शिवः इत्यस्य व्युत्पत्तिः बहुधा दर्शितः शास्त्रेषु । तद्यथा -
१) शीङ् स्वप्ने (अदादिः अकर्मकः सेट् आत्मनेपदी) इत्यस्मात् शेरते अस्मिन् (अर्थात् विद्यन्ते अस्मिन् अणिमादयः अष्टौ सिद्धयः) इति शिव: । शीङ्+वन्, शी+व, शि+व, शिवः इति । एषः शब्दः वन्-प्रत्ययान्तः "सर्व-नीधृष्व-निष्व- लष्व-शिव-पट्च-प्रहेष्वाः अतन्त्रे" (उ.१-१५९) इति सूत्रेण निपात्यते ।
२) शिवं कल्याणम् अस्ति अस्मिन् इति व्युत्पत्त्या शिव-शब्दात् "अर्श आदित्वात्" अ-प्रत्यये मत्वर्थीये शिवः इति रूपम् । कल्याणतमः इत्यर्थः ।
३) शो तनूकरणे इति धातोः (दिवादिः सकर्मकः अनिट् परस्म्ऐपदी) श्यति (छिनत्ति) अशुभम् इति व्युत्पत्त्या शिवः इति । अत्रापि (उ.१-१५९) सूत्रेण शो+वन्, श्+वन्, शि+वन्, शि+व, शिवः इति श् इत्यस्य ह्रस्वः इकारः वन्-प्रत्ययः च निपत्यते । अर्थात् यः सर्वं अशुभं नाशयति सः शिवः ।
४) श्यै गतौ इति धातोः (भ्वादिः सकर्मकः अनिट् आत्मनेपदी) श्यायते (गच्छति सर्वदा) इति व्युत्पत्त्या (उ.१-१५९) सूत्रेण वन्-प्रत्ययान्तः निपात्यते । श्यै+वन्, शि+वन्, शि+व, शिवः इति । अर्थात् यः सर्वदा लोककल्याणाय अटति गच्छति वा सः शिवः इति ।
५) सायणः वेदभाष्ये प्रायेण सर्वत्र "शिवः" इति शब्दस्य कल्याणतमः इति अर्थं वदति ॥
******
No comments:
Post a Comment