अनुवाकसाङ्कर्यम्
नानृग्वेदविनीतस्य नायजुर्वेदधारिण: । नासामवेदविदुषः शक्यमेवं विभाषितुम् ॥
(किष्किन्धाकाण्डे तृतीयसर्गे २८ श्लोकः)
१)
नानृग्वेदविनीतस्य = न ऋग्वेदविनीतः = अनृग्वेदविनीतः, न अनृग्वेदविनीतः = नानृग्वेदविनीतः, तस्य नानृग्वेदविनीतस्य (शेषे षष्ठी वा आर्षत्वाद् वा
षष्ठी) । ऋग्वेदविनीतस्य इति तात्पर्यम्, विनीतः = प्रातिशाख्यादिज्ञानपूर्वम् अभ्यासः ।
२)
नायजुर्वेदधारिणः = न यजुर्वेदधारी = अयजुर्वेदधारी, न अयजुर्वेदधारी = नायजुर्वेदधारी । नायजुर्वेदधारिणः =
यजुर्वेदेधारणायुक्तस्य इति तात्पर्यम् ।
३)
नासामवेदविदुषः = सामवेदस्य विद्वान् = सामवेदविद्वान्, न सामवेदविद्वान् = असामवेदविद्वान्, न असामवेदद्वान् = नासामवेदविद्वान्, तस्य नासामवेदुषः । नासामवेदविदुषः = सामवेदविदुषः इति तात्पर्यम् ।
४) एवं =
(तादृशेन) एव५) विभाषितुं =
भाषितुं
६) शक्यं =
प्रभवति
न शक्यं. न शक्यं
, न शक्यम् इति वा अन्वयः टीकाकारै दर्शितरीत्यापि भवितुम्
अर्हति । इदानीं भवत्याः
प्रशनस्य उत्तरम् । एकैकानुवाकेऽनुवाकान्तरसाङ्कर्येण तद्धारणस्य दुष्करत्वादिति
व्याख्याकारः तिलकटीकायाम् । अर्थात् इतरवेदापेक्षया यजुर्वेदधारणं दुष्करम् । यतः
यजुर्वेदे एकः अनुवाकः उच्यते चेत्, (इतरवेदापेक्षया यजुर्वेदे
तत्समानानूर्वीकवाक्यानां बहुत्र सत्त्वात्) अनुवाकान्तरं प्रति वक्त्रा
गम्यते । तदेव अत्र अनुवाकसांकर्यम् इति उच्यते । अर्थात् तमिल्-भाषायां கவளை பாய்தல் इति ज्ञायते ॥
&&&&&&&&&
No comments:
Post a Comment