रामस्य सत्कृत्य इत्यत्र कथं षष्ठी?
ततो रामस्य सत्कृत्य
विधिना पावकोपमाः । आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः ॥
(आरण्यकाण्डे
प्रथमसर्गे षोडशः श्लोकः)
ततः = पश्चात्,
पावकोपमाः = अग्नितुल्याः,
धर्मचारिणः = धर्माचरणे रताः, ते = तादृशः, महाभागाः = महनीयाः, रामस्य = रामं, विधिना = शास्त्रोक्तविधिना, सत्कृत्य = सत्कारं विधाय, सलिलं = (अर्घ्यादिभिः स्वागतार्थं) पुण्यतीर्थम्, आजह्रुः = आनीतवन्तः ॥ तात्पर्यम् -
श्रीरामस्य दर्शनात् परम्, अग्नितुल्याः धर्माचरणे प्रवृत्ताः ते महाभागाः ऋषयः, श्रीरामं शास्त्रोक्तविधिना सत्कृत्य अर्घ्यादिभिः
स्वागताय पुण्यतीर्थम् आनीतवन्तः ॥
विशेषः - अत्र इदं
विचार्यते "रामस्य सत्कृत्य" इति प्रयोगः कथं युज्यते इति । यतः अत्र
द्वितीयया "रामं सत्कृत्य" इति भवितव्यम् । कारणं च - न
लोकाव्ययनिष्ठाखलर्थतृनाम्" (२-३-६९) इति सूत्रेण "सत्कृत्य" इति
अव्यये परे षष्ठी न भवति, द्वितीया एव स्याद् इति । एवं सति कथम् अत्र षष्ठी इति प्रश्नः । एतस्य
समाधानम् अधोनिर्दिष्टरीत्या व्याख्यातृभिः दर्शितम् ।
१) सरलं समाधानं
भवति - एषः ऋषिप्रयोगः, तस्मात् न दोषाय ।
२) किञ्च अत्र
कस्यचित् पदस्य अध्याहारेण समाधानं भवति - यथा रामस्य पादौ (@bangalorehuduga दर्शितरीत्या) सत्कृत्य इति ।
३) भूषणटीकाकारः
" रामस्य सत्कृत्य इति षष्ठी आर्षी, ‘न लोकाव्यय..’ इत्यादिना निषेधात्"
इति व्याख्याति । रामायणटीकायां "रामस्य विधिना सत्कृत्य" इत्येव
व्याख्यातम् । इयं चर्चा एव न कृता अथवा पदान्तरस्य अध्याहारः व्याख्यात्रा इष्यते इति वक्तुम् अपि निदानम् अस्ति ।
४) अत्र
तिलकटीकाकारः " रामस्य सत्कृत्य इति कर्मणः शेषत्वविवक्षायां षष्ठी" इति
किञ्चित् समाधानं दर्शयति ।

No comments:
Post a Comment