Wednesday, May 6, 2015

गुरुवायुपुरेशसुप्रभातम् -४

गुरुवायुपुरेशसुप्रभातम् -४

सन्मानसप्रतिमपुण्यसरोनिमग्ना निर्माल्यदर्शनसुखानुभवैकतृष्णाः
त्वन्मन्दिराजिरमिमे मनुजाः प्रपन्नाः श्रीमारुताधिप हरे तव सुप्रभातम्

पदच्छेदः अन्वयः

सन्मानसप्रतिमपुण्यसरोनिमग्नाः, निर्माल्यदर्शनसुखानुभवैकतृष्णाः, त्वन्मन्दिराजिरम्, इमे, मनुजाः, प्रपन्नाः, श्रीमारुताधिप, हरे, तव, सुप्रभातम्

प्रतिपदार्थः

सन्मानसप्रतिमपुण्यसरोनिमग्नाः = उत्तममानससरोवरसदृशपुण्यतडागे निमग्नाः, निर्माल्यदर्शनसुखानुभवैकतृष्णाःप्रभाते भगवतः कृष्णस्य निर्माल्यसेवया प्राप्यमानसुखरूप​-अनुभवमात्रपिपासया युक्ताः, त्वन्मन्दिराजिरम्तव मन्दिरस्य चत्वरे, इमे = एते, मनुजाः = भक्ताः,
प्रपन्नाः = शरणं गताः (सन्ति) श्रीमारुताधिप = वायोः अधीश​, हरे = विष्णो, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः)

तात्पर्यम्

मानससरोवरेण तुल्यः तव पुण्यसरोवरः तत्र स्नाताः, तव प्रभातकालिकदर्शनं निर्माल्यम् इति प्रथितं दर्शनं विधाय तेन प्राप्यमाण​सुखानुभवमात्रपिपासया युक्ताः तव मन्दिरस्य प्राङ्गणे एते मनुष्याः भक्ताः शरणं गताः सन्ति अतः हे वायोः अधीश​, विष्णो तव सुप्रभातं व्याहराम: (त्वम् उत्तिष्ठ एतेषां भक्तानां दर्शनं दातुम्)

हिन्दी

आप के तडाग मानस सरोवर के तुल्य है, उस में नहाकर​, आपके प्रभात कालीन सेवा निर्माल्य के नाम से प्रसिद्ध के दर्शन से प्राप्यमाण अनुभव की पिपासा से युक्त​, आप के मन्दिर के प्राङ्गण में ये सभी भक्त शर आये हुए हैं अतः हे वायु के ईश​, विष्णो, आप का सुप्रभात करते हैं (आप उठिए इन भक्तों को दर्शन देने के लिए)

विशेषः

) सन्मानसप्रतिमपुण्यसरोनिमग्नाः = सत् (प्रशस्तं) मानसं = सन्मानसं, सन्मानसेन प्रतिमः (सदृशः - प्रतिमशब्दः उत्तरपदत्वेन यत्र भवति तदा अस्य अर्थः भवति सदृशः इति, "स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः" इति हेमचन्द्रः), सन्मानसप्रतिमः, तादृशं पुण्यसरः = सन्मानसप्रतिमपुण्यसरः, तत्र निमग्नाः = सन्मानसप्रतिमपुण्यसरोनिमग्नाः अर्थात् गुरुवायूरुमन्दिरस्य बहिः विद्यमाने मानससरोवरतुल्यतडागे स्नानं विधाय ये तिष्ठन्ति ते इति
) निर्माल्यदर्शनसुखानुभवैकतृष्णाः = निर्माल्यस्य दर्शनं = निर्माल्यदर्शनं, निर्माल्यदर्शनस्य सुखं = निर्माल्यदर्शनसुखं, तस्य अनुभवः = निर्माल्यदर्शनसुखानुभवः, तन्मात्रस्य तृष्णा येषां ते = निर्माल्यदर्शनसुखानुभवैकतृष्णाः अत्र निर्माल्यशब्देन तन्नाम्ना प्रसिद्धं प्रभातकालिकं भगवतः श्रीकृष्णस्य दर्शनम् उच्यते अस्मिन् दर्शने भगवान् पूर्वदिवसीयेन अलङ्कारेण (पूर्वस्मिन् दिवसे समर्पिताभिः मालाभिः) दर्शनं ददाति किञ्च भगवते समर्पितम् तद् विसर्जनात् परं विद्यमानं द्रव्यं निर्माल्यम् इति उच्यते भगवते समर्पणात् पूर्वं नैवेद्यम् इति नाम विसर्जनात् परं निर्माल्यम् इति नाम तदुक्तं गरुडपुराणे "अर्वाक् विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् "
) त्वन्मन्दिराजिरम् = तव मन्दिरं = त्वन्मन्दिरं ,तस्य अजिरं = त्वन्मन्दिराजिरम् अजिरं नाम चत्वरं प्राङ्गणं वा
) श्रीमारुताधिप = मारुतस्य (वायोः) अधिपः (ईशः) = मारुताधिपः, मरुत् एव मारुतः तस्य अधिपः अथवा मरुतः इदं (क्षेत्रं) मारुतं वायुक्षेत्रम् इति तस्य अधिपः

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

Pilgrims devout take a dip in your temple pond
Equals in fame the great ManasaSarovar yonder
The Great Lake created by Brahma atop Himalayas
For your devotees here in Guruvayur Alaya
They are waiting in the wee hours of morn
To worship you in your last nightly form
Called ‘Nirmaalya’,the blemishless
All assembled in your forecourt restless
Vishnu, God of Winds, all sing in your praise

Grant us all your divine sight, graciously rise.


********

No comments: