Wednesday, September 23, 2015

वेदे उषस्-शब्दः

Acharya Sayana treated उषस् as Feminine Gender wherever it refers to देवता. For example R.V.10-8-4, where he explains as उष उषः=सर्वस्याः एव उषसः and R.V.1-141-7, where he explains as नक्तोषासा=(उक्तगुणविशिष्टे) अहोरात्रदेवते (अभिमानिदेवताद्वन्द्वे पूर्वपरयोः उषासा इति आदेशः). Where उषस् is used to refer “time” there Sayana treated that as Masculine or neuter genders. For example R.V.6-28-1, and 1-151-5.

Hymn you mentioned is सखाभूदश्विनोरुषाः (R.V.4-52-2). Here also Sayana treats उषस् as feminine gender and explains as सखा=समानख्याना=सह स्तूयमाना. Another instance you quoted is देवीमुषसं स्वरावहन्तीम् (R.V.5-80-1) where Sayana treats उषस् as feminine gender and he explains as देवीं=द्योतमानाम्, उषसं, स्वरावहन्तीं=सूर्यं गच्छन्तीम् । One more instance you quoted is उषासमिन्द्र संपिणक् (R.V.4-30-9). Here also Sayana treats as feminine gender and explains as उषासम् (उषसम्)=उषोदेवीम् ।

In Veda any word can be in any gender and it can 

be in any form. As said 


सुप्-तिङ्-उपग्रह(उपसर्गः)-लिङ्ग​-नराणां काल​-हल्-अच्-स्वर​-कर्तृ-यङां 

च​ । 

व्यत्ययम् इच्छति शास्त्रकृत् एषाम् सः अपि च सिध्यति बाहुलकेन

॥ (वार्त्तिकम् ३-१-८५). 

However, Sayana treats उषस् as feminine gender wherever it refers to देवता. In other places it is either in masculine gender or in neuter gender.


&&&&&

Sunday, September 13, 2015

धरा-वन्दना

धराऽधरा पराऽपरा वराऽवरा धुराऽधुरा ।
सुराऽसुरा हराऽहरा खुराऽखुरा  भराऽभरा ॥

धरा=ध्रियते शेषेण​, अधरा=न ध्रियते च​, परा=उत्कृष्टा, अपरा=न पूर्यते इति, वरा=श्रेष्ठा, अवरा=न श्रेष्ठा यस्याः सा, धुरा=भारयुता, अधुरा=भारशून्या च​, सुरा=सुष्ठु राति (ददाति) अभीष्टम् इति, असुरा=न मदा, हरा=हरति पापानि, अहरा=न हरति विभाजयति (सर्वम्), खुरा=खुरति (छिनत्ति) दुष्कर्म इति, अखुरा=न खुरति (छिनत्ति) लोकान्, भरा=भारयुता, अभरा=न भरा (अतिशयः) यस्याः सा ॥ तादृशी इयं भूमिः इति तात्पर्यम् ॥

Wednesday, September 9, 2015

स्त्रीणां नामानि

॥ स्त्रीणां नामानि ॥


आधुनिके काले "मुदिता शर्मा", "रमा भट्टः" इत्यादीनि नामानि स्त्रीणां श्रूयन्ते । गृहिणीनां परिचयकाले "एषा मिसर्स् जगन्नाथः (Mrs.Jagannath)", "मिसर्स् सुदर्शनः (Mrs.Sudarshan)" इत्यादिरपि श्रूयते। एतेषां साधुत्वं कथम्? वस्तुतः शास्त्राणुसारेण "शर्मा, भट्टः" इत्यादीनि स्त्रीणां नाम्नाम् अन्ते न योजनीयानि । मनुः वदति - 
स्त्रीणां सुखोद्यम् अक्रूरं विस्पष्टार्थं मनोहरम् । 
मङ्गळ्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ (म​.स्मृ.२.३३) इति । सुखेन उद्यते सुखेन वदितुं शक्यं वा (सुखेन उच्चारयितुं योग्यम्) सुखोद्यम् अन्यत् सर्वं स्पष्टम् । तत्र व्याख्यासु "यशोदा, मङ्गलदेवी, चारुमती, सुवदना, मङ्गला, सुभद्रा" इत्यादीनि उदाहरणानि दर्शितानि । अत्रैव मेधातिथिः "शर्मवती रुद्रवती इति मङ्गलम्" इति दर्शयति । 

तथा च एषः निष्कर्षः -
१) शास्त्रोक्तानि संस्कृतानि सुखोद्यादीनि नामानि एव पितरः कुर्युः, येन समस्या न भवेत् ।
२) प्राक् काले "शर्मा, भट्टः" इत्यादीनां स्त्रीणां नामान्ते योजनस्य परम्परा न आसीत् । इयम् आधुनिकरीतिः आश्रीयते, इदं न साधु ।
३) यदि आत्मानं शर्मादिकुलोत्पन्नां ख्यापयितुम् इच्छति, तर्हि (नाम्नः पञ्जीकरणम् कथम् अपि वा भवतु यथा "मुदिता शर्मा" इत्यादि) व्यवहारः तु एवम् भवितुम् अर्हति यथा "मुदिता शर्मवती", "रमा भट्टवती" इति ।
४) यथावद् "मुदिता शर्मा", "रमा भट्टः" इत्यादि तु दोषपूर्णमेव ।
५) "एषा मीसर्स् श्रीधरः (Mrs.Shriidhar)" इत्यादिप्रयोगाः भाषान्तरप्रकृतिकाः, न तु संस्कृतप्रकृतिकाः । तादृशप्रयोगाः न आदर्तव्याः ।
६) पुनश्च आङ्गलभाषायामपि "Mrs.Shridhar" इत्यस्य वाक्ये विनियोगः "एषा Mrs. of Shridhar" इत्येव । अतः तत्र वाक्यप्रयोगं मनसि निधाय एव अर्थबोधः जायते । तस्मात् तादृशः प्रयोगः संस्कृते इत्थं भवितुम् अर्हति वाक्यरूपेण "एषा पत्नी श्रीधरस्य (श्रीधरस्य पत्नी)" इति ।
७) "राधा सुदर्शनः" इत्यादिस्थलेषु यत्र पितुः नाम अग्रे वर्तते, तत्रापि इदमेव तात्पर्यं "सुदर्शनस्य पुत्री राधा (Radha D/O Sudharshan" (सुदर्शनपुत्री राधा) । अत्रापि एषः एव उपायः आश्रयणीयः पञ्जीकरणं कथमपि भवतु, व्यवहारे शुद्धम् एव भवेत् ।
८) अपरः कश्चन सरलः उपायः व्यवहारकाले "वर्या" इत्यादिशब्दाः संयोजनीयाः यथा मुदिताशर्मवर्या, रमाभट्टवर्या इत्यादि 

संस्कृतभाषायां संस्कृतभाषाप्रकृतिः एव आश्रयणीया  "तदशिष्यं संज्ञा प्रमाणत्वात्" इत्यस्य दुरुपयोगः एतादृशस्थलेषु न करणीयः ।

&&&&&

Sunday, September 6, 2015

॥ कृष्णाष्टकम् ॥

॥ कृष्णाष्टकम् ॥

गोपालबालं नन्दलालं गोविन्ददेवं मन्दहासम् ।
गोपप्रियं तं वृष्णिवंशं गोग्रामभूपं नौमि नित्यम् ॥१॥

I bow to the cowboy child, son of Nandagopa, Govinda, one with smile, beloved of cowboys, belonging to Vrishni race, and king of cow-village.

राधामनीषं सुन्दराभं रामानुजं तं वासुदेवम् ।
राकानुकान्तं राजराजं रासानुकेलिं नौमि नित्यम् ॥२॥

I bow to the beloved to Radha, one with beautiful luster, the younger of Rama 9meaning younger of Balarama as well the next incarnation after Rama), son of Vasydeva, one whose brightness is followed by Purnima Moon, the King of Kings and one who engages himself in Raasa Krdaa. 

वीराधिवीरं यादवेशं वीरप्रमेयं शान्तिदूतम् ।
वीरार्जुनीयं सारथिं तं वीरस्वरूपं नौमि नित्यम् ॥३॥

I bow to the courageous of the most courageous, God of Yadavas, definition of gallant, peace ambassador, the gallant of Arjuna (behind force of Arjuna) as charioteer, and that form of gallant.  

देवाधिदेवं देवकीजं देशाधिराजं द्वारकेशम् ।
देवेन्द्रवन्द्यं दारुरूपं देहात्मरूपं नौमि नित्यम् ॥४॥

I bow to the Chief of all Gods, son of Devaki, Emperor of the nation (here, देश means various things such as land), King of Dwaraka, one who is bowed by Devendra, a form of wood (In Jagannath Puri (Odisha) Sri Krishna is in the form of wood), and both in the for of Body and Self.  

नारायणं तं पार्थमित्रं नाट्याभिरामं नन्दसूनुम् ।
नासच्छ्रुतीयं मूलभूतं नामार्थरूपं नौमि नित्यम् ॥५॥

I bow to that (who is spoken in Vedas) Narayana, friend of Arjuna, Expert (appreciator) of dance, son of Nanda, basis for the Veda Vakya नासदीय​ Sukta, and who is in the form of word and meaning.

सत्यं प्रशान्तं वेदमूर्तिं सत्त्वस्वरूपं याजुषं तम् ।
सत्यार्थमूर्तिं शुद्धतत्त्वं सद्बुद्धिदायं नौमि नित्यम् ॥६॥

I bow to the Ultimate Truth, Tranquilized, Formof Vedas, form of existence (Sattva has several meanings), Form of Yajur Veda (or Yaga), form of reality, pure entity, and the giver of good thoughts. 

पारार्थ्यमीशं वेदवन्द्यं पाशेन बद्धं लोकनाथम् ।
पारं भवेशं ज्ञानसिन्धुं पादौ शरण्यौ नौमि नित्यम् ॥७॥

I bow to the Ultimate phenomenon, God, who is bowed by Vedas, bound by the thread of love, God of all worlds, God of this Samsara, Ocean of Knowledge, and whose Feet are the only refuge.

कृष्णं कृपेशं दीननाथं कृत्नुं यशोदानन्दबालम् ।
कृष्टिं बुधेशं यज्ञपालं कृष्णापरेशं नौमि नित्यम् ॥८॥

I bow to Sri Krishna, God of mercy, God of poor the skillful, the child of Yashoda and nanda, scholar, King of scholars, protector of Yagas ad the supreme god of Draupati.

कृष्णाष्टकं यो दैवनाथं भक्त्या पठेच्छ्रीजन्मकाले ।
सौख्यं समृद्धिं प्राप्नुयाद्वै मोक्षं परं श्रीरस्तु भूयः ॥९॥

Who recites this Eight Shlokas with devotion authored by Devanathah on the eve of Janmashtami will get all comforts, wealth in opulence, besides liberation from this world. 

&&&&&&&