लटः
शतृशनचावप्रथमासमानाधिकरणे (३।२।१२४) इति सूत्रम्। लटः शतृ शानच् इत्यादेशौ भवतः, अप्रथमान्तेन
(द्वितीयादिभिः विभक्तिभिः) सामानाधिकरण्यं चेत्, प्रथमया सामानाधिकरण्यं चेत् न भवतः
इति सूत्रार्थः। तथा च गच्छन्तं देवदत्तं, गच्छता देवदत्तेन, गच्छते देवदत्ताय, गच्छतः
देवदत्तात्, गच्छतः देवदत्तस्य, गच्छति देवदत्ते इत्यादीनि उदाहरणानि। अत्र विचारः
"गच्छन् देवदत्तः", "सेवमानः देवदत्तः" इति "देवदत्तः"
इति प्रथमया समानाधिकरणे कथं शतृ शानच् इति आदेशौ इति॥
अत्र
काशिकारः - "क्वचित् प्रथमासमानाधिकरणेऽपि भवति। सन् ब्राह्मणः। अस्ति ब्राह्मणः।
विद्यमानः ब्राह्मणः। विद्यते ब्राह्मणः। जुह्वत्। जुहोति। अधीयानः। अधीते। माङ्याक्रोशे।
मा पचन्। मा पचमानः। केचिद् विभाषाग्रहणम् अनुवर्तयन्ति नन्वोर् विभाषा ३।२।१२१ इति।
सा च व्यवस्थिता। तत्र यथादर्शनं प्रयोगा नेतव्याः" इति। तथाच "पठन् देवदत्तः",
"पचमानः देवदत्तः" इत्यादिः प्रयोगः सिद्ध्यति॥
अत्र
एतस्य काशिकाकारवचनस्य किं मूलम्? इति प्रश्नः उदियात्। तस्य समाधानम् इत्थम् -
"न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यं । वक्तव्यं च । किं प्रयोजनम्
। नित्यार्थम्। अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् । क्व तर्हि इदानीं विभाषा ।
प्रथमासमानाधिकरणे । पचन् पचति, पचमानः पचते इति" इ ति भाष्यम् अत्र प्रमाणम्॥
तथा
च प्रथमासमानाधिकरणे शतृ शानच् इत्यादेशौ विकल्पेन भवतः। द्वितीयादिविभक्तिभिः समानाधिकरणे
नित्यं भवतः । यथा - देवदत्तः पचति, अत्र विकल्पेन शतृ शानच् च भवतः, तेन "देवदत्तः
पचति" अथवा "देवदत्तः पचन्" ("देवदत्तः पचमानः") इति। एवं
च "देवदत्तेन पचता" "देवदत्तेन पचमानेन" इत्येव न तु "देवदत्तेन पचति" "देवदत्तेन
पचते" वा॥
एवं
च प्रथमासमानाधिकरणे विकल्पः, अप्रथमासमानाधिकरणे नित्यम् इति सिद्धम्॥
_______
1 comment:
Excellent.
Post a Comment