Saturday, May 16, 2015

गुरुवायुपुरेशसुप्रभातम् – १६

गुरुवायुपुरेशसुप्रभातम् – १६


प्रत्यग्रश्रेणिकाभूतैः पद्यपुष्पैस्तु वैष्णवैः । 
अर्चितो भगवन् वायुमन्दिरेश प्रसीदतु ॥

पदच्छेदः

प्रत्यग्रश्रेणिकाभूतैः पद्यपुष्पैः तु वैष्णवैः अर्चितः भगवन् वायुमन्दिरेश प्रसीदतु ॥

अन्वयः

प्रत्यग्रश्रेणिकाभूतैः, वैष्णवैः, पद्यपुष्पैः, अर्चितः, तु, भगवन्, वायुमन्दिरेश, प्रसीदतु ॥

प्रतिपदार्थः

प्रत्यग्रश्रेणिकाभूतैः = नूतन​-आवलीरूपैः, वैष्णवैः = विष्णुनामककविकृतैः (विष्णुस्तोत्रपरैः), पद्यपुष्पैः = श्लोकरूपैः कुसुमैः, अर्चितः तु = स्तुतः खलु । भगवन् = हे भगवन्, वायुमन्दिरेश = वायोः देवालयस्य ईश​, प्रसीदतु = (भवान्) नन्दतु ॥

तात्पर्यम्

मया विष्णुनामकेन कविना सुप्रभातरूपाणि नूतन​-आवलीभूतानि पद्यकुसुमानि रचितानि । तैः भवान् स्तुतः अपि । हे भगवन्, वायुपुराधीश​, भवान् अनेन सुप्रभातेन आनन्दितो भवतु इति कविः विष्णुः निवेदयति ॥

हिन्दी

विष्णु नामक कवि कहता है कि मेरे द्वारा समर्पित नूतन आवली से युक्त इस पद्य रूप फूल से आप की अर्चना की गयी । आप हे भगवन्, वायुपुराधीश​, प्रसन्न हों ॥

विशेषः

१) प्रत्यग्रश्रेणिकाभूतैः = प्रत्यग्रा श्रेणिका = प्रत्यग्रश्रेणिका, प्रत्यग्रश्रेणिकया भूतं (सदृशं) = प्रत्यग्रश्रेणिकाभूतं, तैः । यदा भूतशब्दः उत्तरपदे भवति तदा अस्य समम् इत्यर्थः इति भरतः इति शब्दकल्पद्रुमे । तस्य मूलं द्रष्टव्यम् । परन्तु अमरकारस्तु सामान्येन भूतमित्यस्य "समं सदृशम्" इत्यर्थं दर्शयति । स्वरूपार्थे अपि भूतशब्दः प्रयुज्यते । यथा - आसीदिदं तमोभूतम् अप्रज्ञातमलक्षणम् इति मनुः (९-५) स्वरूपार्थे प्रयुङ्क्ते । 
२) पद्यपुष्पैः = पद्यम् एव पुष्पं, तैः ।
३) वैष्णवैः = विष्णोः (तन्नामककविः) इदम् (पद्यम्) = वैष्णवम्, तैः । अथवा विष्णोः (भगवतः हरेः) इदम् (पद्यपुष्पम्) = वैष्णवम्, तैः । अथवा विष्णुः देवता अस्य (सुप्रभातपद्यस्य​) इति वैष्णवम् तैः । अथवा विष्णुम् अधिकृत्य कृतः ग्रन्थः (पद्यम्) = वैष्णवः, तैः ।
४) भगवन् = भगः अस्ति अस्य इति नित्ययोगे मतुप्, मकारस्य वः, भगवान् इति, तस्य सम्बोधने भगवन् इति । भगः नाम ऐश्वर्यम् । तच्च षोढा यथा - ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।  अपि च भगवद्-शब्दार्थः विष्णुपुराणे इत्थं दर्श्यते - मैत्रेय ! भगवच्छब्दः सर्व्वकारणकारणे ॥ संभर्त्तेति तथा भर्त्ता भकारोऽर्थद्वयान्वितः । तेनागमयिता स्रष्टा गकारार्थस्तथा मुने ! ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ इति ॥


ENGLISH

(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

This poet named Vishnu prays fervent 
You caused me weave this new garland 
Of poems strung as flowers fragrant
To worship you with these hymns pleasant 
Hey Lord of Guruvayur, shower your boons 
On all your devotees here soon!


******

No comments: