Saturday, February 28, 2015

दशरथ का मन्त्रिमण्डल

दशरथ का मन्त्रिमण्डल

धृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥
(श्रीमद्वाल्मीकिरामायणे बालकाण्डे सप्तमसर्गे तृतीयश्लोकः)

दशरथस्य अमात्यमण्डले अष्टौ अमात्याः आसन् । तेषां नामानि यथा - १) धृष्टिः, २) जयन्तः, ३) विजयः, ४) सुराष्ट्रः, ५) राष्ट्रवर्धनः, ६) अकोपः, ७) धर्मपालः, अष्टमः अर्थवित् ८) सुमन्त्रः ॥

दशरथ के अम्मत्य मण्डल में आठ अमात्य थे । जिनका नाम इस प्रकार है - १)धृष्टि, २) जयन्त, ३) विजय, ४) सुराष्ट्र, ५) राष्ट्रवर्धन, ६) अकोप, ७) धर्मपाल, और आठवां अर्थ शास्त्र में निपुण ८) सुमन्त्र ॥

विशेष -
१) "मन्त्रिणः सप्त वा अष्टौ वा प्रकुर्वीत परीक्षितान्" इति मनु के कथन के अनुसार आठ अमात्य थे ।
२) इस में आठ नाम पर कुछ विवाद है । कुछ ग्रन्थों में और टीकाकारों ने भी इस प्रकार नाम गिनाये - १) धृष्टि, २) जयन्त​, ३) विजय​, ४) सिद्धार्थ, ५) अर्थसाधक​, ६) अशोक​, ७) मन्त्रपाल​, और आठवां ८) सुमन्त्र ।


*******

Friday, February 27, 2015

रामस्य सत्कृत्य इत्यत्र कथं षष्ठी?

रामस्य सत्कृत्य इत्यत्र कथं षष्ठी?


ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ॥
(आरण्यकाण्डे प्रथमसर्गे षोडशः श्लोकः)

ततः = पश्चात्, पावकोपमाः = अग्नितुल्याः, धर्मचारिणः = धर्माचरणे रताः, ते = तादृशः, महाभागाः = महनीयाः, रामस्य = रामं, विधिना = शास्त्रोक्तविधिना, सत्कृत्य = सत्कारं विधाय​, सलिलं = (अर्घ्यादिभिः स्वागतार्थं) पुण्यतीर्थम्, आजह्रुः = आनीतवन्तः ॥ तात्पर्यम् - श्रीरामस्य दर्शनात् परम्, अग्नितुल्याः धर्माचरणे प्रवृत्ताः ते महाभागाः ऋषयः, श्रीरामं शास्त्रोक्तविधिना सत्कृत्य अर्घ्यादिभिः स्वागताय पुण्यतीर्थम् आनीतवन्तः ॥

विशेषः - अत्र इदं विचार्यते "रामस्य सत्कृत्य​" इति प्रयोगः कथं युज्यते इति । यतः अत्र द्वितीयया "रामं सत्कृत्य​" इति भवितव्यम् । कारणं च - न लोकाव्ययनिष्ठाखलर्थतृनाम्" (२-३-६९) इति सूत्रेण "सत्कृत्य​" इति अव्यये परे षष्ठी न भवति, द्वितीया एव स्याद् इति । एवं सति कथम् अत्र षष्ठी इति प्रश्नः । एतस्य समाधानम् अधोनिर्दिष्टरीत्या व्याख्यातृभिः दर्शितम् । 

१) सरलं समाधानं भवति - एषः ऋषिप्रयोगः, तस्मात् न दोषाय ।
२) किञ्च अत्र कस्यचित् पदस्य अध्याहारेण समाधानं भवति - यथा रामस्य पादौ ( दर्शितरीत्या) सत्कृत्य इति ।
३) भूषणटीकाकारः " रामस्य सत्कृत्य इति षष्ठी आर्षी, ‘न लोकाव्यय​..इत्यादिना निषेधात्" इति व्याख्याति । रामायणटीकायां "रामस्य विधिना सत्कृत्य​" इत्येव व्याख्यातम् । इयं चर्चा एव न कृता अथवा पदान्तरस्य अध्याहारः व्याख्यात्रा इष्यते  इति वक्तुम् अपि निदानम् अस्ति ।
४) अत्र तिलकटीकाकारः " रामस्य सत्कृत्य इति कर्मणः शेषत्वविवक्षायां षष्ठी" इति किञ्चित् समाधानं दर्शयति । 

किमस्य व्याख्यानस्य तात्पर्यम् इति विचारयामः । षष्ठी शेषे (२-३-५०) इति सूत्रम् । अस्य अयम् अर्थः - कारकप्रातिपदिकादिव्यतिरिक्तः स्वस्वामिभावसम्बन्धः तत्र षष्ठी स्यात् । अत्र दीक्षितः लिखति - कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव इति । तत्र तत्त्वबोधिनीकारः एवम् आह - यथा विशेष​-अविवक्षायां "रूपवान्" इति प्रयुज्यते, विशेषविवक्षायां "नीलः", "पीतः" इति प्रयुज्यते तद्वत् इति । तथा च कर्मणः शेषत्वविवक्षया षष्ठी । अत एव "सर्पिषो जानीते" इत्यत्र षष्ठी तावत् "करणस्य सम्बन्धमात्रविवक्षायाम्" इति तत्त्वबोधिन्याम् । अन्यद् इदमपि सूत्रम् - "न लोकाव्ययनिष्ठाखलर्थतृनाम्" (२-३-६९) । अस्य अयमर्थः - सूत्रे परिगणितानाम् एतेषां योगे षष्ठी न स्यात् । अर्थाद् एतावत्पर्यन्तं षष्ठीविधायकानि सूत्राणि, इदं सूत्रं षष्ठीप्रतिषेधकं सूत्रम् । अत्र प्रकरणे दीक्षितः लिखति - "सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः , शेषे षष्ठी तु भवत्येव" इति । अत्र तत्त्वबोधिन्यां "शेषे षष्ठीति" प्रतीकमादाय "शाब्दबोधे वैलक्षण्यमस्ति इति भावः" इति आह । अर्थात् कारकषष्ठ्याः शाब्दबोधः भिन्नः, सम्बन्धमात्रविवक्षया प्रयुज्यमानायाः षष्ठ्याः शाब्दबोधः भिन्नः इति । लोकेऽपि एष एव अनुभवः । तथा हि "न लोकाव्ययनिष्ठाखलर्थतृनाम्" इति प्रतिषेधः कारकषष्ठ्याः एव प्रतिषेधः, न तु सम्बन्धषष्ठ्याः इति फलितम् । अर्थात् "रामस्य सत्कृत्य​" इत्यस्य बोधः सामान्यतया एवं भवति "रामसम्बन्धिसत्कारं विधाय​" इति, न तु "रामकर्मकसत्कारः" इति । प्रायः एतत्सर्वं मनसि निधाय एव तिलककारः तथा व्याख्यातवान् । कर्मणः कर्मत्वविवक्षायां यदा षष्ठी तदा अयं निषेधः प्रवर्तते, कर्मणः शेषत्वविवक्षायां यदा षष्ठी तदा षष्ठ्याः न निषेधः ॥  एवं च "रामस्य सत्कृत्य इति कर्मणः शेषत्वविवक्षायां षष्ठी" इति समाधानं तिलकटीकाकारस्य युक्तम् इति प्रतिभाति ।। 

हिन्दी - श्रीराम जी के दर्शन के बाद्, अग्नि के समान​, धर्म का आचरण करने वाले वे सभी ऋषियों ने शास्त्रों में दर्शित विधि के अनुसार श्रीराम जी का सत्कार करने के बाद​, उनहें अर्घ्यादि से स्वागत करने के लिए पुण्य तीर्थ लाया ॥ इस श्लोक में "रामस्य सत्कृत्य​" ऐसा प्रयोग है । जहां पर षष्ठी के बाद अव्यय होगा वहां षष्ठी नहीं होगी । यहां पर "रामस्य​" के बाद् "सत्कृत्य​" इति अव्यय का प्रयोग है, इसीलिए यहां "रामस्य​" इति षष्ठी गलत है - यही सामान्यतः देखने पर प्रतीत होता है । अब इस प्रयोग का क्या समाधान इस पर चर्चा करेंगें । 

१) यहां पर एक सरल और विना आयास का एक समाधान हो सकता है कि यह ऋषिप्रयोग है, अतः आर्षप्रयोग होने के कारण दुष्ट नहीं माना जाएगा । 
२) कुछ् अपेक्षित पद का अध्याहार करके भी इस का समाधान हो सकता है - जैसे  ने दर्शाया वैसे "रामस्य पादौ सत्कृत्य​", अर्थात राम जी के चरणों को सत्कार करके । 
३) भूषणटीकाकारः यहां पर षष्ठी आर्षी कहकर निषेध सूत्र "न लोकाव्यय​.." को भी उल्लेख किया है । 
४) तिलकटीकाकार ने - "यहां पर "रामस्य सत्कृत्य​" इति कर्मकारक को शेषत्वविवक्षा से षष्ठी" ऐसा कहते हैं । 

इस का तात्पर्य यह है कि "न लोकाव्यय​" इति सूत्र से जो षष्ठी का निषेध वह केवल कारक षष्ठी तक सीमित​, इसीलिए यहां कर्मा के सम्बन्धमात्रविवक्षा से "रामस्य सत्कृत्य​​" इति "सत्कृत्य​" इति अव्यय परे होने पर भी षष्ठी है । अन् य शास्त्रकारों के व्याख्यान से भी यह स्पष्ट होता है कि कर्म के सम्बन्ध मात्र विवक्षा में षष्ठी हो सकती है, अगर कारकविवक्षा होगी तब तु द्वितीया ही होनी चाहिए । यह समाधान तिलककार का युक्त ही प्रतीत होता है ॥
**********




Wednesday, February 25, 2015

अकृतदार​-शब्दविचारः

अकृतदार​-शब्दविचारः


कृतदारोऽस्मि भवति भार्येयं दयिता मम । 
त्वद्विधानां तु नारीणां सुदुःखा सुसपत्नता ॥
 
अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः । 
श्रीमान् अकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥
 
अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः । 
अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥
 
(आरण्यकाण्डे १८-२,,&४)
 
एषः श्रीराम​-शूर्पणखासंवादप्रसङ्गः । शूर्पणखा श्रीरामं प्रार्थयते - मां परिगृह्णीष्व इति । तदा श्रीरामः परिहासेन तां वदति - कृतदारः = परिणीतः, अस्मि = वर्ते, इयं दयिता = इयं प्रिया, मम = मे, भार्या = पत्नी । त्वद्विधानां = तव सदृशीनां, नारीणां = स्त्रीणां, ससप्त्नता = पत्न्या सह वर्तमानता, सुदुःखा = खेदखरी ॥ एषः = असौ, मम = मे, अनुजः = अवरजातः, भ्राता = सहोदरः, शीलवान् = गुणसम्पन्नः, प्रियदर्शनः = सुन्दरः, श्रीमान् = श्रिया युक्तः, अकृतदारः = अविवाहितः, वीर्यवान् = पराक्रमवान्, लक्ष्मणः नाम = लक्ष्मण इति प्रसिद्धः ॥ अपूर्वी = पूर्वभार्याभाववान्, भार्यया = दाराभिः, च = अपि, अर्थी = प्रयोजनवान्, अस्य = भवत्याः, रूपस्य = सौन्दर्यस्य​, अनुरूपः = योग्यः, ते = तव​, भर्ता = पतिः, भविष्यति = भवितुमर्हति ॥
 
१) कृतदारः - कृताः दाराः येन सः = कृतदारः, बहुव्रीहिसमासः, विवाहितः इत्यर्थः ॥
२) ससपत्नता - सपत्न्या सहिता = ससपत्नी, तस्याः भावः = ससपत्नता । "ससपत्न"​+ता इति पुंवद्भावः "त्वतलोर्गुणवचनस्य​" इति, गुणत्वं च अस्य शुक्लता इत्यादिवत् । अर्थात् सपत्नीसाहित्यरूपगुणवचनत्वात् इति गोविन्दराजः ॥
३) कृताः दाराः यस्य सः = अकृतदारः, न कृतदारः = अकृतदारः ।
अत्र "अकृतदारः" इति लक्ष्मणं निर्दिशति श्रीरामः । तेन श्रीरामे मिथ्याभाषणारोपः भवितुमर्हति । "न रामो मिथ्यां ब्रूते", " न वितथा परिहासकथास्वपि" इत्यादिवचनविरोधात् च । एतदर्थं व्याख्यातृभिः इत्थं प्रयत्यते -
१) अकृतः परदारापरिग्रहः येन सः = अकृतदारः इति, असन्निहिताः दाराः यस्य सः = अकृतदारः इति, परिहासादौ मिथ्याभाषणे न दोषः इति समाधानत्रयं दर्शयति तिलकटीकायाम् ।
२) न कृताः वने स्वीकृताः दाराः येन सः = अकृतदारः इति व्याख्याति रामायणशिरोमणिकारः ।
३) अकृतदारः = असहकृतदारः, "न वितथा परिहासकथास्वपि", अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन​" इत्यादिवचनबाधात् तथा व्याख्याति भूषणकारः ॥
 
तथा च "अकृतदारः" इत्यस्य विग्रहः अपरः एव चिन्तनीयः ॥
 
हिन्दी - "अकृतदार" शब्द से यह अर्थ प्रतित होता है कि "अविवाहित​" । ऐसे अर्थ करने पर "राम परिहास के लिए भी झूठ नहीं बोलता है", और " मैं कभी झूठ नहीं बोला और बोलूंगा भी नहीं" आदि वचनों से विरोध होने के कारण व्याख्याताओं ने इस शब्द का विग्रह (पद का अर्थ बोधक वाक्य) अन्यथा दर्शाते हैं । जैसे - १) न किया हुआ परदारापरिग्रह जिस के द्वारा वह । २) समीप में न रहनेवाली भार्या जिस की वह । ३) जंगल में किसी दूसरी भार्या को न स्वीकार किया हो वह । ४) साथ न होने वाली भार्या जिसकी वह ।
 
इस प्रकार "अकृतदार​" शब्द को अन्यथा विग्रह करके श्रीराम ने झूठ नहीं बोला - इसे स्थापित करते है व्याख्याकार ॥
 
English – The word an adjective used by Sri Rama to refer Lakshmana is “अकृतदार” . This word literally means that “One who not married”. If we take this meaning then this will contradict the earlier sayings of or about Sri Rama such as “Even for fun Sri Rama never speaks lie” and “I didn’t speak lie earlier and would not speak lie at any time.” To protect character sketch of Sri Rama as defined Valmiki, almost all the scholars tried their level best to define this word “अकृतदार” . Thus they present few solutions for this issue. They are –
1) अकृतदार means that who has not taken wives of others meaning one who is not married to wives of others.
2) अकृतदार means that one whose wife is not within proximity.
3) अकृतदार means one who has not married to any forest women
4) अकृतदार means whose wife is with him.
 
Thus, all the commentators tried level best to defend the usage of Valmiki according to the character of Sri Rama.
 
{} {} {} {} {} {} {} {}

Monday, February 23, 2015

अठ्ठाईस वेद व्यासों के नाम

अठ्ठाईस वेद व्यासों के नाम और भविष्य में होने वाले वेद व्यास का नाम​

१) स्वयम्भूः, २) प्रजापतिः, ३) उशनाः, ४) बृहस्पतिः, ५) सविता, ६) मृत्युः, ७) इन्द्रः, ८) वसिष्ठः, ९) सारस्वतः, १०) त्रिधामा, ११) त्रिशिखः, १२) भरद्वाजः, १३) अन्तरिक्षः, १४) वर्णी, १५) त्रय्यारुणः १६) धनञ्जयः, १७) ऋतुञ्जयः, १८) जयः, १९) भरद्वाजः, २०) गौतमः, २१) हर्यात्मा, २२) वाजश्रवाः, २३) सोमशुष्मायणः तृणबिन्दुः, २४) ऋक्षः (भृगुवंशीयः वाल्मीकिः इत्यपि ज्ञायते), २५) शक्तिः, २६) पराशरः, २७) जातुमर्णः, २८) कृष्णद्वैपायनः,
आगामी व्यासः - २९) द्रोणपुत्रः अश्वत्थामा
Source: (विष्णुपुराण - तृतीय अंश - तीसरा अध्याय - ११ श्लोक से २१ श्लोक तक​)


Saturday, February 21, 2015

॥ छाया-सुवर्चलासमेतसूर्यनारायणाय नमः ॥

॥ छाया-सुवर्चलासमेतसूर्यनारायणाय नमः ॥

छाया
नारीमुत्पादयामास स्वशरीरादनिन्दिताम् ।
त्वाष्ट्रीस्वरूपेण नाम्ना छायेति भामिनी तदा ॥ इति मात्स्यपुराणम् । तदनु सूर्यपत्नी छाया । हरिवंशे नवमेऽध्याये छायायाः कथा वर्ण्यते । सूर्यपत्नी संज्ञानाम्नी स्वीयां छायां श्यामवर्णां तेजोऽधिकां द्रष्टुम् असहमाना तत्सदृशीं काञ्चित् निर्मितवती । सा एव छाया । सा संज्ञा या छायां निर्मितवती सा च पितुः त्वष्टुः पार्श्वे वारं वारं गता, तदा पित्रा आदिष्टा सा सूर्यमेव शरणं गतवती । एतन्मध्ये सूर्यः तां संज्ञया निर्मितां छायां संज्ञा इत्येव विचिन्त्य तस्यां पुत्रद्वयम् उत्पादयामास । तत्र ज्येष्ठः मनुः - यः संज्ञानिर्मितसवर्णायाः छायायाः जातः इति हेतोः सावर्णमनुः इति प्रसिद्धः अभवत् । द्वितीयः शनैश्चरः । ततः प्रभृति छाया सूर्यस्य प्रिया पत्नी सञ्जाता ।

सुवर्चला
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।
तं नित्यम् अनुरक्तास्मि यथा सूर्यं सुवर्चला ॥ (वाल्मीकिरामायणम्, सुन्दरकाण्डे)
श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला |
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् (शान्तिपर्व - २६४-४)
श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला |
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् (अनुशासनपर्व १३४-४)
इत्यादिषु दर्शितरीत्या सुवर्चला सूर्यपत्नी ज्ञायते ।

क्षमस्व भास्कर त्वञ्च साक्षान्नारायणो भवान् । इति ब्रह्मवचनात् साक्षात् नारायणः सूर्य: । स यश्चायं पुरुषः यश्चासावादित्ये - इति श्रुतिश्चापि ।

तथा च च्छाया-सुवर्चलासमेतसूर्यनारायणाय नमः इति प्रयोगः सिद्धः ॥

@@@@@@@@@


अर्जुनस्य दश नामानि (Ten Names of Arjun)

अर्जुनस्य दश नामानि
(Ten Names of Arjun)

उत्तर उवाच||
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे |
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ||||
अर्जुन उवाच||
हन्त तेऽहं समाचक्षे दश नामानि यानि मे |
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ||||
बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ||||
अर्जुन उवाच||
सर्व्वान् जनपदान् जित्वा वित्तमाश्रित्य केवलम् ।

मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ॥११||
अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान् |
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ||१२||
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः |
सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ||१३||
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा |
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ||१४||
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः |
किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मां  किरीटिनम् ||१५||
न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन |
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ||१६||
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे |
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ||१७||
पृथिव्यां चतुरन्तायां वर्ण्णी मे दुर्लभः समः । 
करोमि कर्म्म शुद्धञ्च तेन मामर्ज्जुनं विदुः||१८||
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः |
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ||१९||
कृष्ण इत्येव दशमं नाम चक्रे पिता मम |
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ||२०||
(विराट​-पर्व ३९. ७-२०)
१) धनञ्जयः - धनं जयति (शत्रून् जित्वा अर्जयति) इति धनञ्जयः । सभी जनपदों को जीतकर धन सङ्ग्रह करके उस के बीच में खडा हूं, इस लिए मुझे धनञ्जय कहते हैं ॥
२) विजयः - वि-इत्युपसर्गपूर्वक-जि-धातोः कर्त्तरि भावे वा अच् = विजयः । युद्ध में उतरूंगा तो विपक्ष के मदमत्त शत्रुओं का नाश करके नहीं लौटता हूं, इस लिए मुझे विजय कहते हैं ।
३) श्वेतवाहनः - श्वेतं वाहनं यस्य सः = श्वेतवाहनः । युद्ध में लडते समय मेरे रथ पर सफेद रंग के घोडे बांधे जाते है, इस लिए मुझे श्वेतवाहन कहते हैं ।
४) फल्गुनः - फलति कार्यादिकम् अस्मात् इति फल्गुनः । फल्गुनीनक्षत्रे जातः इति वा फल्गुनः । उत्तरफल्गुनी पूर्वफल्गुनी इति अनयोः नक्षत्रयोः मध्ये दिवा काले हिमवतः पृष्ठभागे जातः इति मुझे फल्गुन कहते हैं ।
५) किरीटी - किरीटः अस्ति अस्य इति किरीटी (टिन्) । कदाचित् दानवों के साथ युद्ध करते समय इन्द्र ने मुझे इस किरीट को बांधा । इस लिए मुझे किरीटी कहते हैं ।
६) बीभत्सुः - बध निन्दने इत्यस्मात् धातोः स्वार्थे सन्-प्रत्यये ततः उ-प्रत्यये बीभत्सुः इति । अथवा भदि कल्याणे सुखे च इत्यस्मात् धातोः सन्-प्रत्यये रूपम्, पृषोदरादित्वात्  इट् न​, नलोपः च । कदाचिद् अपि य् उद्ध करते हुए बीभत्स काम न करता हूं, इस लिए मुझे बीभत्सु कहते हैं ।
७) सव्यसाचिः - सचति सन्दधाति सव्य हाथ से (वाम हाथ से) बाण को इति सव्यसाचिः । मेरे दाएं और बाएं हाथ दोनों से गाण्डीव को खींचने में समर्थ हूं, इस लिए मुझे सव्यसाचि कहते हैं ।
८) अर्जुनः - अर्ज प्रतियत्ने इत्यस्मात् धातो उनन्-प्रत्यये अर्जुनः इति । इन चारों लोकों में मेरे समान कोई नहीं है और शुद्ध काम ही करता हूं, इस लिए मुझे अर्जुन कहते हैं ।
९) जिष्णुः - जि जये इत्यस्मात् ग्स्नु-प्रत्यये जिष्णुः इति । देव और मनुष्यों में मेरे दमनकरनेवाला जीतनेवाला कोई नहीं है, इस लिए मुझे जिष्णु कहते हैं ।
१०) कृष्णः - कृष्णः वर्णः अस्य स्ति इत् कृष्णः । अथवा कर्षति अरीन् स्वप्रभावेन इति  कृष्णः । दसवां नाम कृष्ण रखा गया मेरे पिता जी के द्वारा क्यों कि हमेशा बाल्य से ही भगवान् कृष्ण से अनुरक्त था इस लिए ॥
 
1. Having conquered all the Janapadas and having collected wealth, he stands amidst that wealth, hence he is called Dhananjaya.
2. Once got into the battle, he returns not without victory. So he is known as Vijaya.
3. As white colour horses are tied to his chariot during battle, he is known as Shvetavahana.
4. He is born behind the Himalayas between the two stars Uttara Phalguni and Purva Phalguni in the day time, he is known as Phalguna.
5. During the battle with demons, he was presented a beautiful Crown by Indra, so he is known as Kiriti.
6. During battle, he would not do any act of offensive, hence he is called Bibhatsu.
7. He can pull the arrows with both the hands, hence, he is known as Savyasaci.
8. No one is equval to me in these four wporls and I do only good actions, so he is called Arjuna.
9. There is no one in Gods and Human who can control and get victory over me. So he is called Jishnu.
10. The tenth name Krishna was given by my father, as I was devoted to Lord Krishna from childhood. So he is known as Krishna.


@@@@@@@

Friday, February 20, 2015

॥ स्वाहा का प्रयोग ॥

॥ स्वाहा का प्रयोग ॥

दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज |
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ||||
न च मां कामिनीं पुत्र सम्यग्जानाति पावकः |
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ||||
स्कन्द उवाच||
हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रपुरस्कृतम् |
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् ||||
अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः |
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने ||||
(महाभारते आरण्यकपर्वणि)


स्वाहा स्कन्दम् एवं प्रार्थयते - हे महाभुज (स्कन्द​) ! अहं दक्षस्य स्वाहा नाम प्रिया कन्या ।  बाल्यात् प्रभृति नित्यं च हुताशने जातकामा (अस्मि) । हे पुत्र ! पावकः कामिनीं मां संयक् न च जानाति । पुत्र ! अग्निना शाश्वतं वासं वस्तुं इच्छामि ।

स्कन्दः उत्तरं ददाति इत्थम् - हे देवि ! द्विजाः मन्त्रपुरस्कृतं यत्किञ्चित् हव्यं कव्यं च समुद्यतम् अग्नौ होष्यन्ति, सुवृत्ताः सत्पथे स्थिताः अद्य प्रभृति सदा "स्वाहा" इति उक्त्वा दास्यन्ति । शोभने (मातः) ! एवम् अग्निः त्वया सार्धं सदा वत्स्यति ॥

अतः ततः प्रभृति होमादिकाले "स्वाहा" इति उच्चार्य द्रव्यत्यागः क्रियते यजमानैः ॥

विशेषः
१) महान्तौ भुजौ यस्य सः = महाभुजः । विशाल स्कन्धवाले, यहां पर स्कन्द है ।
२) जातः कामः यस्याः सा = जातकामा । जिस की प्यार हुई वह, यहां पर स्वाहा ।
३) हुताशनः, पावकः ये सब अग्नि के नाम हैं ।
४) शाश्वतं = निरन्तरम्
५) हव्यं कव्यं = याग में आहुति के रूप में देनेवाले पक्व या अपक्व द्रव्य ।

हे महाभुज ! (स्कन्द​) मैं दक्ष की लाडली कन्या स्वाहा हूं । मैं बाल्य से ही अग्नि से अत्यन्त प्यार करती थी । किं तु अग्नि इस बात को ठीक नहीं जानते थे कि मैं उस से प्यार करती हूं । मैं अग्नि के साथ हमेशा वास करना चाहती हूं ॥

स्कन्द ने जबाब दिया कि आज के बाद जो ब्राह्मण लोक मन्त्र के साथ "स्वाहा" कहकर ही जो कुछ हव्य या कव्य अग्नि पर आहुति करेंगें, जिस से आप अग्नि के साथ हमेशा वास कर सकती हो ।

तब से लेकर अग्नि पर आहुति देते समय "स्वाहा" का प्रयोग होने लगा । इस वर को स्कन्द ने दिया स्वाहा क् ई इच्छा पर ।

Svaha says to Skanda, “O Skanda! I am Svaha, the lovely daughter of Daksha. I love Agni from my childhood. But, Agni didn’t know this that I am in love with him. I wish to be with Agni always”.

Skanda replied, “From today onwards, the Brahmins whatever they sacrifice in Agni with chanting Svaha; so that you could always be with Agni.  

Thus, from that day onwards chanting of “Svaha” come into effect. This boon was given by Skanda to Svaha.

$$$$$$$$$