संग्रहः प्रतिपदपाठरूपः
व्यडो नाम ऋषिः तस्य अपत्यं पुमान् व्याडिः । व्याडेः आत्रेय-आर्चनानस-श्यावाश्व-त्र्यार्षिप्रवरत्वम्
। दक्षः मूलपुरुषः, तस्य पुत्रः
दाक्षिः, दाक्षेः पुत्रः
दाक्षायणः - स एव व्याडिः । ऋचस्तु तनयो व्याडिः
न्यायशास्त्रविशारदः इति भविष्यपुराणे (३०-१९) । सकृच्छ्रुतं वररुचिः व्याडिश्च
द्विःश्रुतं वचः (हरचरितचिन्तामणिः) । व्याडिर्विन्ध्यस्थो नन्दिनीसुतः । मेधावी च
इति त्रिकाण्डशेषः । त्रिकाण्डमन्डने
व्याडि-वाशिष्ठवाक्यतः इत्यतः व्याडिना ग्रन्थः रचितः इति स्पष्टं ज्ञायते
॥
संग्रहे एतत् प्राधान्येन विचारितं - नित्यो वा स्यात्
कार्यो वेति इति पस्पशाह्निकभाष्यव्याख्याने कैयटः संग्रह इति - ग्रन्थविशेष
इत्याह । तत्रैव नागेशः - व्याडिकृतो लक्षश्लोकसंख्यो ग्रन्थ इति प्रसिद्धिः इति । संग्रहः इति व्याडिना
रचितः ग्रन्थः लक्षश्लोकात्मकः इति
ऐतिह्यम् । लक्षं श्लोकाः सन्ति
सङ्ग्रहे इति तात्पर्यम् । श्रीमद्रामायणापेक्षया
महाभारतापेक्षया (किञ्चिदूनं लक्षं
श्लोकाः महाभारते सन्ति) च महान् एषः ग्रन्थः इति ज्ञायते । यदि श्लोकरूपः ग्रन्थः
इत्यपि गृह्यते तथापि लक्षं श्लोकनामके अनुष्टुब्वृत्ते पद्यानि तत्र सन्ति इति
स्पष्टम् । यत्र लक्षं श्लोकाः सन्ति स च ग्रन्थः प्रतिपदपाठरूपः, प्राधान्येन प्रतिपदपाठरूपः, प्रासङ्गिकेन जाति-द्रव्य-नित्यानित्यविचारयुतो वा
स्याद् इति अनुमातुं निदानम् अस्ति ॥
उभयप्राप्तौ कर्मणि (२-३-६६) इति सूत्रे भगवता भाष्यकृता
उक्तं - शोभना खलु दाक्षायणस्य सङ्ग्रहस्य कृतिः इति । संग्रहस्य कृति: इति
भाष्यांशेन संग्रहरूपस्य कृतिः इति बोद्धुम् अस्ति निदानम् । अन्यथा पूर्वम्
उक्तरीत्या संग्रह-कृतिः इत्येव अवदिष्यत् । स्थलद्वये एकत्र संग्रहे इति अन्यत्र
संग्रहस्य इति प्रयोगसामर्थ्याद् इदम् अनुमीयते तस्मिन् ग्रन्थे प्रायेण
प्रतिपदपाठः क्वचित् प्रमेयविचारः अपि स्याद् इति वक्तुं शक्यते ॥
सरूपाणाम् एकशेष
एकविभक्तौ (१-२-६४) इति सूत्रे द्रव्याभिधानं व्याडिः इति वार्त्तिकम् । अत्र भाष्यकारः - द्रव्याभिधानं व्याडिराचार्यो
न्याय्यं मन्यते, द्रव्यम् अभिधीयते
इति । अत्र
"द्रव्याभिधानं व्याडिराचार्यः न्याय्यं मन्यते" इत्येव भाष्यांशः
व्याख्यातृभ्यां कैयट-नागेशाभ्यां व्याख्यातः । अग्रिमग्रन्थः "द्रव्यम्
अभिधीयते" इति अंशः न व्याख्यातः । एतस्य वाक्यस्य किं तात्पर्यं स्यात्? "द्रव्याभिधानं व्याडिराचार्यः न्याय्यं
मन्यते" इत्यनेन एव व्याडेः आचार्यस्य पक्षः स्पष्टम् उपस्थापितः । पुनः
"द्रव्यम् अभिधीयते" इति वाक्यं पुनरुक्तिः अथवा व्यर्थं स्यात् ।
परन्तु भाष्यकारः एकमपि अक्षरं न व्यर्थं प्रयुङ्क्ते । तेन इदम् ज्ञायते -
द्रव्याभिधानं व्याडिराचार्यः न्याय्यं मन्यते,
अत एव व्याडिना "द्रव्यम् अभिधीयते" अर्थात् पदशः पाठः क्रियते
द्रव्याणां परिचायकरूपेण इति । क्वचिद् जाति-आकृति-नित्य-अनित्यविचाराः अपि
क्रियेरन् नास्ति दोषः, यथा वाक्यपदीये ॥
वाक्यपदीये कश्चन प्रसङ्गः । स च इत्थम् -
प्रायेण संक्षेपरुचीन् अल्पविद्यापरिग्रहान्
सम्प्राप्य वैयाकरणान् संग्रहेऽस्तम् उपागते ।
कृतेऽथ पतञ्जलिना गुरुणा दी(ती)र्घदर्शिना
सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने ॥ (वाक्यपदीये २-४८५) इति ।
अत्र पुण्यराजः इत्थं व्याख्याति - इह पुरा पाणिनीयेऽस्मिन्
व्याकरणे व्याड्युपरचितं ग्रन्थलक्षपरिमाणं संग्रहाभिधानं निबन्धनमासीत् । तच्च
कालवशात् सुकुमारबुद्धीन् वैयाकरणान् प्राप्य अस्तम् उपागतम् । तस्मात्
क्लेशभीरुत्वात् संक्षेपरुचयः ते जनाः । तैः संग्रहाध्ययने उपेक्षिते सति अस्तं
यातः संग्रहः इति । एतेन इदं स्पष्टं कालक्रमेण विद्यार्थिनः अत्यन्तं लघुना उपायेन सर्वान्
शब्दान् ज्ञातुम् ऐच्छन् । तस्मात् ते प्रतिपदपाठरूपं महान्तं क्लेशकरं व्याकरणं पठितुं न
ऐच्छन् । अतः तादृशान् सुकुमारबुद्धीन् अर्थात् लाघवबुद्धीन् प्राप्य स च
संग्रहग्रन्थः अस्तं गतः अर्थात् अध्ययन-अध्यापनपरम्परायाः च्युतः अभवत् ।
"क्लेशभीरुत्वात्" इत्यंशेनापि इदं स्पष्टं जायते । कः सर्वान् शब्दान्
पठित्वा मननं कुर्यात् इति ते संक्षेपरुचयः अजायन्त । अर्थात् संक्षेपरुचयः
इत्यस्य तात्पर्यं भवति संक्षेपेण लघुना उपायेन सूत्ररूपेण (as Formula) पठितुम्
अभिरुचिमन्तः इति । एतेनापि संग्रहः प्रतिपदपाठरूपः विचाररूपः च स्याद् इति
अनुमीयते ॥
पुनश्च स एव पुण्यराजः द्वितीयकाण्डप्रस्तावनावसरे इत्थं
निगदति –
अवतारोऽपि भाष्यस्य संग्रहेऽस्तमुपागते ।
निबन्धहेतौ शास्त्रस्य टीकाकारेण कीर्तितः ॥
संग्रहार्थाद्यनुगुणरूपत्वं च उपपादितम् ॥ इति ।
संग्रहादिषु ग्रन्थेषु अस्तम् उपगतेषु साधु-असाधुशब्दविषये
निर्णयाभावरूपे विप्लवे जाते पाणिनीयादिकं लघुना उपायेन साधुशब्दबोधकं व्याकरणं
प्रवृत्तम् । "संग्रहार्थ" इत्यत्र अर्थशब्दः प्रयोजनवाची । तथा च
संग्रहग्रन्थस्य प्रयोजनं साधूनां शब्दानां पाठः, तस्माद् अर्थात् प्रयोजनात् अच्युतो भूत्वा तदनुगुणरूपः लघीयान् उपायः
उपपादितः परवर्तिभिः पाणिन्यादिभिः आचार्यैः इति । एतेन अपि संग्रहः प्रतिपपाठरूपः
इति अनुमातुम् अस्ति निदानम् ॥
श्रीमद्रामायणे उत्तरकाण्डे एषः श्लोकः दृश्यते –
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं सिद्ध्यति वै
कपीन्द्रः (रा.उ.३६-४५) ।
अत्र टीकाकारः गोविन्दराजः इत्थम् आह - सूत्रम्
अष्टाध्यायीलक्षणम्, वृत्तिः
सूत्रार्थमात्रप्रतिपादकग्रन्थः, अर्थपदं वार्त्तिकम्
उक्तानुक्तद्विरुक्तचिन्तारूपम्, महार्थं भाष्यं
विस्तरविवरणरूपम्, संग्रहं प्रकरणादि
साध्यति साधयति धारयतीत्यर्थः इति । साक्षात् पाणिनीये व्याकरणे एव हनूमान्
निष्णातः इति अनुक्त्वा केवलं सूत्र-वार्त्तिक-भाष्य-संग्रहाणां लक्षणम्
उक्त्वा तादृशव्याकरणे एषः हनुमान् निष्णातः इति तात्पर्यार्थं निगदति । किञ्च
अत्र संग्रहरूपस्य ग्रन्थस्य लक्षणं दर्शयति - प्रकरणादि साध्यति साधयति धारयति
इत्यर्थः इति । एतेन इदं स्पष्टं संग्रहो नाम तादृशः ग्रन्थः यस्मिन्
प्रकरणादिवशाद् प्रमेयविचारस्य, साध्यति
इत्यादिपरिनिष्ठितशब्दानां च संग्रहः भवति इति ॥
प्रसङ्गवशात् कश्चन विषयः अत्र उच्यते । पूर्वोक्ते प्रकरणे
तिलकटीकाकारः ब्रूते - विशिष्य नवम-व्याकरणकर्ता हनूमान् इति च प्रसिद्धिरिति कतकः इति । प्राग् अष्टौ एव
व्याकरणानि आसन् । नवमस्य व्याकरणस्य कर्त्ता हनुमान् इति कतकव्याख्यातुः मतम् इति
तिलकव्याख्याता वदति ॥
********
No comments:
Post a Comment