Sunday, May 3, 2015

धिग्-योगे द्वितीया

कर्मणि द्वितीया (२-३-२) इति सूत्रम् । तत्र भाष्यकारः –
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥
इति श्लोकरूपं वार्त्तिकम् (केचन भाष्यकारस्य इयं इष्टिः इति । भाष्यकारस्य वचनम् इष्टिः इति उच्यते ।) अवतार्य "धिग्-योगे - धिग् जाल्मं, धिग् वृषलम्" इत्येव उदाहरति । अतः धिग्-योगे द्वितीया विभक्तिः एव इति निश्चितम् । परन्तु सम्बोधने प्रथमा एव धिग्-योगे अपि । यथा - धिङ् मूर्ख (धिक् मूर्ख इति यदि सन्धिः न क्रियते) । धिङ् मूढ । किं कारणम्? सम्बोधनप्रथमायाः अन्वयः क्रियापदेन एव भवति न तु धिक्-पदेन । यथा - मूर्खसम्बोधनरूपनिषिद्धारणस्य निन्द्यता इति क्रियापदेन अन्वये बोधः जायते । एवं च अत्र धिक्-पदेन "हे मूर्ख​!" इत्यस्य अन्वयः नास्ति । तस्मात् सम्बोधनप्रथमा एव भवति । यत्र दिक्-पदेन अन्वयः तत्र एव द्वितीया । यत्र क्रियापदेन अन्वयः तत्र न द्वितीया । तस्मात् सम्बोधनप्रथमा एव भवति ॥

परन्तु कुत्रचित् "धिक्-पदेन योगे प्रथमा विभक्तिः अपि दृश्यते । यथा पञ्चतन्त्रे - धिग् इयं दरिद्रता" इति प्रयोगः । अत्र सम्बोधनं नास्ति, अतः द्वितीया एव भवेत् । परन्तु प्रथमा दृश्यते । एतादृशप्रयोगाः कथञ्चित् समर्थनीया: - "अन्यत्रापि दृश्यते" इति उक्त्या ॥

एवं च धिक्-पदेन योगे द्वितीया, धिक्-पदस्य क्रियापदेन अन्वये सम्बोधनप्रथमा, क्वचित् प्रथमा अपि इति निर्णयः ॥
  

हिन्दी में विवरण

सार रूप में कहना है तो "धिक्" इति पद के साथ जो भी सुबन्त होगा वह द्वितीया विभक्ति में ही होगा । जैसे - धिक् लज्जाहीनम्, धिक् तीव्रवादिनम्, धिक् भ्रष्टाचारिणम्, धिक् रावणम् ॥

और यदि "धिक्" इति पद के साथ सम्बोधन प्रथमा विभक्ति कोई परिवर्तन नहीं प्रप्त करेगी । अर्थात् धिक् इति पद के साथ सम्बोधन प्रथमा विभक्ति वैसे ही रहेगी ॥

कभी कभी धिक्-पद के साथ प्रथमा विभक्ति भी दिखाई देती है । जैसे "धिक् इयं दरिद्रता" । जैसे तैसे इस का समर्थन करना पडेगा "अन्यत्रापि दृश्यते" इति वचन से ॥

तथा च "धिक्" पद के साथ द्वितीया, प्रथमा और सम्बोधन प्रथमा हो सकती हैं ॥


******

No comments: