Tuesday, May 19, 2015

मनुवर्ण:

मनुवर्ण​:


तवापर्णे कर्णे विशति मनुवर्णे फलमिदं जनः को जानीते जननि जपनीयं जपविधौ ॥

पदच्छेदः

तव अपर्णे कर्णे विशति मनुवर्णे फलम् इदं जनः कः जानीते जननि जपनीयं (ये) जपविधौ ॥

अन्वयः 

(प्रकृतस्य अर्धस्य एव अर्थः अन्वयः च​)​) अपर्णे तव मनुवर्णे कर्णे विशति इदं फलं (चेत्); हे जननि जपनीयं (ये) जपविधौ (किं फलम् इति) कः जानीते ।

प्रतिपदार्थः 

अपर्णे = हे तपस्यायां पर्णभक्षणवृत्तिरहिते, तव = भवत्याः, मनुवर्णे = मन्त्राक्षरे, कर्णे = कर्णयोः, विशति = प्रविशति सति, इदं = एतावत्, फलं = लाभः चेत्, जननि = हे मातः, जपनीयं (ये) = जपनीयं सर्वं (जपनीयेषु सर्वेषु), जपविधौ = जपानुकूलविधेः अनुसारेण (जपविधिषु), कः = (किं फलम् इति) कः, जानीते = जानीयात् ।

विशेषः

१) अपर्णे = नास्ति पर्णं तपस्यायां यस्याः सा = अपर्णा (तपस्याचरणकाले पर्णानि अपि या त्यक्तवती सा पार्वती इति अर्थः) "त्यक्तपर्णा अपर्णाख्यामवाप सा" इति प्रयोगः द्रष्टव्यः । तस्याः सम्बोधने अपर्णे इति ।
२) मनुवर्णे = सप्तमी मनुवर्णः इत्यस्य । मन्यते इति मनुः मन्त्रः इत्यर्थः । मनुवर्णः = मन्त्रवर्णः । यथा प्रयोगः - "गो-हिरण्यक-वस्त्राद्यैस्तोषयेद् गुरुमात्मनः । यथा ददाति सन्तुष्टः प्रसन्नवदनो मनुम्" इति गौतमीतन्त्रे । "एकोत्तरोऽयं पञ्चाशद्वर्णोऽघोरः स्मृतो मनुः" इति आनन्दकन्दाख्ये ग्रन्थे । "पुरश्चर्याविधौ किन्तु षट्सहस्रं मनुं जपेत्" इति कामाख्यास्तुतौ चतुर्थपटले ॥
३) जपनीयं जपनीये इति उभयथा अपि अन्वयः सम्भवति । परन्तु पाठक्रमे जपनीयम् इति एव श्रूयते ॥

********

No comments: