Saturday, February 21, 2015

अर्जुनस्य दश नामानि (Ten Names of Arjun)

अर्जुनस्य दश नामानि
(Ten Names of Arjun)

उत्तर उवाच||
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे |
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ||||
अर्जुन उवाच||
हन्त तेऽहं समाचक्षे दश नामानि यानि मे |
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ||||
बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ||||
अर्जुन उवाच||
सर्व्वान् जनपदान् जित्वा वित्तमाश्रित्य केवलम् ।

मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ॥११||
अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान् |
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ||१२||
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः |
सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ||१३||
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा |
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ||१४||
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः |
किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मां  किरीटिनम् ||१५||
न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन |
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ||१६||
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे |
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ||१७||
पृथिव्यां चतुरन्तायां वर्ण्णी मे दुर्लभः समः । 
करोमि कर्म्म शुद्धञ्च तेन मामर्ज्जुनं विदुः||१८||
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः |
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ||१९||
कृष्ण इत्येव दशमं नाम चक्रे पिता मम |
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ||२०||
(विराट​-पर्व ३९. ७-२०)
१) धनञ्जयः - धनं जयति (शत्रून् जित्वा अर्जयति) इति धनञ्जयः । सभी जनपदों को जीतकर धन सङ्ग्रह करके उस के बीच में खडा हूं, इस लिए मुझे धनञ्जय कहते हैं ॥
२) विजयः - वि-इत्युपसर्गपूर्वक-जि-धातोः कर्त्तरि भावे वा अच् = विजयः । युद्ध में उतरूंगा तो विपक्ष के मदमत्त शत्रुओं का नाश करके नहीं लौटता हूं, इस लिए मुझे विजय कहते हैं ।
३) श्वेतवाहनः - श्वेतं वाहनं यस्य सः = श्वेतवाहनः । युद्ध में लडते समय मेरे रथ पर सफेद रंग के घोडे बांधे जाते है, इस लिए मुझे श्वेतवाहन कहते हैं ।
४) फल्गुनः - फलति कार्यादिकम् अस्मात् इति फल्गुनः । फल्गुनीनक्षत्रे जातः इति वा फल्गुनः । उत्तरफल्गुनी पूर्वफल्गुनी इति अनयोः नक्षत्रयोः मध्ये दिवा काले हिमवतः पृष्ठभागे जातः इति मुझे फल्गुन कहते हैं ।
५) किरीटी - किरीटः अस्ति अस्य इति किरीटी (टिन्) । कदाचित् दानवों के साथ युद्ध करते समय इन्द्र ने मुझे इस किरीट को बांधा । इस लिए मुझे किरीटी कहते हैं ।
६) बीभत्सुः - बध निन्दने इत्यस्मात् धातोः स्वार्थे सन्-प्रत्यये ततः उ-प्रत्यये बीभत्सुः इति । अथवा भदि कल्याणे सुखे च इत्यस्मात् धातोः सन्-प्रत्यये रूपम्, पृषोदरादित्वात्  इट् न​, नलोपः च । कदाचिद् अपि य् उद्ध करते हुए बीभत्स काम न करता हूं, इस लिए मुझे बीभत्सु कहते हैं ।
७) सव्यसाचिः - सचति सन्दधाति सव्य हाथ से (वाम हाथ से) बाण को इति सव्यसाचिः । मेरे दाएं और बाएं हाथ दोनों से गाण्डीव को खींचने में समर्थ हूं, इस लिए मुझे सव्यसाचि कहते हैं ।
८) अर्जुनः - अर्ज प्रतियत्ने इत्यस्मात् धातो उनन्-प्रत्यये अर्जुनः इति । इन चारों लोकों में मेरे समान कोई नहीं है और शुद्ध काम ही करता हूं, इस लिए मुझे अर्जुन कहते हैं ।
९) जिष्णुः - जि जये इत्यस्मात् ग्स्नु-प्रत्यये जिष्णुः इति । देव और मनुष्यों में मेरे दमनकरनेवाला जीतनेवाला कोई नहीं है, इस लिए मुझे जिष्णु कहते हैं ।
१०) कृष्णः - कृष्णः वर्णः अस्य स्ति इत् कृष्णः । अथवा कर्षति अरीन् स्वप्रभावेन इति  कृष्णः । दसवां नाम कृष्ण रखा गया मेरे पिता जी के द्वारा क्यों कि हमेशा बाल्य से ही भगवान् कृष्ण से अनुरक्त था इस लिए ॥
 
1. Having conquered all the Janapadas and having collected wealth, he stands amidst that wealth, hence he is called Dhananjaya.
2. Once got into the battle, he returns not without victory. So he is known as Vijaya.
3. As white colour horses are tied to his chariot during battle, he is known as Shvetavahana.
4. He is born behind the Himalayas between the two stars Uttara Phalguni and Purva Phalguni in the day time, he is known as Phalguna.
5. During the battle with demons, he was presented a beautiful Crown by Indra, so he is known as Kiriti.
6. During battle, he would not do any act of offensive, hence he is called Bibhatsu.
7. He can pull the arrows with both the hands, hence, he is known as Savyasaci.
8. No one is equval to me in these four wporls and I do only good actions, so he is called Arjuna.
9. There is no one in Gods and Human who can control and get victory over me. So he is called Jishnu.
10. The tenth name Krishna was given by my father, as I was devoted to Lord Krishna from childhood. So he is known as Krishna.


@@@@@@@

No comments: