Thursday, September 29, 2016

जवनिका


Poet Magha in his Kavya Shishupalavadha uses this word जवनिका as “सतां जवनिका निकामसुखिनाम्” (4.54) as quoted in SKD. Period of Magha is 7th Century. Also VP quotes Harivamshapurana where this usage is found as “रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः”. The period of Harivamshapurana which is treated as a supplementary to MBH is 2nd century. And another usage of this word is found in Chatushloki (a treatise of Vishishtadvaita) as “ कान्तस्ते पुरुषोत्तम: पणिपति: शय्यासनम् वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी” authored by Alavandar whose period is 10th century. In Shivamahapurana it is found as “द्वारयागं जवनिकांपरिवारबलिक्रियाम्”. Date of Shivapurana is 11th century.. Also in Skandapurana (17th century) as “ कृत्वा जवनिकां वृक्षं बाणमेकं मुमोच ह”. Bharatamuni uses this word in Natyashastra as “एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः” (NS.5-11). His date is 3rd century BC. जवनं वेगेन प्रतोरोधनम् अस्ति अस्याः इति जवन​+ठन्+टाप्=जवनिका इति SKD. जु करणे ल्युट्+कन्+टाप्=जवनिका इति VP.This is also called as जवनी. So it seems that it is in vogue since a long time and “javanikA” means one that speedily becomes an obstruction.

******

Sunday, September 11, 2016

पाकयज्ञाः पञ्च​

औपासनयज्ञः

उपास्यते इति उपासनः=गृह्यः अग्निः, तत्र भवः औपासनः। एषः प्रतिदिनं प्रातः सायं च करणीयः गृहस्थकर्तव्यहोमविशेषः। एषः होमः नित्यः नूनं कर्तव्यः एव​। उक्तं च गर्गेण -
यथा स्नानं यथा सन्ध्या वेदस्याध्ययनं यथा । 
तयैवौपासनं कार्य्यं न स्थितिस्तद्वियोगतः । 
यो हि हित्वा विवाहाग्निं गृहस्थ इति मन्यते । 
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ।
वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत् । 
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति॥ इति।
एतेन एतस्य होमस्य महत्त्वं प्रतीयते। एतेन विना गृही प्रायश्चित्ती एव भवति। पुनश्च अग्निहोत्रस्य प्रशंसाऽपि दृश्यते । तद्यथा हारीतस्मृतौ -
नाग्निहोत्रात्परो धर्मो नाग्निहोशात्परं तपः ।
नाग्निहोत्रात् परं श्रेयो नाग्निहोत्रात् परं यशः ॥
नाग्निहोत्रात्परासिद्धिर्नाग्निहोत्रात्परा गतिः ।
नाग्निहोत्रात्परं स्थानं नाग्निहोत्रात् परं व्रतम् ॥

वैश्वदेवम्

वैश्वदेवे विश्वे देवाः (आ.गृ.सू.७-२९) इति आपस्तम्बसूत्रम्। वैश्वदेवमिति कर्मनामधेयम्। अत्र विश्वे देवाः देवता। अत्र "विश्वेभ्यो देवेभ्यः" इति सङ्कल्प्य गृहस्थेन स्वगृहे क्रियमाणः पाकयज्ञः अयम्। तं च होमं कर्त्ता पूर्व्वाभिमुखः शुचिरुपवीती कुशहस्तः कुशासनोपविष्टः कर्त्ता घृताक्तं दुग्धाक्तं तैलाक्तं जलाक्तम् अन्नम् आमान्नं वा फलं जलं वा जुहुयात् । वैश्वदेवान्नशेषमेव भुञ्जीत गृहस्थः।

पार्वणम्

इदं प्रतिपर्व अनुष्ठीयमानं पितृसम्बन्धि कर्म​। "अपरपक्षे पैत्र्याणि" (आ.गृ.सू.१.७) इत्युक्तत्वात् इदं कर्म परपक्षे क्रियमाणं भवति । सामान्यतया पञ्च पर्वाणि। तनि च 
चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । 
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ इति विष्णुपुराणम्।
अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम् । 
क्रियते वा पर्वणि यत् तत्पार्वणमिति स्मृतिः॥ इति च पुराणवचनम्। अत एव "पार्वणहोमविधानेन करिष्ये" इति वार्षिकश्राद्धेषु सङ्कल्पः क्रियते। इदमपि गृहस्थेन अनुष्ठेयं कर्म​।

अष्टका

एषः अपि पाकयज्ञविशेषः। इदमपि कर्म पितृसम्बन्धि एव​। मासिश्राद्धाख्यस्य प्रकृतेः विकृतिभूतम् इदं कर्म​। एअतस्य कर्मणः अनुष्ठानकालः भवति - "या माघ्याः पौर्णमास्या उपरिष्टाद्या ह्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते" (आ.गृ.सू.२१.१०) । प्रतिसंवत्सरं क्रियमाणः पितृयज्ञः। अर्थात् माघमासे कृष्णपक्षे ज्येष्ठानक्षत्रयुता अष्टमी, तस्यां कार्यम् इदं कर्म​। अयुक्तायामपि ज्येष्ठायाम् अष्टम्यां कार्यमिदं कर्म​।

मासिश्राद्धम्

इदं पित्र्यं कर्म मासि मासि क्रियमाणम्। इदं पार्वणहोमविधिना एव क्रियते । तस्य कालः "मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः" (आ.गृ.सू.२१.१)। अर्थात् सर्वेषु कृष्णपक्षस्य अहस्सु क्रियमाणं पैतृकं श्राद्धरूपं कर्म इदम्। अस्मिन् कर्मणि मुख्यं कार्यं ब्राह्मणभोजनम्। ते च ब्राह्मणाः कथं भवेयुः इति उच्यते "शुचीन्मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्मांस्त्र्यवराननर्थावेक्षो भोजयेत्" (आ..गृ.सू.२१.२)। अर्थात् शुद्धाः, वेदाध्ययनेन सम्पन्नाः, योन्या गोत्रेण च असम्बन्धाः, याज्ययाजकाध्येत्रध्यापयितारः, विषमसङ्ख्याकाः, न्यूनातिन्यूनं त्रयः, दृष्टप्रयोजनं न प्रतीक्षमाणाः ब्राह्मणाः भोजनीयाः। अत्र अन्नहोमः, आज्यहोमः, अन्नाभिमर्शनम् इत्यादि कार्यं एतदङ्गतया क्रियते।

सर्पबलिः

सर्पबलिः नाम इदं कर्म सर्पेभ्यः बलिदानरूपम्। एतस्य कालः विधिः च बोधायनेन उक्तौ। तद्यथा - 
१. वलिहरणानुकृतिरेव सर्पबलिः २. संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा वर्षास्वाश्रेषाषु क्रियेत ३. अपां समीपे वल्मीक्राग्रेण वा पचनम् ४. गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य चित्रास्सुमनसस्सम्प्रकीर्य यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वा ऽऽज्येनेक्षुरसेन वा पक्त्वा पायसं घृतपक्वांश्च अपूपानोदनं धानास्सक्तून्करम्भान्लाजानित्युपकिरन्ति नमो अस्तु सर्पेभ्यः इति तिसृभिरनुच्छन्दसम् ५. सर्पेभ्यस्स्वाहा ऽऽश्रेषाभ्यस्स्वाहा दन्दशूकेभ्यस्स्वाहा इति त्रयस्स्वाहाकाराः ६. जीर्वरो ग्रहपतिरध्वर्युर्धृताराष्ट्र ह्ह्रावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो मैत्रावरुणः तक्षको शालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ नेष्टापोतारौ वारुणो होता ऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो महेयस्सुब्रह्मण्यो ऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्चे त्येतैरेव नामधेयैः समीची नामासि प्राची दिकिति षड्भिः पर्या यैः हेतयो नाम स्थ तेषां वः पुरो गृहाः इति षड्भिः इदं सर्पेभ्यो हविरस्तु जुष्टमिति चोपस्थानम् ७. त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्य आशिषो वाचयित्वा ८. व्याख्यातस्सर्पबलिर्व्याख्यातस्सर्पबलिः ।
अस्मिन् कर्मणि विविधपिष्टादिकं सर्पेभ्यः दीयते॥

ईशानबलिः

"ईश ऐश्वर्ये इति धातोः निरतिशयमैश्वर्य यस्य सः ईशानः = प्रणवोपासनादिभिरुपास्यः ईश्वरः इत्यर्थः । तस्मै ईशानाय स्थालीपाकं होमादिभ्यः पर्याप्तं पार्वणवदौपासने श्रपयित्वा प्रतिष्ठिताभिघारणान्तं करोति" इति आपस्तम्बसूत्रव्याख्याने सुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने। तथा च ईशानाय दीयमानः बलिः इति सिद्धम्। इदं कर्म ग्रामात् बहिः प्राच्याम् उदीच्यां वा स्थण्डिलादिकल्पनपूर्वकं क्रियमाणं भवति॥

इत्थं इमे च पञ्च पाकयज्ञाः नित्याः गृहस्थैः करणीयाः॥

********

नवयज्ञः

नवयज्ञो वर्तते अस्मिन् काले इति नावयज्ञिकः। आग्रयणम् इति यागविशेषः एषः। गोभिलेन उक्तम् - "शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते" इति। अत्र नवशब्दः न सङ्ख्यापरः परन्तु नूतनवाची। अस्मिन् यज्ञे नूतनेन धान्येन होमः विहितः। अतः अस्य यागस्य नवयज्ञः इति नाम​। एतस्य "नवशस्येष्टिः" इत्यपि नाम​। आग्रयणमिति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति । तथा च आपस्तम्बः आह - "न अनिष्ट्वा आग्रयणेन आहिताग्निर्नवस्य अश्नीयाद्" (आ.श्रौ.सू.६२९२) इति। नवधान्यैः इष्टिम् अविधाय आहिताग्निः नवधान्यस्य भक्षणं न कुर्याद् इत्यर्थः । अग्रे अयनम्=भोजनं येन कर्मणा तत् कर्म​=आग्रयणम्। "ग्र​" इति ह्रस्वस्तु च्छान्दसः पृषोदरादित्वाद् वा समाधेयम्॥

****** 

Saturday, September 10, 2016

लुम्पेदवश्यमः

अपरस्परः क्रियासातत्ये (६-१-१४४) इति सूत्रे "समो हितततयोर्वा लोपः", "सम्तुमुनोः कामे", "अवश्यमः कृत्ये" इति वार्तिकानां व्याख्यावसरे भाष्ये इदम् ऊरीकृतमेव । किञ्च पृषोदरादीनि यथोपदिष्टम् (६-३-१०९) इत्यत्र भट्टोजीदीक्षितः प्रौढमनोरमायाम् "अपरस्पराः क्रियासातत्ये इति सूत्रे सातत्यनिर्देशेनैव एकदेशानुमतिद्वारा पूर्वाचार्यपठितोऽयं श्लोकः ज्ञापित इत्याहुः।" इति । अत्रैव "लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि। समो वा हितततयोर्मांसस्य पचियुड्घञोः" इति काशिकोपात्तस्य श्लोकस्य व्याख्यानावसरे पदमञ्जरीकारेण उक्तम् "अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति लुम्पेत् इत्यादि" इति। यथावद् वार्त्तिकस्य अनुवादरूपः एषः पूर्वाचार्यप्रणीतः श्लोकः ।  तथा च वार्त्तिक​-भाष्यसम्मत एव एषः नियमः इति सिद्धम्॥

*******

UPPER AND LOWER WORLDS

भूः भुवः सुवः महः जनः तपः सत्यम् are the seven worlds mentioned as ‘upper worlds’.अतलः वितलः सुतलः तलातलः महातलः रसातलः पातालः are the seven ‘Lower worlds’.

Seven upper worlds are divided into three categories. 1) Artificial (made), 2) intermediary and 3) Natural. Lower triad भूः भुवः and सुवः come under artificial or world that are created. महः is the intermediary world between the two triad i.e. (भूः भुवः सुवः) and (जनः तपः सत्यम्). Upper triad जनः तपः and सत्यम् is explained as natural or not created.

भूः is said as -
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम्  ।
स भूर्लोकः समाख्यातो विस्तरोस्य मयोदितः ॥ (V.P.2-7-16)
Whatever could be walked and in the form of Earth is known as भूलोकः।
पञ्चाशत्कोटिविस्तारा सेयमुर्वी महामुने । (V.P.2-4-96)
विस्तार एष कथितः पृथिव्या भवतो मया । 
सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते ॥ (V.P.2-5-1)
This Earth spreads in 50,00,00,000 Yojanas and her height is 70,000 Yojanas 9one Yojana is approximately 7.2 Kilometers).


भुवर्लोकः is explained as
भूमिसूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोप्युक्तो द्वितीयो मुनिसत्तम ॥ (V.P.2-7-17)
The space between the Earth and the Sun where Siddhas and Munis (semi-divine and sages) live is called as the second world i.e. भुवर्लोकः।

स्वर्लोकः is said as
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश ।
स्वर्लोकः सोपि गदितो लोकसंस्थानचिन्तकैः ॥ (V.P.2-7-18)
The space between the star Dhruva and the Sun is the third world called as स्वर्लोकः by the thinkers of structure of the worlds. This world is spread in 1,40,000 Yojanas (one Yojana is approximately equal to 7.2 kilometers).

These three worlds भूः भुवः and सुवः could be obtained by performing ‘yaga’ etc. It is said –
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ (V.P.2-7-11)
These three worlds are obtained by ‘yagas’ etc.

महर्लोकः is explained as –
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः ।
शून्यो भवति कल्पान्ते योत्यन्तं न विनश्यति ॥ (V.P.2-7-20)
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनः ।
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥ (V.P.2-7-12)
This is an intermediary world between the two triads upper and lower triads i.e. (भूः भुवः सुवः) and (जनः तपः सत्यम्). This intermediary world becomes empty during each ‘kalpa’, however, not completely destroyed. This world exists between the star ‘dhruva’ after the end of ‘svarloka’ and this world spread in 1,00,00,000 Yojnas (one Yojana is approximately 7.2 kilometers).

जनलोकः is explained as –
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥ (V.P.2-7-13)
‘Janaloka’ begins at the end of ‘maharloka’ and spreads in 2,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where children of Brahma – Sanandana etc., live who are known for their pure-hearted.

तपोलोकः is explained as –
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः ।
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥ (V.P.2-7-14)
This ‘tapoloka’ exists after ‘janaloka’ approximately in the distance of 8,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where the gods known as ‘vairAjas’ live without thirst.

सत्यलोक is said as –
षड्गुणेन तपोलोकात्सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः ॥ (V.P.2-7-15)
This world known as ‘satya’ exists after ‘tapoloka’ in a distance of 48,00,00,000 Yojanas (one Yojana is approximately 7.2 kilometers) where live the non-birth gods and this world is also known as ‘brahmaloka’.

This is the description available about various lokas. Lower worlds are also seven in number. They are अतलः वितलः सुतलः तलातलः महातलः रसातलः and पातालः । They each spreads in 10,000 Yojanas
दशसाहस्रमेकैकं पातालं मुनिसत्तम ।
अतलं वितलं चैव नितलं च गभस्तिमत् ॥
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ (V.P.2-5-2)

Here, it is said that in all the worlds some kind of beings (divine or non-divine) exist, however, one should not conclude that humans exist. The nature of those beings, their food habits, sustaining capability with with what kind of air or other things are to be explored.  

Thus, the description of this world and other worlds are available in various Puranas. Here, I have quoted from Vishnu Purana only. The scientific aspects of this description are to be unearthed. Such accurate description cannot be a mere imagination, it must have scientific base. It is up to us to research and to bring to light.
*******

  






Saturday, September 3, 2016

लटः शतृशनचावप्रथमासमानाधिकरणे


लटः शतृशनचावप्रथमासमानाधिकरणे (३।२।१२४) इति सूत्रम्। लटः शतृ शानच् इत्यादेशौ भवतः, अप्रथमान्तेन (द्वितीयादिभिः विभक्तिभिः) सामानाधिकरण्यं चेत्, प्रथमया सामानाधिकरण्यं चेत् न भवतः इति सूत्रार्थः। तथा च गच्छन्तं देवदत्तं, गच्छता देवदत्तेन​, गच्छते देवदत्ताय​, गच्छतः देवदत्तात्, गच्छतः देवदत्तस्य, गच्छति देवदत्ते इत्यादीनि उदाहरणानि। अत्र विचारः "गच्छन् देवदत्तः", "सेवमानः देवदत्तः" इति "देवदत्तः" इति प्रथमया समानाधिकरणे कथं शतृ शानच् इति आदेशौ इति॥

अत्र काशिकारः - "क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः। विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे। मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणम् अनुवर्तयन्ति नन्वोर् विभाषा ३।२।१२१ इति। सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः" इति। तथाच "पठन् देवदत्तः", "पचमानः देवदत्तः" इत्यादिः प्रयोगः सिद्ध्यति॥

अत्र एतस्य काशिकाकारवचनस्य किं मूलम्? इति प्रश्नः उदियात्। तस्य समाधानम् इत्थम् - "न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यं । वक्तव्यं च । किं प्रयोजनम् । नित्यार्थम्। अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् । क्व तर्हि इदानीं विभाषा । प्रथमासमानाधिकरणे । पचन् पचति, पचमानः पचते इति" इ ति भाष्यम् अत्र प्रमाणम्॥

तथा च प्रथमासमानाधिकरणे शतृ शानच् इत्यादेशौ विकल्पेन भवतः। द्वितीयादिविभक्तिभिः समानाधिकरणे नित्यं भवतः । यथा - देवदत्तः पचति, अत्र विकल्पेन शतृ शानच् च भवतः, तेन "देवदत्तः पचति" अथवा "देवदत्तः पचन्" ("देवदत्तः पचमानः") इति। एवं च "देवदत्तेन पता" "देवदत्तेन पचमानेन​" इत्येव न तु "देवदत्तेन पचति" "देवदत्तेन पचते" वा॥

एवं च प्रथमासमानाधिकरणे विकल्पः, अप्रथमासमानाधिकरणे नित्यम् इति सिद्धम्॥

_______

IMPORTANCE OF SANDHYOPASANA


A Brahmin has to perform at least Sandhya every day. One who does not perform Sandhya is not eligible for performing any vaidika/smarta karma. It is said - अनर्हः कर्म्मणां विप्रः सन्ध्याहीनो यतः स्मृतः (छन्दोगपरिशिष्टम् )। Those who have no respect towards three-times-sandhya every day is not a Brahmin at all. Thus says smriti -
एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्।
यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते ॥ (शातातपः)

A Brahmin who performs sandhya will never be detached from Brahmanya. See what Yajnjyavalkya said -
सर्व्वावस्थोऽपि यो विप्रः सन्ध्योपासनतत्परः ।
ब्राह्मण्याच्च न हीयेत अन्त्यजन्मगतोऽपि सन् ॥ (याज्ञ्यवल्क्यः)।

Why this “upasana” is called “sandhya”? This is the conjecture of three Vedas, gods like brahma etc., and all the gods. Observe this saying also
त्रयाणाञ्चैव वेदानां ब्रह्मादीनां समागमः ।
सन्धिः सर्व्वसुराणाञ्च तेन सन्ध्या प्रकीर्त्तिता ॥ (याज्ञ्यवल्क्यः)।
So who is not performing sandhya is treated as impure and prohibited from performing any karma (vaidika/smarta).
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु । (ब्रह्मवैवर्तपुराणम्)।

This is the reason that “gayatri” is kept at the utmost top place by our ancestors. See this –
अष्टादशसु विद्यासु मीमांसाऽतिगरीयसी ।
ततोऽपि तर्कशास्त्राणि पुराणं तेभ्य एव च ॥
ततोऽपि धर्म्मशास्त्राणि तेभ्यो गुर्व्वी श्रुतिर्नृप ।
ततो ह्युपनिषत् श्रेष्ठा गायत्त्री च ततोऽधिका ॥ (पद्मपुराणम्)
Mimamsa, Taraka, Puranas, Dharmashastra, shruti and at the top is ‘gayatri’.
Further, whoever performs sandhya gets all his desires fulfilled. He is not even touched by sins as long as he performs sandhya. Just by observing sandhya one can attain liberation. Thus says Purana -
स लिम्पति न पापेन पद्मपत्रमिवाम्भसा ।
कामकामी लभेत् कामान् गतिकामश्च सद्गतिम् ॥
अकामः समवाप्नोति तद्विष्णोः परमं पदम् ॥ (वह्निपुराणम्)।

Gayatri is given the top place among all mantras. Gayatri protects all the nature says Chandogyopanishad -
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च । या वै सा गायत्रीयं वाव सा येयं पृथिवी अस्पां हीदं सर्वं भूतं प्रतिष्ठितम् एतामेव नातिशीयते । या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् अस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । यद्वैतत् पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते । सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम् । तावानस्य महिमा ततोज्यायांश्च पुरुषः । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवीति । (छान्दोग्योपनिषद्)।

This aspect has been elaborately explained by Yajnjyavalkya. Each letter in Gayatri has a “devata” (god). See the following quote from Yajnjyavalkya. In brackets I have given the letters after “devata” of that particular letter.
अक्षरणान्तु दैवत्यं सम्प्रवक्ष्याम्यतः परम् ।
1. आग्नेयं (तत्) प्रथमं ज्ञेयं
2. वायव्यञ्च (स) द्वितीयकम् ।
3. तृतीयं (वि) सूर्य्यदैवत्यं
4. चतुर्थं (तुः) वैद्युतं तथा ।
5. पञ्चमं (व) यमदैवत्यं
6. वारुणं (रे) षष्ठमुच्यते ।
7. बार्हस्पत्यं सप्तमन्तु (ण्)
8. पार्ज्जन्यम् अष्टमं (यम्) विदुः ।
9. ऐन्द्रं तु नवमं (भ) ज्ञेयं
10. गान्धर्वं दशमं (र्गः) तथा ।
11. पौष्णमेकादशं (दे) प्रोक्तं
12. मैत्रावरुणं द्वादशम् (ब) ।
13. त्वाष्ट्रं त्रयोदशं (स्य) ज्ञेयं
14. वासवन्तु चतुर्द्दशम् (धी) ।
15. मारुतं पञ्चदशकं (म)
16. सौम्यं षोडशकं (हि) स्मृतम् ।
17. सप्तदशं (धि) त्वाङ्गिरसं
18, वैश्वदेवमतः परम् । (यः) ।
19. आश्विनञ्चैकोनविंशं (यः)
20. प्रजापत्यन्तु विंशकम् (नः) ।
21. सर्वदेषमयं प्रोक्तमेकविंशम्(प्र) अतः परम् ।
22. रौद्रं द्वाविंशकं (च) प्रोक्तम्
23. त्रयोविंशन्तु (द) ब्राह्मकम् ।
24. वैष्णवन्तु (यात्) चतुर्विंशम्
एता ह्यक्षरदेवताः । जप्यकाले तु संस्मृत्य तासां सायुज्यतां व्रजेत् ॥ (याज्ञ्यवल्क्यः) ।

I think, one can perform at least ten ‘gayatri’ three times daily. This would not consume much of our time. Hardly it would take 3 minutes each time. Are we not able to spend ‘nine minutes’ every day? Even if one is not in a position to perform ‘madhyahnasandhya’, he can perform the same along with ‘morning sandhya’. If we say that ‘we don’t have time’, it is only escapism and not real, I think.

Do not connect this with religion; this is our ‘dharma’ to be followed. If we are not able to perform, it only just shows out insincerity and devotionlessness towards our ‘dharma’.

Spare at least few minutes to perform ‘gayatri’ every day.

******