Sunday, September 11, 2016

पाकयज्ञाः पञ्च​

औपासनयज्ञः

उपास्यते इति उपासनः=गृह्यः अग्निः, तत्र भवः औपासनः। एषः प्रतिदिनं प्रातः सायं च करणीयः गृहस्थकर्तव्यहोमविशेषः। एषः होमः नित्यः नूनं कर्तव्यः एव​। उक्तं च गर्गेण -
यथा स्नानं यथा सन्ध्या वेदस्याध्ययनं यथा । 
तयैवौपासनं कार्य्यं न स्थितिस्तद्वियोगतः । 
यो हि हित्वा विवाहाग्निं गृहस्थ इति मन्यते । 
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ।
वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत् । 
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति॥ इति।
एतेन एतस्य होमस्य महत्त्वं प्रतीयते। एतेन विना गृही प्रायश्चित्ती एव भवति। पुनश्च अग्निहोत्रस्य प्रशंसाऽपि दृश्यते । तद्यथा हारीतस्मृतौ -
नाग्निहोत्रात्परो धर्मो नाग्निहोशात्परं तपः ।
नाग्निहोत्रात् परं श्रेयो नाग्निहोत्रात् परं यशः ॥
नाग्निहोत्रात्परासिद्धिर्नाग्निहोत्रात्परा गतिः ।
नाग्निहोत्रात्परं स्थानं नाग्निहोत्रात् परं व्रतम् ॥

वैश्वदेवम्

वैश्वदेवे विश्वे देवाः (आ.गृ.सू.७-२९) इति आपस्तम्बसूत्रम्। वैश्वदेवमिति कर्मनामधेयम्। अत्र विश्वे देवाः देवता। अत्र "विश्वेभ्यो देवेभ्यः" इति सङ्कल्प्य गृहस्थेन स्वगृहे क्रियमाणः पाकयज्ञः अयम्। तं च होमं कर्त्ता पूर्व्वाभिमुखः शुचिरुपवीती कुशहस्तः कुशासनोपविष्टः कर्त्ता घृताक्तं दुग्धाक्तं तैलाक्तं जलाक्तम् अन्नम् आमान्नं वा फलं जलं वा जुहुयात् । वैश्वदेवान्नशेषमेव भुञ्जीत गृहस्थः।

पार्वणम्

इदं प्रतिपर्व अनुष्ठीयमानं पितृसम्बन्धि कर्म​। "अपरपक्षे पैत्र्याणि" (आ.गृ.सू.१.७) इत्युक्तत्वात् इदं कर्म परपक्षे क्रियमाणं भवति । सामान्यतया पञ्च पर्वाणि। तनि च 
चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । 
पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ इति विष्णुपुराणम्।
अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम् । 
क्रियते वा पर्वणि यत् तत्पार्वणमिति स्मृतिः॥ इति च पुराणवचनम्। अत एव "पार्वणहोमविधानेन करिष्ये" इति वार्षिकश्राद्धेषु सङ्कल्पः क्रियते। इदमपि गृहस्थेन अनुष्ठेयं कर्म​।

अष्टका

एषः अपि पाकयज्ञविशेषः। इदमपि कर्म पितृसम्बन्धि एव​। मासिश्राद्धाख्यस्य प्रकृतेः विकृतिभूतम् इदं कर्म​। एअतस्य कर्मणः अनुष्ठानकालः भवति - "या माघ्याः पौर्णमास्या उपरिष्टाद्या ह्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते" (आ.गृ.सू.२१.१०) । प्रतिसंवत्सरं क्रियमाणः पितृयज्ञः। अर्थात् माघमासे कृष्णपक्षे ज्येष्ठानक्षत्रयुता अष्टमी, तस्यां कार्यम् इदं कर्म​। अयुक्तायामपि ज्येष्ठायाम् अष्टम्यां कार्यमिदं कर्म​।

मासिश्राद्धम्

इदं पित्र्यं कर्म मासि मासि क्रियमाणम्। इदं पार्वणहोमविधिना एव क्रियते । तस्य कालः "मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः" (आ.गृ.सू.२१.१)। अर्थात् सर्वेषु कृष्णपक्षस्य अहस्सु क्रियमाणं पैतृकं श्राद्धरूपं कर्म इदम्। अस्मिन् कर्मणि मुख्यं कार्यं ब्राह्मणभोजनम्। ते च ब्राह्मणाः कथं भवेयुः इति उच्यते "शुचीन्मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्मांस्त्र्यवराननर्थावेक्षो भोजयेत्" (आ..गृ.सू.२१.२)। अर्थात् शुद्धाः, वेदाध्ययनेन सम्पन्नाः, योन्या गोत्रेण च असम्बन्धाः, याज्ययाजकाध्येत्रध्यापयितारः, विषमसङ्ख्याकाः, न्यूनातिन्यूनं त्रयः, दृष्टप्रयोजनं न प्रतीक्षमाणाः ब्राह्मणाः भोजनीयाः। अत्र अन्नहोमः, आज्यहोमः, अन्नाभिमर्शनम् इत्यादि कार्यं एतदङ्गतया क्रियते।

सर्पबलिः

सर्पबलिः नाम इदं कर्म सर्पेभ्यः बलिदानरूपम्। एतस्य कालः विधिः च बोधायनेन उक्तौ। तद्यथा - 
१. वलिहरणानुकृतिरेव सर्पबलिः २. संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा वर्षास्वाश्रेषाषु क्रियेत ३. अपां समीपे वल्मीक्राग्रेण वा पचनम् ४. गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य चित्रास्सुमनसस्सम्प्रकीर्य यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वा ऽऽज्येनेक्षुरसेन वा पक्त्वा पायसं घृतपक्वांश्च अपूपानोदनं धानास्सक्तून्करम्भान्लाजानित्युपकिरन्ति नमो अस्तु सर्पेभ्यः इति तिसृभिरनुच्छन्दसम् ५. सर्पेभ्यस्स्वाहा ऽऽश्रेषाभ्यस्स्वाहा दन्दशूकेभ्यस्स्वाहा इति त्रयस्स्वाहाकाराः ६. जीर्वरो ग्रहपतिरध्वर्युर्धृताराष्ट्र ह्ह्रावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो मैत्रावरुणः तक्षको शालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ नेष्टापोतारौ वारुणो होता ऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो महेयस्सुब्रह्मण्यो ऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्चे त्येतैरेव नामधेयैः समीची नामासि प्राची दिकिति षड्भिः पर्या यैः हेतयो नाम स्थ तेषां वः पुरो गृहाः इति षड्भिः इदं सर्पेभ्यो हविरस्तु जुष्टमिति चोपस्थानम् ७. त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्य आशिषो वाचयित्वा ८. व्याख्यातस्सर्पबलिर्व्याख्यातस्सर्पबलिः ।
अस्मिन् कर्मणि विविधपिष्टादिकं सर्पेभ्यः दीयते॥

ईशानबलिः

"ईश ऐश्वर्ये इति धातोः निरतिशयमैश्वर्य यस्य सः ईशानः = प्रणवोपासनादिभिरुपास्यः ईश्वरः इत्यर्थः । तस्मै ईशानाय स्थालीपाकं होमादिभ्यः पर्याप्तं पार्वणवदौपासने श्रपयित्वा प्रतिष्ठिताभिघारणान्तं करोति" इति आपस्तम्बसूत्रव्याख्याने सुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने। तथा च ईशानाय दीयमानः बलिः इति सिद्धम्। इदं कर्म ग्रामात् बहिः प्राच्याम् उदीच्यां वा स्थण्डिलादिकल्पनपूर्वकं क्रियमाणं भवति॥

इत्थं इमे च पञ्च पाकयज्ञाः नित्याः गृहस्थैः करणीयाः॥

********

No comments: