Saturday, May 23, 2015

वात्यापुरेश्वरीस्तोत्रम् – २, ३ & ४

वात्यापुरेश्वरीस्तोत्रम् – २

पङ्केरुहप्रियतमोऽपि सुवर्णसूचीसङ्काशरश्मिनिवहैस्तव पादयुग्मम् ।
नीराजयन्नचिरतोऽयमुदेष्यतीह वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥२॥

पदच्छेदः

पङ्केरुहप्रियतमः अपि सुवर्णसूचीसङ्काशरश्मिनिवहैः तव पादयुग्मं नीराजयन् अचिरतः अयम् उदेष्यति इह वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

अन्वयः

सुवर्णसूचीसङ्काशरश्मिनिवहैः तव पादयुग्मं नीराजयन् पङ्केरुहप्रियतमः अयम् अपि इह उदेष्यति वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

प्रतिपदार्थः

सुवर्णसूचीसङ्काशरश्मिनिवहैः = स्वर्णसूचीसदृशकिरणसमूहैः, तव = भवत्याः, पादयुग्मं = चरणद्वयं, नीराजयन् = आरार्त्तिकं कुर्वन्, पङ्केरुहप्रियतमः = पद्मपुष्पस्य प्रियः, अयम् अपि = एषः सूर्यः अपि, अचिरतः = शीघ्रम्, इह = अत्र​, उदेष्यति = उदितः भविष्यति, वात्यापुरेश्वरि = हे वात्यापुरस्य ईश्वरि, शिवे = भद्रे, तव = तुभ्यं, सुप्रभातं = शुभप्रभातम् ॥

विशेषः

१) सुवर्णसूचीसङ्काशरश्मिनिवहैः = सुवर्णनिर्मिता सूची = सुवर्णसूची, तत्सङ्काशैः (तत्सदृशैः) रश्मिनिवहैः (किरणसमूहैः) । सङ्काशशब्दः सदृशार्थे अत्र प्रयुक्तः । यथा प्रयोगः "अतसीपुष्पसङ्काशम्..", "शुद्धस्फटिकसङ्काशं त्रिनेत्रम्.." "जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्" "सहस्रादित्यसङ्काशं सहस्रवदनं प्रभुम्" इत्यादिः । निवहः समूहः इत्यमरः ।
२) नीराजयन् = आरार्त्तिकं कुर्वन् इत्यर्थः । निरास्य शान्तिजलस्य अजनं क्षेपः नीराजनम् इति नितरां राजनं नीराजनम् इति वा । दीप​-उदकादिभिः क्रियमाणे आरार्त्तिके ।
३) पङ्केरुहप्रियतमः = पङ्केरुहः = पद्मं, तस्य प्रियतमः = सूर्यः इत्यर्थः । सूर्योदये सति पद्मं विकसति इति कारणतः तत्प्रियः सूर्यः ॥

तात्पर्यम्

सूर्यः तव चरणयोः सुवर्णमयकिरणैः नीराजनं करोति । सः शीघ्रम् एव उदेष्यति । अतः हे वात्यापुरेश्वरि भद्रे, तव सुप्रभातं व्याहरामः, त्वं शीघ्रम् उत्तिष्ठ ॥

हिन्दी

सूरज अपने सुवर्णमय किरणों से आप के चरण युगल को नीराजन करता है । वह शीघ्र ही उदित होगा । हे वात्यापुरी के ईश्वरि, भद्रे, आप का शुभ प्रभात कहते हैं । आप उठो ॥

ENGLISH
(Translation by Brahmasri Ganeshan @vezhamukhan)

Hey Vatyapuri the Sun is bathing your feet with his golden rays 
Before he lights up the world, rise at this early hours of the day


(Translation by Muddassir Ahmad @meddassirahmad7)

The dearest of lotuses, the sun too, is about to rise after adoring the pair of your feet with cluster of rays resembling golden pins, (so) O Lady of Vātyapura, the benignant Good morning to you!


**********

वात्यापुरेश्वरीस्तोत्रम् – ३

बहिर्मुखाः सवनिताः परिपूतचित्तास्तेऽहर्मुखे सपदि तीर्थनिमग्नगात्राः ।
द्वारोपकण्ठभुवि सन्ति विनीतवेषा वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

पदच्छेदः

बहिर्मुखाः सवनिताः परिपूतचित्ताः ते अहर्मुखे सपदि तीर्थनिमग्नगात्राः द्वारोपकण्ठभुवि सन्ति विनीतवेषाः वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

अन्वयः

परिपूतचित्ताः सवनिताः बहिर्मुखाः सपदि अहर्मुखे तीर्थनिमग्नगात्राः विनीतवेषाः ते द्वारोपकण्ठभुवि सन्ति वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

प्रतिपदार्थः

परिपूतचित्तः = शुद्धान्तःकरणाः, सवनिताः = दीक्षिताः स्तोत्राणि गायन्तः वा, बहिमुखाः = बाह्यमुखयुक्ताः, सपदि = अधुना एव​, अहर्मुखे = दिवारम्भे, तीर्थनिमग्नगात्राः = पुण्योदके स्नाताः, विनीतवेषाः = शास्त्रोक्तवस्त्राणि धारयन्तः, ते = भक्ताः, द्वारोपकण्ठभुवि = मन्दिरद्वारस्य समीपे, सन्ति = वर्तन्ते । वात्यापुरेश्वरि = हे वात्यापुरस्य ईश्वरि, शिवे = भद्रे, तव = तुभ्यं, सुप्रभातं = शुभप्रभातम् ॥

विशेषः

१) बहिर्मुखः = बहिः मुखं येषां ते = बहिर्मुखाः । मुखशब्दोऽत्र शब्दवाची वेदवाची वा । तथा च बहिः वेदमन्त्रान् उच्चरन्तः अथवा स्तोत्राणि उचारन्तः इत्यर्थः । परिपूतचित्तः इत्यनेन अन्तःकरणशुद्धिः उक्ता, बहिर्मुखाः इत्यनेन बाह्यजिह्वाशुद्धिः उक्ता ।
२) सवनिताः = सवनं यागः । तत्सम्बन्धिनी दीक्षा वा । तथा च दीक्षिताः इत्यर्थः । अथवा तीर्थनिमग्नगात्राः इत्यस्य विशेष्यम् । पुण्योदकस्नाताः दीक्षिताः इति ।
३) परिपूतचित्ताः = परिपूतं चित्तं येषां ते = परिपूतचिताः, शुद्धान्तःकरणाः इत्यर्थः ।
४) अहर्मुखे = अहः = दिवा, तन्मुखं च दिवारम्भकालः अर्थात् अन्तिमयामे ब्राह्मे मुहूर्त्ते इति । अह्नः मुखं तस्मिन् ।
५) सपदि = अव्ययमिदम् । सद्यः, तदानीमेव​, द्रुतं, तत्क्षणः इत्यर्थः ।
६) तीर्थनिमग्नगात्राः = तीर्थे निमग्नं गात्रं येषां ते = तीर्थनिमग्नगात्राः । पुण्योदकस्नाताः इत्यर्थः ।
७) द्वारोपकण्ठभुवि = द्वारस्य उपकण्ठं (समीपे) द्वारोपकण्ठं, तस्य भूः द्व्रोपकण्ठभूः, तस्याम् । अर्थात् मन्दिरद्वारस्य समीपे इति ।
८) विनीतवेषाः = विनीतः वेषः येषां ते । विनीतः शास्त्रसंस्कृतः इन्द्रिययमो वा विनयः तादृशः । शास्त्रसंस्कृतो वेषः येषां ते इति ॥

तात्पर्यम्

शुद्धान्तह्करणाः दीक्षिताः वेदं स्तोत्राणि वा उच्चरन्तः तत्क्षणे एव पुण्योदके स्नाताः शास्त्रसंस्कृतवेषयुक्ताः भक्ताः तव मन्दिरस्य द्वारे तिष्ठन्ति । हे वात्यापुरेश्वरि भद्रे तव शुभप्रभातं व्याहरामः ॥

हिन्दी

शुद्ध अन्तःकरण के साथ् जिभ में स्तोत्रों का उच्चारण करते हुए पुण्य तीर्थ स्नान करके विनय और समुचित वेष के साथ आप के द्वार पर खडे हैं आप के भक्त । हे वात्यापुरेश्वरि भद्रे आप को शुभ प्रभात कहते हैं ॥

ENGLISH
(Translation by Brahmasri Ganeshan @vezhamukhan)
With a clear conscience and chanting your hymns, bathed in holy waters & attired apt 
Wearing all proper symbols your devotees are waiting on You at your doors packed 
Rise Hey Vatyapuri, bestower of all things good, now is the morning for You to keep us wrapped


                                   (Translation by Muddassir Ahmad @meddassirahmad7)

They (your devotees), with pure minds, chanting hymns with morning-faces, having bathed with bodies immersed in holy waters, are waiting near your door, dressed properly. (So) O Lady of Vātyapura, the benignant Good Morning to you!

**********

वात्यापुरेश्वरीस्तोत्रम् – ४

सिद्धाश्च विद्याधरयक्षरक्षोभूताप्सरःकिन्नरगुह्यकाश्च ।
गन्धर्वसङ्घाः सपिशाचवृन्दा गायन्ति दुर्गे तव सुप्रभातम् ॥

पदच्छेदः

सिद्धाः च विद्याधरयक्षरक्षोभूतोप्सरकिन्नरगुह्यकाः च गन्धर्वसङ्घाः सपिशाचवृन्दाः गायन्ति दुर्गे तव सुप्रभातम् ॥

अन्वयः

सिद्धाः च विद्याधरयक्षरक्षोभूतोप्सरकिन्नरगुह्यकाः च गन्धर्वसङ्घाः सपिशाचवृन्दाः गायन्ति दुर्गे तव सुप्रभातम् ॥

प्रतिपदार्थः

सिद्धाः = सिद्धपुरुषाः, च = अपि, विद्याधरयक्षरक्षोभूतोप्सरकिन्नरगुह्यकाः च = विद्याधराः यक्षाः रक्षांसि (रक्षोभूताः) भूताः अप्सरसः किन्नराः गुह्यकाः पि, गन्धर्वसङ्घाः = गन्धर्वसमूहाः, सपिशाचवृन्दाः = पिशाचसमूहेन साकं, दुर्गे = हे देवि, तव = भवत्याः, सुप्रभातं = शुभप्रभातं, गायन्ति = गानं कुर्वन्ति ॥

विशेषः

१) सिद्धाः = अणिमादिसिद्धियुक्तः देवयोनिविशेषः, तस्य लोकः अन्तरिक्षाद् ऊर्ध्वं चन्द्रलोकाद् अधस्तनः इति शास्त्रम् ।
२) विद्याधरयक्षरक्षोभूतोप्सरकिन्नरगुह्यकाः = विद्याधराः यक्षाः रक्षांसि भूताः अप्सरसः किन्नराः गुह्यकाः च । तत्र विद्याधरः अपि देवयोनिविशेषः, विद्यां मन्त्रान् धरति इति विद्याधरः । यथेच्छं रूपं धारयितुं समर्थाः इमे इति शास्त्रम् । नैकैर्यक्षगणैर्व्याप्तं त्रैलोक्यमप्सरोगणैः । तेषामुत्पादितान्योन्यं महागन्धर्व्वनायकाः ॥ उत्पादिताः पुनस्तैर्ये विक्रान्ता युद्धदुर्म्मदाः । विद्याधरेश्वरास्ते तु खेचराः कामचारिणः ॥ इति तेषाम् उत्पत्तिः स्वरूपं च । यक्षः = यक्ष्यते पूज्यते इति यक्षः । कुबेरादयः देवयोनिविशेषाः । धातुर्यक्षत्यथोक्तस्त्वददने क्षपणे च सः । यद्यक्षत्युक्तवानेष तस्माद्यक्षो भवत्ययम् ॥ इति तेषाम् उत्पत्तिः । रक्षः राक्षसः । तस्य स्वभावविवरणं यथा - दृष्ट्वा तु विकलान् व्यङ्गाननाथान् रोगिणस्तथा
दया न जायते यस्य स रक्ष इति मे मतिः ॥ इति । भूतः अधोमुख्-ऊर्ध्वमुखविशेषः पिशाचभेदः । अपि च शिव​-विष्णुगणभूताः च । अप्सरसः अद्भ्यः समुद्रजलेभ्यः सरन्ति इति अप्सरसः । तासाम् उत्पत्तिः यथा - अप्सु निर्मथनादेव रसात् तस्मात् वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् इति । किन्नरः कुत्सितो नरः इति किन्नरः । ते अश्वमुखाः इति प्रसिद्धम् । तुम्बुरुप्रभृतयः स्वर्गगायकाः इमे । गुह्यकाः गूहति निधिं धनं इति गुह्यकः । निधिं रक्षन्ति ये यक्षास्ते स्युर्गुह्यकसंज्ञकाः इति निरुक्तिः । ते च कुबेरस्य अनुचराः मणिभद्रादयः ।
३) गन्धर्वसङ्घः = गन्धर्वाणां सङ्घः । गन्धं (सङ्गितगन्धं) अर्वति (प्राप्नोति प्रापयति) इति वा गन्धर्वः । एते अपि स्वर्गगायकविशेषाः । एषः देव​-मानुषभ्देन द्विधा । तद्यथा - अस्मिन् कल्पे मनुष्यः सन् पुण्यपाकविशेषतः । गन्धर्व्वत्वं समापन्नो मर्त्यगन्धर्व्व उच्यते ॥ पूर्ब्बकल्पकृतात् पुण्यात् कल्पादावेव चेद् भवेत् । गन्धर्व्वत्वं तादृशोऽत्र देवगन्धर्व्व उच्यते ॥ इति ।
४) सपिशाचवृन्दाः = पिशाचानां वृन्दः, तेन सह । पिशितं (मांसं) अश्नाति इति पिशाचः । पिशाचाः राकसेभ्यः अपि अपकृष्टाः अशुचिमरुदेशनिवासिनः इति मनुस्मृतिव्याख्याने कुल्लूकभट्टः ।

तात्पर्यम्

हे दुर्गे, सिद्धाः विद्याधराः यक्षाः राक्षसाः भूताः अप्सरसः किन्नराः गुह्यकाः गन्धर्वाः पिशाचाः च सर्वे तव सुप्रभातं गायन्ति ।

हिन्दी

हे दुर्गे, सिद्ध​, विद्याधर यक्ष राक्षस भूत अप्सरस् किन्नर गुह्यक गन्धर्व और पिशाच सभी आप के सुप्रभात गाते हैं ॥

ENGLISH
(Translation by Brahmasri Ganeshan @vezhamukhan)

Demi-Gods as Siddhas, Vidyadharas, Yakshas, Rakshasas Bhootas, Apasarasas, Kinnaras, Kimpurushas, Gruhyakas
Gandharvas & Pisacas all have arrived singing Your paeans Hey invincible Durga, rise up and bless us all,anon!

Translation by Muddassir Ahmad @muddassirahmad7

Demigods, Vidyādharas, Yakshas, Demons, Ghosts, Heavenly Nymphs, Kinnars, Guhyakas, celestial singers and fiends, all sing to you O Durga! Good morning to you!


**********

No comments: