Tuesday, May 12, 2015

गुरुवायुपुरेशसुप्रभातम् -१२

गुरुवायुपुरेशसुप्रभातम् -१२

नारायणारुणरुचिप्रसरा दिगैन्द्री तारावली विरलतामुपयाति मन्दम् ।
नानास्वरैर्मुखरितानि दिशां मुखानि श्रीमारुताधिप हरे तव सुप्रभातम् ॥

पदच्छेदः

नारायणारुणरुचिप्रसरा, दिग्, ऐन्द्री, तारावली, विरलताम्, उपयाति, मन्दं, नानास्वरैः, मुखरितानि, दिशां, मुखानि, श्रीमारुताधिप, हरे, तव, सुप्रभातम् ॥

अन्वयः

नारायणारुणरुचिप्रसरा ऐन्द्री दिग् तारावली मन्दं विरलताम् उपयाति नानास्वरैः दिशां मुखानि मुखरितानि श्रीमारुताधिप हरे तव सुप्रभातम् ॥

प्रतिपदार्थः

नारायणारुणरुचिप्रसरा = नारायणरूपस्य सूर्यस्य रक्तवर्णकिरणप्रसारैः युक्ता, ऐन्द्री = प्राची, दिग् = दिशा, तारावली = नक्षत्राणाम् आवलिः, मन्दः = शनैः, विरलतां = तनुतां (अदृश्यतां), उपयाति = गच्छति, नानास्वरैः = विविधशब्दैः, दिशां = दिशानां, मुखानि = स्थानानि (आकाशे), मुखरितानि = शब्दैः व्याप्तानि, श्रीमारुताधिप = व् आयुपुरस्य अधीश (वायोः अधीश वा), हरे = विष्णो, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

तात्पर्यम्

प्रातः सूर्योदयकालिकरक्रवर्णकिरणैः प्राची दिशा पूर्णा वर्तते, नक्षत्राणि च शनैः शनैः सूक्ष्मतां गच्छन्ति, विविधशब्दैः युक्तः राजते आकाशः । अर्थात् प्रातःकालः आगतः तस्मात् हे कृष्ण त्वं उत्तिष्ठ इति । हे वायोः अधीश विष्णो तुभ्यं शुभप्रभातं व्याहरामः ॥

हिन्दी

प्रभाते सूर्य के उदय कालिक रक्त वर्ण किरणों से युक्त दिखती है पूरब दिशा । नक्षत्र धीरे धीरे अदृश्य होते जा रहे हैं । और आकाश में विविध ध्वनि प्रसृत होता है । अतः हे कृष्ण आप उठो । हे वायुपुर के अधीश विष्णो आप को शुभ प्रभात कहते हैं ॥

विशेषः

१) नारायणारुणरुचिप्रसरा = नारायणः = सूर्यः, अरुणः = रक्तवर्णः, रुचिः = किरणः, प्रसरा = विकीर्णा । अरुणा च रुचिः च = अरुणरुचिः, नारायणस्य अरुणरुचिः = नारायणारुणरुचिः, तस्याः प्रसरः = नारायणारुणरुचिप्रसरः, नारायणारुणरुचिप्रसरः यस्याः सा = नारायणारुणरुचिप्रसरा, इदं ऐन्द्री दिग् इत्यस्य विशेषणम् । ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः इति आदित्यहृदये सूर्यमण्डलमध्यवर्ती नारायणः इत्युक्तत्वात् सूर्यः एव नारायणः । स यश्चायं पुरुषो यश्चासौ आदित्ये इति श्रुतेः आदित्ये वर्तमानः नारायणः । नित्यानन्दं निरानन्दं सूर्य्यमण्डलमध्यगम् इति कालिकापुराणवचनात् च सूर्यमण्डलमध्यवर्तित्वात् सूर्यरूपः नारायणः । अर्च्चयन् पूजयन् देवं जपेच्च रविमण्डले । आदित्यमण्डले देवं ध्यात्वा विष्णुमुपैति तम् ॥ इति विष्णुपुराणोक्त्या च आदित्यः नारायणः ।
२) ऐन्द्री = इन्द्रस्य इयम् अथवा इन्द्रो देवता अस्याः = ऐन्द्री
३) तारावली = ताराणाम् आवली = तारावली, नक्षत्रसमूहः इत्यर्थः ।
४) मन्दम् = क्रियाविशेषणमिदम्, मन्दम् उपयाति इत्यर्थः ।
५) मुखरितानि = ऊषसुषिमुष्कमधो रः (५-२-१०७) इति सूत्रे  रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानम् इति वार्त्तिकेन मुखम् अस्य अस्ति इति मुखरः = शब्दायमानः इत्यर्थः । मुखर इव आचरितः मुखरितः । अर्थः तु शब्दायमानः एव ।

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

Oh what a glorious morning for you Krishna to rise The ochre coloured clouds herald in the East the Sunrise All Stars are disappearing in the lustrous light of the Sun
And sounds diverse pervade the sky showing lives abound Now is the time for You to bestow Your divine grace
On your devotees assembled here with a pious pace


*****

No comments: