Friday, February 6, 2015

CONVERSATION BETWEEN VISHNU & NIILAA

CONVERSATION BETWEEN VISHNU & NIILAA


प्रिये किमार्य दुःखितासि ननु किं शेषे शयानोऽसि भोः
त्वदीयविग्रहे फणी शिरसि मा डोलायमानोऽम्बुधिः ।
करे च पाणिमुक्तकानि ननु ते नाभौ सुतः सृज्यते
कथं च सौख्यमत्र भो इति बुधां पश्यन् हरिः पातु वः ॥

हरिः - प्रिये = हे प्रिये (नीले), नीला - किम् आर्य = किम् स्वामिन्, हरिः - दुःखिता असि = किं दुःखे वर्तसे ?, नीला - ननु किं = अथ किं (ओम् दुःखिता अस्मि), (किमर्थमिति अग्रे नीला वदति) नीला - भोः = हे (भगवन्), शेषे = आदिशेषे, शयानः = शयनं कुर्वाणः, असि = वर्तसे, त्वदीयविग्रहे = भवतः शरीरे, मा = लक्ष्मीः (वर्तते), शिरसि = उत्तमाङ्गे, फणी = आदिशेषफणासहितः (वर्तते), अम्बुधिः = समुद्रः, डोलायमानः = कम्पमानः (वर्तते), करे च = हस्तयोः अपि, पाणिमुक्ततकानि = पाणिना प्रयोगार्हाणि शङ्खचक्रम् इत्यादि आयुधानि (सान्ति), ते = तव​, नाभौ = उदरावर्ते, सुतः =पुत्रः, सृज्यते = सृष्टिं करोति, नन कथं च = अथ केन प्रकारेण अत्र अपि, भोः = हे हरे, सौख्यं = सुखं (स्यात्), इति = इति (व्याहरन्तीं), बुधां = नीलानाम्नीं पत्नीं, पश्यन् = विलोकयन्, हरिः = विष्णुः, वः = भवतः सर्वान्, पातु = रक्षतु ॥ 

तात्पर्यम् - विष्णुः नीलानाम्नीं स्वपत्नीं पृच्छति - किं भवती दुःखिता इव दृश्यते इति । तदा नीला वदति = कथम् अहं सुखिनी भवेयमत्र ! नीचैः आदिशेषः वर्तते, तस्मिन् भवान् शेते । भवतः वक्षसि लक्ष्मीः वसति, शिरसि आदिशेषः फणान् प्रसार्य वर्तते, एषः समुद्रः कम्पमानः अस्ति, भवतः करयो शङ्खचक्रादीनि आयुधानि सन्ति, भवतः नाभौ ब्रह्मा उपविशन् सृष्टिं करोति । एतादृशावस्थायां कथम् अहं सुखिनी भवेयम् इति भाषमाणां विलोकयन् वर्तते यः विष्णुः सः भवतः सर्वान् रक्षतु ॥ 

हिन्दी - विष्णु अपनी पत्नी नीला से पूछते हैं कि क्यों उदास दिखती हो । नीला जवाब देती है कि आप तो शेष नाग पर लेटे हैं, आप के वक्षस् पर लक्ष्मी वास करती हैं, सर पर अपने फणों को प्रसारित हुए शेष है, यह समुन्दर भी डोलायमान है, आपके हाथ में शङ्ख् चक्र आदि आयुध हैं, और आप के नाभि पर आप के पुत्र ब्रह्मा सृष्टि का काम कर रहे हैं । ऐसी अवस्था में, मैं कसे सुखी रह सकती हूं, इसे कहती हुई नीला को जो विष्णु देखते हैं , वे आप सब की रक्षा करें । अर्थात विष्णु के साथ एकान्त में नहीं रह सकती हूं, मुझे आप की पत्नी होने का क्या प्रयोजन है ॥ 

विशेषः - पाणिमुक्तकानि = हाथ से प्रयोग करने वाले आयुध हैं उनहें पाणिमुक्तक कहते हैं ॥ 

सृज्यते = दिवादिः अत्मनेपदी सकर्मकः अनिट् । एतस्य सृज्यते इति रूपम् । अन्यत् सृज् धातुः वर्तते तस्य रूपं सृजति इति ।

English – Vshnu asks his one of the wives Nila why you seem sad. Nila replies him. You sleep on the Adishesha – Snake. Laksmii another wife is living on your chest. Over your head, the snake Adishesha is with his Phanas. This ocean is also trembling with waves. You hold Shankha and Chakra in your hands. Your son Brahma is engaged in creation. In these circumstances how can i be comfortable? 


*****************

No comments: