वात्यापुरेश्वरीसुप्रभातम् - ७
स्रष्टारमाशु चकृषे जगतीहितार्थम् स्वस्थं तदैव मधुकैटभमर्दनेन ।
तत्तादृगद्भुतदयामयि योगमाये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥
पदच्छेदः
स्रष्टारम् आशु चकृषे जगतीहितार्थं स्वस्थं तदा एव मधुकैटभमर्दनेन तत्तादृगद्भुतदयामयि योगमाये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥
अन्वयः
मधुकैटभमर्दनेन तदा एव स्रष्टारं जगतिहितार्थम् आशु स्वस्थं चकृषे तत्तादृगद्भुतदयामयि योगमाये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥
प्रतिपदार्थः
मधु-कैटभमर्दनेन = मधु-कैटभयोः विनाशनेन, तदा एव = तत्क्षणे एव, स्रष्टारं = ब्रह्माणं, जगतीहितार्थं = लोककल्याणाय, आशु = झटित्, स्वस्थं = निश्चिन्तं, चकृषे = कृतवती । तत्तादृगद्भुतदयामयि = तादृशप्रभावशालिनि दयास्वरूपिणि, योगमाये = योगमायारूपिणि, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभ्प्रभातं (व्याहरामः) ॥
विशेषः
१) चकृषे = कृ-धातोः लिटि मध्यमपुरुष-एकवचनम् ।
२) जगतीहितार्थं = जगत्याः हितार्थं जगतीहितार्थम् ।
३) मधु-कैटभमर्दनेन = मधु-काभयोः मर्दनं, तेन ।
४) तत्तादृगद्भुतदयामयि = तस्याः तादृक् = ततादृक्, तत्तादृक् च अद्भुतदयामयी च = तत्तादृगब्धुतदयामयी, तस्य सम्बोधनम् ।
५) योगमाया = योगः एव माया = योगमाया, विष्णुमायारूपिणी, या जगस्रष्टौ शक्तिरूपेण उपतिष्ठते । अत्र विष्णोः योगनिद्रारूपिणी योगमाया इत्यर्थः ।
६) एषः श्लोकः पूर्वश्लोकस्य अनुवर्तनरूपः । तत्र आरब्धः प्रसङ्गः अत्र समापितः ॥
तात्पर्यम्
मधुकैटभयोः विनाशनेन ब्रह्माणं स्वशं कृतवती, लोककल्याणाय इदं कार्यं कृतम् । तादृशाद्भुतया दयया युक्ते, योगमाये, वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥
हिन्दी
लोक कल्याण के लिए मधु और कैटभ नामक के दोनों असुरों को मरकर ब्रह्मा को स्वश किया । उस प्रकार की अद्भुत दया से युक्त, योगाअये, वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥
Translation by Brahmasri Ganeshan @vezhamukhan
(Translation by Muddassir Ahmad @muddassirahmad7)
(Translation by Muddassir Ahmad @muddassirahmad7)
You at once cured the creator, Brahmā (from his anxiety), by slaying Madhu and Kaiṭbha for well-being of the world. O such gracious driving force of the world(yogamāya)! O Lady of Vātyapura, the Benignant! Good Morning to you!
******
No comments:
Post a Comment