विश्वामित्रः दाता ग्रहीता च
जनकानां रघूनां च सम्बन्धः कस्य न प्रियः ।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥ (उत्तररामचरितम् - १७) पदार्थः - जनकानां = जनककुलीयानां, रघूनां च = रघुवंशीयानां च, सम्बन्धः = वर-वधूदानग्रहणरूपः सम्बन्धः, कस्य = कीदृशस्य, न प्रियः = प्रीतिकरः न ।
अर्थात् प्रीतिकरः सर्वेषाम् इत्यर्थः । (यतः) यत्र = यस्मिन् कर्मणि, दाता = दानकर्त्ता, ग्रहीता = स्वीकर्ता च,
स्वयं = साक्षात्, कुशिकनन्दनः = कुशिकपुत्रः
विश्वामित्रः (खलु) ॥ संस्कृतम् - यत्र कन्यादाता कन्याग्रहीता च साक्षात् विश्वामित्रः (अर्थात्
कन्यापक्षे स्थित्वा ददाति, वरपक्षे स्थित्वा गृह्णाति च) तादृशः जनकस्य दह्स्रथस्य च सम्बन्धः कस्मै वा
न रोचेत !
हिन्दी - जहां कन्यापक्ष में रहकर कन्या देनेवाले, और वरपक्ष में रहकर कन्या ग्रहण करनेवाले दोनों ही
विश्वामित्र है, ऐसे जनक और दशरथ के बीच के सम्बन्ध कौन नहीं चाहेगा । सभी चाहेंगें ही हैं । English – Where
the Giver (gives on behalf of Janaka) and Taker (takes on behalf of Dahsratha) of
the Bride is Vishvamitra, who does not like that kind of relation between
Janaka and Dasharatha.
********
No comments:
Post a Comment