Saturday, September 10, 2016

लुम्पेदवश्यमः

अपरस्परः क्रियासातत्ये (६-१-१४४) इति सूत्रे "समो हितततयोर्वा लोपः", "सम्तुमुनोः कामे", "अवश्यमः कृत्ये" इति वार्तिकानां व्याख्यावसरे भाष्ये इदम् ऊरीकृतमेव । किञ्च पृषोदरादीनि यथोपदिष्टम् (६-३-१०९) इत्यत्र भट्टोजीदीक्षितः प्रौढमनोरमायाम् "अपरस्पराः क्रियासातत्ये इति सूत्रे सातत्यनिर्देशेनैव एकदेशानुमतिद्वारा पूर्वाचार्यपठितोऽयं श्लोकः ज्ञापित इत्याहुः।" इति । अत्रैव "लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि। समो वा हितततयोर्मांसस्य पचियुड्घञोः" इति काशिकोपात्तस्य श्लोकस्य व्याख्यानावसरे पदमञ्जरीकारेण उक्तम् "अतस्तदेव पूर्वाचार्यलक्षणं दर्शयति लुम्पेत् इत्यादि" इति। यथावद् वार्त्तिकस्य अनुवादरूपः एषः पूर्वाचार्यप्रणीतः श्लोकः ।  तथा च वार्त्तिक​-भाष्यसम्मत एव एषः नियमः इति सिद्धम्॥

*******

1 comment:

Narayanduttmishra said...

धन्यवादा आचार्येभ्यः।🙏