Sunday, September 11, 2016

नवयज्ञः

नवयज्ञो वर्तते अस्मिन् काले इति नावयज्ञिकः। आग्रयणम् इति यागविशेषः एषः। गोभिलेन उक्तम् - "शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते" इति। अत्र नवशब्दः न सङ्ख्यापरः परन्तु नूतनवाची। अस्मिन् यज्ञे नूतनेन धान्येन होमः विहितः। अतः अस्य यागस्य नवयज्ञः इति नाम​। एतस्य "नवशस्येष्टिः" इत्यपि नाम​। आग्रयणमिति कर्मनामधेयम्, येन कर्मणा अग्रे नवद्रव्यं देवान् प्रापयतीति । तथा च आपस्तम्बः आह - "न अनिष्ट्वा आग्रयणेन आहिताग्निर्नवस्य अश्नीयाद्" (आ.श्रौ.सू.६२९२) इति। नवधान्यैः इष्टिम् अविधाय आहिताग्निः नवधान्यस्य भक्षणं न कुर्याद् इत्यर्थः । अग्रे अयनम्=भोजनं येन कर्मणा तत् कर्म​=आग्रयणम्। "ग्र​" इति ह्रस्वस्तु च्छान्दसः पृषोदरादित्वाद् वा समाधेयम्॥

****** 

No comments: