Saturday, May 9, 2015

गुरुवायुपुरेशसुप्रभातम् - ८

गुरुवायुपुरेशसुप्रभातम् - ८

कंसाराते मुरहर भवन्नाममाहात्म्यतत्त्वं
संसाराब्धिप्रतरणकृते नीलकण्ठोपदिष्टम् ।
बुध्वा भक्त्या दिनमनु जपन्त्यत्र नारायणेति
श्रीकान्त श्रीगुरुमरुदगारेश ते सुप्रभातम् ॥

पदच्छेदः

कंसाराते, मुरहर, भवन्नाममाहात्म्यतत्त्वं, संसाराब्धिप्रतरणकृते, नीलकण्ठोपदिष्टं, बुध्वा, भक्त्या, दिनम्, अनु, जपन्ति, अत्र, नारायण इति, श्रीकान्त, श्रीगुरुमरुदगारेश, ते, सुप्रभातम् ॥

अन्वयः

संसाराब्धिप्रतरणकृते नीलकण्ठोपदिष्टं भवन्नाममाहात्म्यतत्त्वं बुध्वा भक्त्या नारायण इति दिनम् अनु जपन्ति अत्र । (हे) कंसाराते मुरहर श्रीकान्त​, श्रीगुरुमरुदगारेश ते सुप्रभातं (व्याहरामः) ॥

प्रतिपदार्थः

संसाराब्धिप्रतरणकृते = जीवसागरतरणाय​, नीलकण्ठोपदिष्टं = भगवता शिवेन उपदिष्टं, भवन्नाममाहात्म्यतत्त्वं = तव नाम्नः महत्त्वरूपं तत्त्वं, बुध्वा = विदित्वा, भक्त्या = अनुरागेण​, नारायण इति = नारायण इति नाम​, अनु दिनम् = प्रतिदिनम्, अत्र = अस्मिन् क्षेत्रे, जपन्ति = भक्ताः उच्चरन्ति । कंसाराते = कंसनामकस्य शत्रो, मुरहर = मुरनामकस्य दैत्यस्य नाशयितः, श्रीकान्त = लक्ष्म्याः प्रिय​, श्रीगुरुमरुदगारेश = गुरुपवनपुरेश​, ते = तव​, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

तात्पर्यम्

संसारसागरतरणाय भगवता महादेवेन उपदिष्टं तव नाम्नः माहात्म्यं विज्ञाय अनुरागेण प्रतिदिनं नारायण नारायण इति अस्मिन् क्षेत्रे उच्चारणं कुर्वन्ति भक्ताः । हे कंसस्य शत्रो, मुरनामकस्य दैत्यस्य नाशयितः, लक्ष्मीप्रिय​, श्रीगुरुपवनपुरेश तव शुभप्रभातं व्याहरामः ॥

हिन्दी

इस भव सागर को पार करने के लिए महादेव के द्वारा उपदिष्ट आप का नाम उच्चारण के महत्त्व को जानकर भक्ति के साथ सभी भक्त यहां पर नारायण नारायण जपते रहते हैं । हे कंस के शत्रु, मुर को नाशकरनेवाले, लक्ष्मी के प्रिय​, गुरुवायुपुर के अधीश हम आप को शुभ प्रभात कहते हैं ॥

विशेषः

१) कंसाराते = कंसस्य (कंस नाम के दैत्य​) अरातिः (शत्रुः) = कंसारातिः । रा दाने अदादिः परस्मैपदी सकर्मकः सेट् । राति (ददाति) सुखम् इति व्युत्पत्तौ रा-धातोः क्तिच्-प्रत्यये रातिः, न रातिः = अरातिः, यः सुखं न ददाति सः, शत्रुः इत्यर्थः । मा नो अरातिरीशत (ऋ.वे.२-७-२) इति मन्त्रे अरातिः = अदानं शत्रुत्वम् इति व्याख्याति सायणः ॥
२) मुरहर = मुरस्य हरः = मुरहरः । मुरनामकस्य असुरस्य हन्ता मुररिपुः इति विष्णुः इत्यर्थः ॥
३) भवन्नाममाहात्म्यतत्त्वं = भवतः नाम = भवन्नाम​, भवन्नाम्नः (म्नां वा) माहात्म्यं = भवन्नाममाहात्म्यं, तस्य तत्त्वं = भवन्नाममाहात्म्यतत्त्वम् । महात्मनः भावः = माहात्म्यम्, महिमा इत्यर्थः । तस्य भावः = तत्त्वम् अथवा तनोति सर्वम् इति तत्त्वम् । याथार्थ्यं, स्वरूपम् इति वा अर्थः ॥
४) संसाराब्धिप्रतरणकृते = संसारः एव अब्धिः = संसाराब्धिः, तस्य प्रतरणं = संसाराब्धिप्रतरणं, संसाराब्धिप्रतरणस्य कृते = संसाराब्धिप्रतरणकृते । अत्र कृते इति अव्ययं निमित्तार्थकम् । संसाराब्धिप्रतरणनिमित्तम् इत्यर्थः । यथा च प्रयोगः "सुरातिथ्यर्चनकृते" इति याज्ञ्यवल्क्यस्मृतौ (आचाराध्याये दानप्रकरणे श्लो.सं.२१३) ॥
५) नीलकण्ठोपदिष्टम् = नीलकण्ठेन उपदिष्टं = नीलकण्ठोपदिष्टम् । नीलः कण्ठः यस्य सः = नीलकण्ठः । "केनोपायेन लघुना विष्णोर्नामसहस्रकम्" इति पार्वत्या पृष्टे सति भगवता शिवेन उपदिष्टं "श्रीरामरामरामेति" इति विष्णोः नाम्नां माहात्म्यम् अत्र अनुसन्धेयम् ॥
६) दिनमनु = अनुदिनम् इत्यर्थः । अत्र अनु इति कर्मप्रवचनीयः, तद्योगे "दिनम्" इति द्वितीया विभक्तिः ।
७) नारायणेति = नारायण इति । विष्णुसहस्रनामभाष्ये भगवता शङ्करेण दर्शितं यथा - नरः आत्मा ततो जातान्याकाशादीनि नाराणि तानि कार्य्याणि अयते कारणात्मना व्याप्नुते इति नारायणः । महाभारते च - नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः । तान्येवायनं यस्य तेन नारायणः स्मृतः ॥ इति व्युत्पत्तिः दर्शिता । मनुस्मृतौ तावत् - आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ इति दर्शितम् । सायणः नारायणोपनिषदि इत्थम् अर्थं ब्रूत्ते नारायणशब्दस्य - पञ्चभूतेषु जगत्कारणेसु अवस्थित इत्यर्थः । यद्वा प्रकृतेः पतिः नरः । तस्माज्जातानि यानि नारशब्देन उच्यन्ते । तान्येतान्येव अयनं स्थानं यस्य स नारायणः । स एव इन्द्र​-मित्रादिरूपेण अवस्थितत्वाद् देव इति उच्यते इति ॥  अत्र "नारायणः" इति संज्ञात्वात् नकारस्य णकारः ॥

ENGLISH
(TRANSLATION BY THE GREAT sCHOLAR & LINGUIST BRAHMASRI GANESHAN @vezhamukhan)

Hey Krishna, Kamsa’s foe, Slayer of Mura, the fierce demon Which holy name of Yours was uttered for crossing worldly ocean
By none other than the NilakanTa Siva as ‘Namo Narayana’ Knowing this your devotees chant ceaseless ‘Narayana'
With boundless devotion, Lord of Lakshmi and this holy city Guruvayur, now is the dawn!


*******

No comments: