपेण क्रममाणः सः महद्भिः प्रभूतं गीयते । तादृशस्य विष्णोः वीरकर्माणि वदामि इत्यर्थः ॥

हिन्दी

सभी जगह पर व्याप्त विष्णु जी के वीर काम को बताता हूं । जो भूमि से सम्बद्ध अग्नि वायु आदि तत्त्वों का सर्जन किया । इन के आधार के रूप में जो बहुत बडा अन्तरिक्ष का भी निर्माण किया । जो भूमि को विविध रूप से क्रममाण हैं ऐसे विष्णु महान लोगों के द्वारा गीयमान हैं ॥

ENGLISH

I tell about the powerful deeds of all pervasive God (Vishnu). He created Fire, Air etc., related to the Earth. He created the Space as a base for these. He scaled the Earth in three various ways. He is sung by the great men.

Translation by Ralph T.H. Griffith (1896)

I will declare the mighty deeds of Viṣṇu, of him who measured out the earthly regions, Who propped the highest place of congregation, thrice setting down his footstep, widely striding.

Translation by Brahmasri Ganeshan @vezhamukhan

I am set to sing hymns of Vishnu sung his glorious valour 
The Protector he is all-pervasive creating from earth air & fire
He based the open Space for his creations widely striding the earth thrice 
Vishnu is eulogized by the wise for His eternal grace


विशेषः

१) इतः आरभ्य षड् ऋचः विष्णुदेवताकः, दीर्घतमस् ऋषिः, त्रिष्टुभ् च छन्दः ।
२) अत्र "नु क् अम्" इति द्वे पदे वर्तेते । तथापि तयोः पदयोः एकपदत्वेन एव ग्रहणं भवति । तत्र प्रमाणं निरुक्ते "नवोत्तराणि पदानि" (नि.३-१३) इति यास्कस्य उक्तिः । तथा च नु इत्यस्मिन् अर्थे एव "नु कम्" इति पदद्वयम् । अत्स्य मिलितयोः एव अर्थः भवति - अतिशीघ्रम् इति ।
३) यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः (ऋ.१-१०८-९) इति मन्त्रबलात् "पार्थिवानि" इत्यस्य न केवलं पृथिवीसम्बद्धानि एव गृह्यन्ते अपि च लोकत्रयसम्बद्धानि गृह्यन्ते ।
४) यः पार्थिवानि विममे रजांसि यः उत्तरं सधस्थम् अस्कभायत् इत्यस्य सायणः त्रेधा अर्थं दर्शयति । तद्यथा १) पृथिवीसम्बद्धानि अग्नि-वाय्वादीनि तस्याः आधारभूतम् अन्तरिक्षं च निर्मितवान् । रजांसि इत्यस्य अत्र अग्नि-वाय्वादीनि इत्यर्थः । २) रजांसि इत्यस्य लोकः इत्यर्थं विधाय पृथिवीसम्बद्धानि तदधस्तनान् सप्त लोकान् निर्मितवान् इत्यर्थं दर्शयति । अत्र प्रमाणं "लोका रजांस्युच्यन्ते" इति यास्कवचनम् । ३) उत्तरं सधस्थम् अस्कभायद् इत्यस्य उत्तरम् = उद्गततरं (उत्तरभाविनम्), सधस्थं = सहस्थानं, पुण्यकृतां सहवासयोग्यं भूः इत्यादीन् सप्त लोकान् निर्मितवान् इति व्याख्यां करोति ।
५) अस्कभायत् इति "स्तम्भु-स्तुम्भु-स्कम्भु-स्कुम्भु-स्कुञ्भ्यः श्नुश्च" (३ -१-८२) इति सूत्रेण श्नुः, "छन्दसि शायजपि" (३-१-८४) इति सूत्रेण शायजि च रूपम् ।
६) विचक्रमाणः त्रेधा = अस्य प्रमाणम् "इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्" (ऋ-१.२२.१७) इति श्रुतिः ।
७) उरुगायः = उरुभिः गायः (गीयमानः) उरुगायः । उरुभिः इत्यस्य महद्भिः अथवा प्रभूतम् इत्यर्थः ।

*****

प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥२॥

पदपाठः

प्र तत् विष्णुः स्तवते वीर्येण मृगः न भीमः कुचरः गिरिऽस्थाः यस्य उरुषु त्रिषु विऽक्रमणेषु अधिऽक्षियन्ति भुवनानि विश्वा ॥

अन्वयः

वीर्येण स्तवते मृगः न भीमः कुचरः गिरिष्ठाः यस्य उरुषु विक्रमणेषु विश्वा भुवनानि अधिक्षियन्ति तद् विष्णुः प्र (स्तवते) ॥

प्रतिपदार्थः

वीर्येण = (विष्णोः) वीरकर्मणा, स्तवते = स्तूयते, मृगः = सिंहादिः, न = इव​, भीमः = भयानकः, कुचरः = लुत्सितहिंसादिकर्मवान्, गिरिष्ठाः = पर्वतस्थायी (स्तूयते तद्वत्), यस्य = विष्णोः, उरुषु = विस्तीर्णेषु, विक्रमणेषु = पादप्रक्षेपेषु, विश्वा = सर्वाणि, भुवनानि = भूतजातानि, अधिक्षियन्ति = आश्रितानि, तत् = सः, विष्णुः = सर्वत्र व्याप्तः, प्र = प्रकर्षेण स्तूयते ॥

विशेषः

१) स्तवते = स्तूयते इत्यर्थः । कर्मणि रूपं स्तवते इति अत्र । वेदे सर्वव्यत्ययसम्भवात् अत्र कर्मणि शप्-प्रत्ययः ।
२) मृगः = सिंहः, मृजू शुद्धौ इत्यस्य अत्र गतिः इत्यर्थः । मार्ष्टि इति मृगः = सिंहः । मार्ष्तेर्गतिकर्मणः इति यास्कवचनात् ।
३) भीमः = बोभ्यति अस्मात् इति भीमः ।
४) कुचरः = चरतेः गतिकर्मणः, कुत्सितमत्र "अथ चेद्देवताभिधानं क्व अयं न चरतीति वा" इति यास्कवचनात् ।
५) गिरिष्ठाः = गिरिवद् उन्नतलोकस्थायी इति, गिरि (= वाचि मन्त्ररूपायां) तिष्ठति इति गिरिष्ठाः ।

तात्पर्यम्

वीरकर्मणा स्तूयमानः सिंहादिवत् भयानकः, शत्रुवधकर्त्ता, उन्नतवाचि मन्त्रेषु स्थितः, यस्य विष्णोः पादप्रक्षेपैः इदं सर्वं भुवनम् आश्रितं जातं, सः विष्णुः प्रकर्षेण स्तूयते ॥

हिन्दी

अपने वीर काम के लिए स्तूयमान सिंह जैसे भयानक​, शत्रुओं के वधकर्ता, मन्त्रों के अधिष्ठाता, जिस विष्णु के पाद क्रमण से ये तीन भुवन आश्रित है, वैसे विष्णु की स्तुति की जाती है ॥

ENGLISH

Who is invoked for his powerful deeds like the Lion, frightening, destroyer of enemies, and always resides in Mantras and who scaled this Earth with three feet, such Vishnu is invoked by prayers.

Translation by Ralph T.H.Griffith

For this his mighty deed is Viṣṇu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.

Translation by Brahmasri Ganeshan @vezhamukhan

Lauded is Vishnu, as Nrusimha, whose powerful deeds are like that of a lion Slayer terrifying of enemies of the good, all Mantras’ scion 
Scaling the Earth with his three steps, He is the subject of this hymn

प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥३॥

पदपाठः

प्र, विष्णवे, शूषम्, एतु, मन्म, गिरिऽक्षिते, उरुऽगायाय, वृष्णे, यः, इदम्, दीर्घम्, प्रऽयतम्, सध​ऽस्थम्, एकः, विऽममे, त्रिऽभिः, इत्, पदेभिः ॥

अन्वयः

गिरिक्षिते उरुगायाय वृष्णे विष्णवे शूषं मन्म एतु यः इदं दीर्घं प्रयतं सधस्थम् एकः इत् त्रिभिः पदेभिः विममे ॥

प्रतिपदार्थः

गिरिक्षिते = उन्नतप्रदेशे तिष्ठते, उरुगायाय = बहुभिः स्तूयमानाय​, वृष्णे = कामानां वर्षित्रे, विष्णवे = सर्वव्यापकाय​, शूषं = बलं, मन्म = स्तोत्रं, एतु = प्राप्नोतु । यः = विष्णुः, इदं = प्रसिद्धं, दीर्घं = अत्यन्तम् विशालतमं, प्रयतं = नियतं, सधस्थं = लोकत्रयं, एकः = एकाकी, इत् = एव​, त्रिभिः = त्रिसंख्याकैः, पदेभिः = पादैः, विममे = निर्मितवान् ॥

तात्पर्यम्

उन्नतप्रदेशे तिष्ठते बहुभिः गीयमानाय कामानां वर्षित्रे सर्वव्यापकाय विष्णवे अस्मत्कर्मजन्यफलं अस्मत्स्तोत्रजन्य बलं वा अस्तु । यः विष्णुः इदम् अतिविस्तृतं लोकत्रयं अद्वितीयः सन् त्रिभिः पादैः विशेषेण निर्मितवान् ॥

हिन्दी

उन्नत स्थान में स्थित​, बहुत लोगों के द्वारा स्तूयमान​, सभी इच्छाओं की पूर्तिकरनेवाले सर्व व्यापक विष्णु को हमारे कर्मों के फल और स्तोत्रों का बल प्राप्त हो । जो विष्णु इस अत्यन्त विस्तृत तीन लोकों को अपने तीन पादों से निर्माण किया है ॥

ENGLISH

Let the strength of our prayers and our deeds reach Vishnu who is dwelling on the high places, prayed by many people, fulfiller of all wishes and all pervasive Vishnu, who created these three worlds by his three steps.

(Translation by Ralph T.H.Griffith)

Let the hymn lift itself as strength to Viṣṇu, the Bull far-striding, dwelling on the mountains, Him who alone with triple step hath measured this common dwelling-place, long, far extended.

(Translation by Brahmasri Ganeshan @vezhamukhan)

Dwelling on the high, praised in their hymns by people very many That all-pervasive Vishnu, who fulfils our just desires plenty 
Who took only three steps to create the worlds 
Be fostered by our prayers and the fruit of our actions with these words

विशेषः

१) शूषं = शूष प्रसवे इत्यस्माद् धातोः निष्पन्नम् इदम् पदम् अत्र बलम् इत्यर्थः, धातूनाम् अनेकार्थत्वात् ।
२) गिरिक्षिते = गिरि (उन्नतप्रदेशे वाचि वा) क्षिते (तिष्ठते) ।
३) उरुगायाय = उरुभिः गायः, तस्मै उरुगायाय, बहुभिः गीयमानाय इत्यर्थः ।

******

यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥४॥

पदपाठः

यस्य त्री पूर्णा मधुना पदानि अक्षीयमाणा स्वधया मदन्ति यः ऊँ इति त्रिऽधातु पृथिवीम् उत द्याम् एकः दाधार भुवनानि विश्वा ॥

अन्वयः

यस्य मधुना पूर्णा त्री पदानि अक्षीयमाणा स्वधया मदन्ति । यः ऊँ पृथिवीम् द्याम् उत विश्वा भुवनानि त्रिधातु दाधार ॥

प्रतिपदार्थः

यस्य = विष्णोः, मधुना = मधुरेण​, पूर्णा = पूर्णानि, त्री = त्रीणि, पदानि = पदप्रक्षेपणानि, अक्षियमाणा = क्षयं न गतानि, स्वधया = अन्नेन​, मदन्ति = आश्रितजनान् मादयन्ति, य उ = य एव​, पृथिवीं = भूमिं, द्यां = अन्तरिक्षं, उत = च​, विश्वा = सर्वाणि, भुवनानि = भूतजातानि, त्रिधातु = भूमि-जल​-तेजोरूपधातुत्रययुक्तानि, दाधार = धृतवान् ॥

तात्पर्यम्

विष्णोः मधुरेण पूर्णेन पादत्रयप्रक्षेपणेन अक्षयरूपेण आश्रितजनाः अन्नेन रक्षिताः । पृथिवीं, द्युलोकं सर्वाणि भुवनानि च पृथिव्यप्तेजोरूपेण धातुत्रयेण धृतवान् ॥

हिन्दी

विष्णु अपने मधुर और पूर्ण तीन पाद प्रक्षेपों से आश्रित जन को अन्नयुक्त किया । और पृथिवी, अन्तरिक्ष तथा सभी भुवनों को पृथिवी अप् तेजः आदि तीन धातुओं से धारण किया ॥

ENGLISH

Vishnu by his sweet and three steps provided food to people. He holds the Earth, Space and other worlds by three elements via the Earth, Waters and Fire.

Translation by Ralph T.H.Griffith

Him whose three places that are filled with sweetness, imperishable, joy as it may list them, Who verily alone upholds the threefold, the earth, the heaven, and all living creatures.

(Translation by Brahmasri Ganeshan @vezhamukhan)

That Vishnu, by his three charming and full measures of his Divine feet Provided food to all people never diminishing & with the three elements another feat
Of upholding the Earth, the Space and all living beings with his Form Complete

विशेषः

१) अत्र पृथिवीशब्देन पृथिव्याः अधो विद्यमानानि अतलसुतलपातालादीनि सप्त भुवनानि अभिप्रेतानि । तथैव द्या इत्यनेन मध्वर्तीनि भूर्भुवादीनि सप्त बुवनानि अभिप्रेतानि । एवं विश्वा भुवनानि इत्यनेन चतुर्दश भुवनानि उक्तानि ।
२) त्रिधातु = त्रयाणां धातूनां समाहारः त्रिधातु । एतेन पृथिवी-अप्-तेजोरूपं धातुत्रयम् उक्तम् । अथवा त्रयः गुणाः, त्रयः कालाः ।
३) दाधार = धृतवान्, उत्पादितवान् इत्यर्थः ।

******

तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥ ५॥

पदपाठः

तत् अस्य प्रियम् अभि पाथः अश्याम् नरः यत्र देव​ऽयवः मदन्ति उरुऽक्रमस्य सः हि बन्धुः इत्था विष्णोः पदे परमे मध्वः उत्सः ॥

अन्वयः

अस्य प्रियं तत् पाथः अश्याम् यत्र देवयवः नरः अभि मदन्ति उरुक्रमस्य विष्णोः परमे पदे मध्वः उत्सः इत्था सः हि बन्धुः ॥

प्रतिपदार्थः

अस्य = विष्णोः, प्रियं = इष्टभूतं, तत् = सर्वैः सेव्यत्वेन प्रसिद्धं, अभि पाथः = अविनाशी ब्रह्मलोकः, अश्यां = व्याप्नुयात्, यत्र = यस्मिन् स्थाने, देवयवः = विष्णुम् आत्मनः इच्छन्तः, नरः = जनाः, अभि मदन्ति = तृप्तिं प्राप्नुवन्ति । उरुक्रमस्य = अधिकं क्रममाणस्य​, विष्णोः = व्यापकस्य​, परमे = उत्कृष्टे, पदे = स्थाने, मध्वः = मधुरस्य​, उत्सः = निःस्यन्दोऽस्ति । इत्था = अनेन क्रमेण​, सः हि = विष्णुः खलु, बन्धुः = सर्वेषां बन्धुः ॥

तात्पर्यम्

विष्णोः प्रियतमं सर्वैः सेयत्वेन प्रसिद्धं तम् अविनाशिब्रह्मलोकं व्याप्नुयां यस्मिन् च ब्रह्मलोके विष्णुम् आत्मनः इच्छन्तः नराः महतीं तृप्तिमनुभवन्ति । अत्यन्तं क्रममाणस्य विष्णोः उत्कृष्टे स्थाने मधुरनिःस्यन्दो वर्तते । अनेन प्रकारेण सः विष्णुः सर्वेषां बन्धुत्वेन राजते ॥

हिन्दी

विष्णु के अत्यन्त प्रिय और सभी लोगों के द्वारा सेवनीय रूप से प्रसिद्ध उस अविनाशी ब्रह्मलोक को प्रप्त करूं । जिस ब्रह्मलोक में विष्णु को चाहनेवाले मनुष्य त्=र्प्ति का अनुभव करते हैं । विविध रूप से क्रममाण विष्णु के उत्कृष्ट स्थान में मधु का निःस्यन्द होता है । इस प्रकार विष्णु सभी के बन्धु के रूप में है ॥

ENGLISH

Let me attain that Brahma Loka which is very dear to Vishnu and all wish to go to that indestructible Brahma Loka. Where, all who love Vishnu feel content in that world. Where Vishnu is stepping there the nectar (honey) is flowing. Thus, Vishnu is relative to all.

Translation by Ralph T.H.Griffith

May I attain to that his well-loved mansion where men devoted to the Gods are happy. For there springs, close akin to the Wide-Strider, the well of meath in Viṣṇu's highest footstep.

(Translation by Brahmasri Ganeshan @vezhamukhan)


May I attain that Brahmaloka, world eternal far above which is so dear to Vishnu, the Protector Where all his devotees find the final bliss wishing to go there to partake of the nectar
That Vishnu's steps ooze out,He is all with us as kin familiar

विशेषः

१) पाथः = अन्तरिक्षम् इत्यर्थः । तत्र प्रमाणम् "पाथोऽन्तरिक्षं पथा व्याख्यातम्" (नि.६-७) इति यास्कवचनम् । अविनाशी ब्रह्मलोकः इति तात्पर्यम् ।
२) देवयवः = देवं = द्योतनस्वभावं, यवः = यागादिभिः प्राप्तुम् इच्छन्तः इत्यर्थः । वेदे एतादृशशब्दानां कथञ्चिद् व्युत्पत्तिः साधनीया ।
३) उत्सः = उन्दी क्लेदने (रुधादिः परस्मैपदी सकर्मकः सेट्) इति धातोः उन्दि-गुथि-कुषिभ्यश्च (उ.२-६८) इति सूत्रेण स​-प्रत्ययः स च कित् । अनिदितां हल उपधायाः (६-४-२४) इति सूत्रेण न​-लोपः । तेन उत्सः इति रूपम् । "उत्सः प्रस्रवणं वारि" इत्यमरः । आर्द्रीभावः इत्यर्थः ।
४) परमे पदे = उत्कृष्टे स्थाने इत्यर्थः । तच्च स्थानं कीदृशम्? सायणः इत्थं व्याख्याति - क्षुत्तृष्णाजरामरणपुनरावृत्त्यादिभयं नास्ति सङ्कल्पमात्रेण अमृतकुल्यादिभोगाः प्राप्यन्ते तादृशं स्थानम् इति ॥

******
ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
अत्राह तदुरुगायस्य वृष्णं परमं पदमव भाति भूरि ॥६॥

पदपाठः

ता, वाम्, वास्तूनि, उश्मसि, गमध्यै, यत्र गावः, भूरिऽशृङ्गाः, अयासः, अत्र, अह​, तत्, उरुऽगायस्य​, वृष्णः, परमम्, पदम्, अव​, भाति, भूरि ॥

अन्वयः

वां ता वास्तूनि गमध्यै उश्मसि यत्र गावः भूरिशृङ्गाः अयासः अत्र अह उरुगायस्य वृष्णः तत् परमं पदं भूरि अव भाति ॥

प्रतिपदार्थः

वां = युष्मभ्यं, ता = तानि, वास्तूनि = सुखेन उषितुं योग्यानि स्थानानि, गमध्यै = गमनाय​, उश्मसि = कामयामहे । यत्र = येषु वास्तुषु, गावः = रश्मयः, भूरिशृङ्गाः = अत्युन्नताः, अयासः = गन्तारः, अत्र अह = अत्र खलु, उरुगायस्य = बहुभिः स्तुत्यस्य​, वृष्णः = वर्षणशीलस्य​, तत् = तादृशं, परमं = उत्कृष्टं, पदं = स्थानं, भूरि = प्रभूतं, अव भाति = स्वमहिम्ना स्फुरति ॥

तात्पर्यम्

हे दम्पती (यागकर्मणः यजमानौ) युष्मभ्यं प्रसिद्धानि सुखेन उषितुं योग्यानि स्थानानि कामयामहे, तदर्थं विष्णुं प्रार्थयामहे । येषु स्थानेषु रश्मयः अत्युन्नतस्थानाद् गन्तारः स्युः, अस्मिन् स्थाने वास्त्वाधारभूतद्युलोके बहुभिः स्तुत्यमानस्य कामानां वर्षणशीलस्य विष्णोः तादृशम् उत्कृष्टं स्थानं स्वमहिम्ना स्फुरेत् ॥

हिन्दी

हे याग के यजमान और उन की पत्नी, आप दोनों केलिए आनन्द से वास करने योग्य स्थान की कामना करते हैं, जिस के लिए विष्णु से प्रार्थना करते हैं । जिन स्थान में सूरज के किरण अत्युन्नत स्थान निकले और सभी से स्तोत्र करने वाले इच्छाओं की पूर्ति करनेवाले विष्णु के उस पवित्र स्थान अपनी महिमा से स्फुरित हो ॥

विशेषः

१) इयम् ऋक् यागस्य यजमानः तस्य पत्नी इति द्वौ प्रति सम्बोध्यमाना । तयोः सुखं परमपदप्राप्तये विष्णुं प्रार्थयमाना च वर्तते । अत्र अनयोः दम्पत्योः अनन्देन निवासयोग्यस्य स्थानस्य कामना क्रियते । यद्यपि तत् स्थानं परमपदम् एव । तथापि अनया ऋचा तादीनीमपि उन्नतानि भवनानि यत्र उपरिष्टात् सूर्यरश्मयः गच्छन्ति स्म इति ज्ञायते । अपि च अनया एव ऋचा इदम्प्रथमतया वास्तुविशेषः कीर्त्यते । वास्तु नाम सुखेन निवासयोग्यं स्थानम् इत्यर्थः अपि अस्याम् ऋचि प्रतिपाद्यते । तथापि अस्याः ऋचः परमम् उद्देश्यं तु विष्णोः परमपदस्थानप्राप्तिरिति तु निर्विवादम् ॥

ENGLISH

O Yajamanas! (the performer of Yaga and his wife) we pray to Vishnu for your dwelling place where you can live with happiness and where the rays of Sun go through (come through) high places. We pray to Vishnu who is the fulfiller of all wishes for your greatest place (liberation).

Translation by Ralph T.H.Griffith

Fain would we go unto your dwelling-places where there are many-horned and nimble oxen, For mightily, there, shineth down upon us the widely-striding Bull's sublimest mansion.

(Translation by Brahmasri Ganeshan @vezhamukhan)

Oh you the holy couple performing fire oblations, we pray you get to dwell Which we pray to Vishnu to give you where the Sun’s rays excel 
Which place shall be your abode of liberation which the Mighty Vishnu wills

******