Sunday, February 1, 2015

The Tradition of Hugging

आलिङ्गनपरम्परा 

(गले लगाने की परम्परा --  The Tradition of Hugging)


परिष्वजामि सोत्कण्ठः मां प्रतीपं परिष्वज । 

आलिङ्गिते भ्रातृगात्रे कवोष्णः सोऽपि चन्द्रमाः ॥ 

बालरामयणे दशमेऽङ्के ॥


पदच्छेदः - परिष्वजामि सोत्कण्ठः मां प्रतीपं परिष्वज आलिङ्गिते भ्रातृगात्रे कवोष्णः सः अपि चन्द्रमाः ॥


अन्वयः - सोत्कण्ठः परिष्वजामि, प्रतीपं मां परिष्वज । आलिङ्गिते भ्रातृगात्रे सः चन्द्रमाः अपि कवोष्णः ।


सोत्कण्ठः = उत्कण्ठया सहितः = सोत्कण्ठः, परिष्वजामि - आलिङ्गामि, प्रतीपं = प्रतिक्रियारूपेण​, मां = मां, परिष्वज = आलिङ्ग । आलिङ्गिते = आलिङ्गनं कृते, भ्रातृगात्रे = भ्रातुः शरीरे, सः = असौ, चन्द्रमाः = चन्द्रः, अपि = च​, कवोष्णः = इषद्-उष्णः (जायते) ।


विशेषः -१) इष्टलाभे कालक्षेपासहिष्णुता उत्कण्ठा तया सहितः = सोत्कण्ठः ।२) ष्वञ्ज परिष्वङ्गे इति धातुः, सकर्मकः, अनिट्, आत्मनेपदी, भ्वादिः । कामरूपवती चैषा परिष्वजति भामिनी। (म​.भा.११-२०-७) । परिष्वजति पाञ्चाली मध्यमं पाण्डुनन्दनम् ॥इत्यादिप्रयोगदर्शनात् क्वचित् परस्मैपदी अपि एषः धातुः । अतः अत्र परिष्वजामि इति परस्मैदी ।३) चन्द्रमस् इति पुंसि शब्दः सकारान्तः । प्रथमा-एकवचने चन्द्रमाः इति रूपं, नचिकेतस् - नचिकेताः इतिवत् । चन्द्रमा इति आकारान्तः अपि अन्यः शब्दः (स्त्रीलिङ्गे) अस्ति ।
४) कवोष्णम् इति क्लीबलिङ्गे प्रयोगः । अर्थः - इषद् उष्णम् इति ।५) ऐसे ही एक और श्लोक भरत से लक्ष्मण प्रति -हे लक्ष्मण सलक्ष्मीक परिष्वज महाभुज ।आर्यसेवापवित्राणि गात्राणि सुखयन्तु माम् ॥ऐसे कैई श्लोक हैं संस्कृत साहित्य में गले लगाने के बारे में ।


तात्पर्यम् - रामः वदति भरतम् - अहं भवन्तम् आलिङ्गामि, भवान् अपि माम् आलिङ्ग । भ्रातुः शरीरस्य आलिङ्गनेन चन्द्रः अपि स्वीयं शैत्यं त्यक्त्वा ईषद्-उष्णः जायते ॥


हिन्दी - हे भरत ! मैं तेरे गले लगाता हूं, तू भी मेरे गले लगाओ । भाई के लगाने पर चान्द भी अपनी शीतलता को छोडकर आनन्ददायक मित उष्णवाला बन जाता है ।


English – O Lakshman, I hug you, you also hug me in turn. Hugging the brother’s body makes the Moon also warmer. The nature of the Moon is said to be cool, whereas it also becomes warmer when you hug your brother.


अनर्घराघवे सप्तमे अङ्के भरतः लक्ष्मणं वदति -वत्स लक्ष्मण सोत्कण्ठं चिरात्परिरभस्व माम्। 

श्रद्धालुर्भ्रातुरङ्गानि चन्दनेष्वप्यरोचकी॥१४४॥

इन्दोः कलाकलापेन पङ्क्तिक्रमनिवेशिना । सर्वदुःखापनोदाय सुदर्याणां भुजाः कृताः ॥१४५॥


पदच्छेदः - वत्स​, लक्ष्मण​, सोत्कण्ठं, चिरात्, परिरभस्व​, मां, श्रद्धालुः, भ्रातुः, अङ्गानि, चन्दनेषु, अपि, अरोचकी ॥


अन्वयः - वत्स लक्ष्मण सोत्कण्ठं चिरात् मां परिरभस्व । (यतः) भ्रातुः अङ्गानि श्रद्धालुः (जनः) चन्दनेषु अपि अरोचकी (भवति) ॥पदार्थः - वत्स = अङ्ग​, लक्ष्मण = (हे) लक्ष्मण​, सोत्कण्ठं = विना कालयापनं, चिरात् = दीर्घकालं, मां = मां (भरतं), परिरभस्व = आलिङ्ग । (यतः) भ्रातुः = सहोदरस्य​, अङ्गानि = शरीरावयवान्, श्रद्धालुः = श्रद्धां धारयमाणः (जनः), चन्दनेषु = चन्दनलेपने, अपि = च​, अरोचकी = न रुचिमान् (भवति ॥


विशेषः -१) उत्कण्ठा - कालयापन​-असहिष्णुता तया सहितः = सोत्कण्ठः ।२) चिरात् - अव्ययम् । पन्चमीवत् भासते, न पञ्चमी । दीर्घकालमिति अर्थः, चिरस्य​, चिराय इति तत्पर्यायः ।३) परिरभस्व - रभ औत्सुक्ये भ्वादिः अकर्मकः आत्मनेपदी अनिट् । परिपूर्वः आलिङ्गनार्थे वर्तते । तस्य लोटि मध्यम​-पुरुष​-एकवचनम् - परिरभस्व इति ।४) रोचकः - रुचिः अस्ति अस्मिन् इति रोचकिन्, न रोचकिन् = अरोचकिन् । तस्य प्रथमाविभक्ति-एकवचने अरोचकी इति ।


तात्पर्यम् - हे लक्ष्मण​! मां उत्कण्ठया साकं दीर्घकालम् आलिङ्ग । यतः सहोदरस्य अङ्गानि श्रद्धावान् पुरुषः चन्दनेषु अपि न रुचिमान् भवति । अर्थात् सहोदरस्य शरीरस्पर्शः चन्दनलेपनमपि अतिशेते । अतः आलिङ्गनं करणीयम् ।


हिन्दी - हे लक्ष्मण​! आओ, विना काल यापन किए मेरे गले लगाओ देर तक । क्यों कि भाई के शरीर का स्पर्श पाने वाले व्यक्ति चन्दन में भी रुचि नहीं रखता है । इस लिए गले लगाना चाहिए ।


English – O Lakshman, come, without wasting time hug me. Who experiences the touch of the body of brother, never likes the paste of Sandal even.  


No comments: