Monday, May 18, 2015

वात्यापुरेश्वरीस्तोत्रम् - १

वात्यापुरेश्वरीस्तोत्रम् - १

करुणामृतरसपूरितनयनाम्बुजयुगले
शरणागतपरिपालननिपुणे पुरुकरुणे ।
परिवर्तनपुरवर्तिनि महिषार्द्दिनि महिते
सहसम्मदमिह जागृहि शुभदे हरिसहजे ॥

पदच्छेदः

करुणामृतरसपूरितनयनाम्बुजयुगले, शरणागतपरिपालननिपुणे, पुरुकरुणे,
परिवर्तनपुरवर्तिनि, महिषार्द्दिनि, महिते, सहसम्मदम्, इह, जागृहि, शुभदे, हरिसहजे ॥

अन्वयः

करुणामृतरसपूरितनयनाम्बुजयुगले, शरणागतपरिपालननिपुणे, पुरुकरुणे,
परिवर्तनपुरवर्तिनि, महिषार्द्दिनि, महिते, शुभदे, हरिसहजे, इह, सहसम्मदम्, जागृहि ॥

प्रतिपदार्थः

करुणामृतरसपूरितनयनाम्बुजयुगले = दयारूपम् अमृतं तद्रसपूर्णनेत्ररूपकमलद्व्ययुक्ते, शरणागतपरिपालननिपुणे = शरणम् आगतानां रक्षणे समर्थे, पुरुकरुणे = प्रचुरदयायुते, परिवर्तनपुरवर्तिनि = वात्यापुरनिवासिनि, महिषार्द्दिनि = महिषनामकासुरस्य मर्दिनि, महिते = पूजनीये, शुभदे = कल्याणदात्रि, हरिसहजे = विष्णोः सोदरि, इह = अत्र​, सहसम्मतं = सम्मतेन साकं, जागृहि = उत्तिष्ठ ॥

तात्पर्यम्

हे दयारूपामृतरसपूर्णन्त्रकमलयुते शरणगतानां रक्षणे समर्थे प्रचुरदयायुते वात्यापुरवासिनि महिषासुरमर्दिनि पूजनीये कल्याणकारिणि विष्णोः सहोदरि, अत्र सम्मतेन साकम् उत्तिष्ठ ॥

हिन्दी

हे करुणा रूप अमृत रस पूर्ण नेत्रकमल वाली, शरण में आये लोगों कीरक्षा करने में अत्यन्त समर्थ​, अतिकरुणे, वात्यापुरिनामक गांव में निवासकरनेवाली, महिष नामक असुर का वध करनेवाली, पूज्ये, कल्याण करनेवाली, विष्णु की सोदरी , आप यहां पर अपनी सम्मति के साथ उठो ॥

विशेषः

करुणामृतरसपूरितनयनाम्बुजयुगले, शरणागतपरिपालननिपुणे, पुरुकरुणे,
परिवर्तनपुरवर्तिनि, महिषार्द्दिनि, महिते, सहसम्मदम्, इह, जागृहि, शुभदे, हरिसहजे
१) करुणामृतरसपूरितनयनाम्बुजयुगले = करुणा एव अमृतं, तद्रसेन पूरितं नयनाम्बुजयुगलं यस्याः सा = करुणामृतरसपूरितनयनाम्बुजयुगला, तस्य पदस्य सम्बोधनम् । नयनम् एव अम्बुजं, तयोः युगलम् ।
२) शरणागतपरिपालननिपुणे = शरणागतानां परिपालनं = शरणागतपरिपालनं, शरणागतपरिपालने निपुणा या सा = शरणागतपरिपालननिपुणा, तस्य पदस्य सम्बोधनम् ।
३) पुरुकरुणे = पुरुः करुणा यस्याः सा = पुरुकरुणा, तस्य सम्बोधनम् । पुरु शब्दः प्रचुरार्थे त्रिलिङ्गकः । पॄभिदिव्यधिगृधिधृषिभ्यः (उ.१-२४) इति सूत्रेण पॄ पूर्तौ (क्र्यादिः परस्मैपदी सकर्मकः सेट्) इति धातोः क्-प्रत्ययः । उ इत्येव अवशिष्यते । पॄ+उ  इति स्थिते उदोष्ठ्यपूर्वस्य (७-१-१०२) इति उत्वं तस्य उरण्रपरः (१-१-५१) इति रपरत्वम् . तेन पुरु इति सिद्धम् ।
४) परिवर्तनपुरवर्तिनि - परिवर्तनपुरे वर्तिनी । वात्यापुरनिवासिनी इत्यर्थः ।
५) महिषार्द्दिनि = महिषस्य अर्द्दिनी = महिषार्द्दिनी, तस्य सम्बोधनम् ।
६) महिते = मह पूजायाम् इत्यस्माद् धातोः मतिबुद्धिपूजार्थेभ्यश्च (३-२-१८८) इति सूत्रेण क्त​-प्रत्यये स्त्रीत्वे महिता इति, तस्य सम्बोधनम् ।
७) जागृहि = जागृ निद्राक्षये (अदादिः परस्मैपदी अकर्मकः सेट्) लोट् मध्यमपुरुष​-एकवचनम् ।
८) शुभदे = शुभं ददाति इति शुभदा, तस्य सम्बोधनम् ।
९) हरिसहजे = हरेः सहजा = हरिसहजा, तस्य सम्बोधनम् ॥

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

Hey lotus-eyed Durga, abundant with grace Protecting ably anyone who has taken your refuge Compassion personified & residing in this Vatyapuri community
Slayer of demon Mahisha for the welfare of the whole humanity
Worshipful sister of Vishnu, rise on your own to bless us all.


(Translation in prose order by Muddassir Ahmad @muddassirahmad7)

O one with pair of lotus-orbs filled with compassion's juice! O one proficient in protecting her supplicants! O compassion personified! O patroness of Vātypura! O slayer of Demon Mahisha! O venerable one! Superintend here with your own regard, O benevolent sister of Hari!


******

No comments: