दृशेः क्वनिप्
दृशेः क्वनिप् (३-२-९४) इति सूत्रेण दृश्-धातोः कर्मणि उपपदे क्वनिप्-प्रत्ययः भवति
। तथा च पारं दृष्टवान् इत्यर्थे "पारम्" इति कर्मणि उपपदे पारदृश्वन् इति रूपम् ।
प्रथमा-एकवचने पारदृश्वा इति । स्त्रियाम् तु वनो र च (४-१-७) इति रेफादेशे ङीपि
च "पारदृश्वरी" इति रूपम् । काशिकायाम् उदाहरणान्तराणि अपि दर्शितानि -
मेरुदृश्वा, परलोकदृश्वा इति । भट्टिना तु विवेकदृश्वा,यमास्यदृश्वरी इत्यादि
प्रयुक्तम् ॥ अत्र कश्चन विचारः अस्ति । आतो मनिन्क्वनिब्वनिपश्च (३-२-७४)
इति सूत्रात्परम् अन्येभ्योऽपि दृश्यन्ते (३-२-७५) इति सूत्रम् । अत्र छन्दसि इति
निवृत्तम् । तेन इतरेभ्यः सर्वेभ्यः धातुभ्यः क्वनिप्-प्रत्यये सिद्धे पुनः दृशेः क्वनिप्
(३-२-९४) इति सूत्रेण किमर्थं क्वनिप्-प्रत्ययः विधीयते इति शङ्का । अत्र
समाधीयते इत्थं - सिद्धे क्वनिप्-प्रत्यये पुनः विधानं दृश्-धातोः क्वनिप्-
प्रत्ययसहचरितयोः मनिन्-वनिब्-इत्यनयोः निवृत्त्यर्थम् अण्-इत्यादीनामपि
निवृत्त्यर्थं च ॥ तर्हि पुनः शङ्का जायते कथं तर्हि दृश्-धातोः निष्ठा-प्रत्यये
दृष्टवान् इति रूपम् इति । क्वनिप्-प्रत्ययविधानसामर्थ्यात् दृश्-धातोः क्वनिब् एव
भवति इतरे प्रत्ययाः न भवन्ति इति चेत् कथं दृष्टवान् इति निष्ठायां रूपम्
इत्याशयः शङ्कायाः । तस्त समाधानम् एवम् उच्यते - क्वनिप्-
प्रत्ययविधानसामर्थ्याद् उपपदनिमित्तकप्रत्ययस्यैव (कर्मणि उपपदे एव), न तु
निरुपपदप्रत्ययस्य निष्ठा-प्रत्ययस्य इति । अतः पारं दृष्टवान् इति रूपं भवति एव
॥
******
No comments:
Post a Comment