Saturday, May 2, 2015

गुरुपवनसुप्रभातम् (2)

स्रष्ट्रादौ त्वत्पितृभ्यामभिमतसकलाभीष्टसिध्यै प्रदत्तम्
ताभ्यां जन्मत्रयान्तार्चितमतिशुभदं दिव्यनीलाञ्जनाभम् ।
दिष्ट्या भाग्यातिरेकात्सुरगुरुपवनस्फीतभक्तिप्रभाव-
स्फूर्जत्पुण्यौकमूर्तीकृतमिह महितं तत्प्रतिष्ठापितं च ॥

पदच्छेदः

स्रष्ट्रा, आदौ, त्वत्पितृभ्याम्, अभिमतसकलाभीष्टसिद्ध्यै, प्रदत्तं, ताभ्यां, जन्मत्रयान्तार्चितम्, अतिशुभदं, दिव्यनीलाञ्जनाभं, दिष्ट्या, भाग्यातिरेकात्, सुरगुरुपवनस्फीतभक्तिप्रभावस्फूर्जत्पुण्यौघमूर्तीकृतम्, इह​, महितं, तत्, प्रतिष्ठापितं, च ॥

अन्वयः

आदौ स्रष्ट्रा अभिमतसकलाभीष्टसिध्यै त्वत्पितृभ्यां प्रदत्तम् अतिशुभदं दिव्यनीलाञ्जनाभं, ताभ्यां जन्मत्रयान्तार्चितम् । दिष्ट्या भाग्यातिरेकात् सुरगुरुपवनस्फीतभक्तिप्रभावस्फूर्जत्पुण्यौघमूर्तीकृतम् महितं तत् इह प्रतिष्ठापितं च ॥

प्रतिपदार्थः

स्रष्ट्रा = ब्रह्मणा, आदौ = प्रथमं, अभिमतसकलाभीष्टसिद्ध्यै = उद्दिष्टसर्वाभीष्टसिद्धये, त्वत्पितृभ्यां = तव पितृभ्यां, प्रदत्तं = दत्तं, अतिशुभदं = अत्यन्तशुभदायकं, दिव्यनीलाञ्जनाभं = दिव्यं नीलाञ्जनाख्यधातुविशेषस्य आभायुतं (प्रकाशयुतं) अथवा विद्युतः प्रकाशयुतं दिव्यम्, ताभ्यां = तव पितृभ्यां, जन्मत्रयान्तार्चितं = जन्मत्रयं यावद् अर्चितं, दिष्ट्या = दैवात्, भाग्यातिरेकात् = भाग्यस्य आधिक्येन​, सुरगुरुपवनस्फीतभक्तिप्रभावस्फूर्जत्पुण्यौघमूर्तीकृतम् = बृहस्पतेः वायोः च समृद्धभक्त्याः प्रभावेन सम्भूतपुण्यसमूहस्य मूर्तरूपं, महितं = पूजितं, तत् = मूर्तिः, इह = अत्र (गुरुवायूरुस्थले), प्रतिष्ठापितं च = संस्थापितं किल ॥

विशेषः

१) अभिमतसकलाभीष्टसिद्ध्यै = सकला च अभीष्टा = सकलाभीष्टा, अभिमता च सकलाभीष्टा = अभिमतसकलाभीष्टा, अभिमतसकलाभीष्टानां सिद्धिः = अभिमतसकलाभीष्टसिद्धिः, तस्यै ।
२) त्वत्पितृभ्याम् = तव पितरौ, ताभ्याम् । अत्र पितरौ इत्यनेन जन्मत्रयान्तार्चितम् इत्यनेन च किञ्चिद् ऐतिह्यं स्मार्यते कविना । तदित्थं - सुतपस् इति राजा तत्पत्नी च ब्रह्मणः दिव्यं श्रीकृष्णमूर्तिं प्राप्तवन्तौ । तत्पूजनफलेन प्रश्ननाभः इति पुत्रं प्राप्तवन्तौ । तौ एव द्वितीयजन्मनि कश्यप​-अदितिरूपेण तां मूर्तिम् अर्चितवन्तौ । तत्पूजनपलेन वामनं पुत्रत्वेन प्राप्तवन्तौ । तृतीयजन्मनि तौ एव वसुदेव​-देवकीरूपेण जन्म प्राप्य श्रीकृष्णं पुत्रत्वेन प्राप्तवन्तौ । तद् ऐतिह्यम् अत्र स्मार्यते कविना ।
३) सुरगुरुपवनस्फीतभक्तिप्रभावस्फूर्जत्पुण्यौघमूर्तीकृतम् = सुरगुरुः (बृहस्पतिः)च पवनः (वार्युः) च सुरगुरुपवनौ, स्फीता (समृद्धा) च भक्तिः = स्फीतभक्तिः, सुरगुरुपवनयोः स्फीतभक्तिः = सुरगुरुपवनस्फीतभक्तिः, तस्याः प्रभावः = सुरगुरुपवनस्फीतभक्तिप्रभावः, स्फूर्जत् पुण्यं = स्फूर्जत्पुण्यं, तस्य ओघः = स्फूर्जत्पुण्यौघः, सुरगुरुस्फीतभक्तिप्रभावेन स्फूर्जत्पुण्यौघः = सुरगुरपवनस्फीतभक्तिप्रभावस्फूर्जत्पुण्यौघः, तस्य मूर्तीकृतम् = सुरगुरुस्फीतभक्तिप्रभावस्फूर्जत्पुण्यौघमूर्तीकृतम् (अमूर्तं मूर्तं कृतम् इति मूर्तीकृतम्) ।
४) महितं = मह पूजायाम् इति धातुः, महितं = पूजितम् ।

तात्पर्यम्

ब्रह्मा पूर्वं भगवतः विष्णोः विग्रहं सुतपसे तत्पत्न्यै पुत्रप्राप्त्यर्थम् पूजां विधातुं दत्तवान् । ताभ्यां जन्मत्रयं तस्य विग्रहस्य आराधनं विहितम् । प्रथमजन्मनि सुतपसृऊपेण​, द्वितीयजन्मनि कश्यप​(अदिति)रुपेण​, तृतीयजन्मनि वसुदेव​(देवकी)रूपेण च । प्रथमजन्मनि प्रश्ननाभः इति पुत्रः, द्वितीयजन्मनि वामन इति पुत्रः, तृतीयजन्मनि श्रीकृष्ण इति पुत्रश्च अभवन् । इत्थं जन्मत्रयेण अर्चिता मूर्तिः बृहस्पति-तच्छिष्यवायुभ्यां पुण्येन प्राप्तं, ताभ्याम् अत्र गुरुपवनपुरे प्रतिष्ठापितं च ॥

हिन्दी

ब्रह्मा जी ने विष्णु की एक अपूर्व मूर्ति को सुतपस् नामक राजा को दिया । उसे पूजा करके सुतपस् प्रश्ननाभ नाम पुत्र प्राप्त किया । अपने दूसरे जन्म मे भी वह राजा कश्यप के रूप में जन्म लेकर उस मूर्ति की पूजा करके वामन नामक पुत्र को प्राप्त किया । अपने तीसरे जन्म में वस्य्देव के रूप में जन्म लेकर उसी मूर्ति की पूजा करके श्रीकृष्ण को प्राप्त किया । इस तीन जन्म से पूजित वह मूर्ति बृहस्पति और वायु को उन के पुण्य के फल से प्राप्त हुई । और उस मूर्ति को उनहोंने इस गुरुवायूर्-स्थल में प्रतिष्ठापित किया था ॥

ENGLISH 
(Translation by the Scholar and Linguist Brahmasri Ganeshan @vezhamukhan)

Brahma Handed over an idol of Vishnu to the King Sutapas. 
Sutapas, having worshiped that idol got a son named Prashnanabha. 
In his 2nd birth Sutapas was born Kashyapa
Devotion to the idol bestowed him a son, Vamana
Vasudeva was his name in his birth the third
SriKrishna was his son, prayer to the idol heard
Three births, three different names & sons
Sutapas was truly blessed by the Vishnu icon
Preceptor of the Gods Bruhaspati & his disciple
Embodying the air element known with VAyu title
Obtained the icon by pure devotion
The Guru and VAyu solemnized God’s incarnation
As GuruVayurappan as the father of the world
May he protect lying on Anantha curled


*******

No comments: