Monday, May 11, 2015

गुरुवायुपुरेशसुप्रभातम् - १०

गुरुवायुपुरेशसुप्रभातम् - १०

सुरुचिररुचिरम्या काल्यवेलाङ्गनेयं
निरुपमकरुणं त्वां राधिकावत्प्रपन्ना ।
कुरु सदयमिहास्यां केशवापाङ्गवीक्षां
सुरगुरुपवनागारेश ते सुप्रभातम् ॥

पदच्छेदः

सुरुचिररुचिरम्या, काल्यवेलाङ्गना, इयं, निरुपमकरुणं, त्वां, राधिकावत्, प्रपन्ना, कुरु, सदयम्, इह​, अस्यां, केशवापाङ्गवीक्षां, सुरगुरुपवनागारेश, ते, सुप्रभातम् ॥

अन्वयः

सुरुचिररुचिरम्या इयं काल्यवेलाङ्गना राधिकावत् निरुपमकरुणं त्वां प्रपन्ना इह अस्यां केशवापाङ्गवीक्षां सदयं कुरु । सुरगुरुपवनागारेश, ते, सुप्रभातम् ॥

प्रतिपदार्थः

सुरुचिररुचिरम्या = अतिमनोहरशोभायुतारात्रिः, इयं = असौ, काल्यवेलाङ्गना = प्रत्यूषकालरूपा कामिनी, राधिकावत् = राधिका इव​, निरुपमकरुणं = असीमदयापरंत्वां = भवन्तं, प्रपन्ना = शरणं गता, इह = अस्मिन् काले (देशे वा), अस्यां = एतस्यां प्रत्यूषवेलायां, केशवापाङ्गवीक्षां = शक्तित्रयाख्य​-नेत्रकोणेन कटाक्षं, कुरु = कुरुतात् । सुरगुरुपवनागारेश = हे बृहस्पति-वायु-पुराधीश​, ते = तव, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥

तात्पर्यम्

अत्यन्तं मनोहरा शोभायुता इयं प्रभातकालिकी रात्रिरूपा कामिनी यथा राधिका त्वां शरणं गता तथा असीमदयापरं त्वां शरणं गता वर्तते । अस्मिन् समये एतस्याः उपरि शक्तित्रयाख्यनेत्रमणिदर्शनेन कृपां कुरु । अर्थात् प्रभातवेला आगता त्वम् उत्तिष्ठ इति । हे गुरुवायुपुराधीश तव शुभप्रभातं व्याहरामः ॥

हिन्दी

अति मनोहर शोभा से युक्त यह प्रभात काल की रात्रि जैसे राधिका आप के शरण में आई वैसे यह भी असीम दयापर आप के शरण में आई है, इस सुन्दरी पर अपना कृपा दृष्टि रखें । तात्पर्य है कि प्रभात काल आ गया है, आप उठो । हे गुरुवायुपुर के अधीश आप को शुभ प्रभात कहते हैं ॥

विशेषः

१) अस्मिन् श्लोके कविः स्वीयकवितासौन्दर्यं दर्शयति । प्रभातवेलाम् सुन्दरी इव संवर्ण्य भगवन्तम् उत्थापयति ।
२) सुरुचिररुचिरम्या = शोभना च रुचिरा = सुरुचिरा, सुरुचिरायाः (रा च​) रुचिः = सुरुचिररुचिः, सुरुचिररुच्या रम्या = सुरुचिररुचिरम्या । इदं काल्यवेलाङ्गना इत्यस्य विशेषणम् ।
३) काल्यवेलाङ्गना = काल्यं = उषस्, वेला = कालः, अङ्गना = सुन्दरी । काल्यस्य वेला = काल्यवेला, काल्यवेला एव अङ्गना = काल्यवेलाङ्गना ।
४) निरुपमकरुणं  = निर्गता उपमा  = निरुपमा, अर्थात् उपमारहिता इति, निरुपमा करुणा यस्य सः = निरुपमकरुणः तं = निरुपमकरुणम्, अर्थात् यस्य करुणायाः उपमा एव नास्ति तादृशकरुणायुक्तः इति ।
५) राधिकावत् = राधिका इव = राधिकावत् ।
६) सदयम् = दयया सह = सदयम् ।
७) केशवापाङ्गवीक्षां = केशवः = विष्णुः । अस्य केशवशब्दस्य बहुधा व्युत्पत्तिः । १) केशाः प्रशस्ताः सन्ति अस्य = केशवः, केशाद्वोऽन्यतरस्याम् (५-२-१०८) इति सूत्रेण । २) शङ्करभगवत्पादैः इत्थं व्युत्पत्तिः दर्शिता विष्णुसहस्रनामभाष्ये - कश्च अश्च ईशश्च केशाः त्रिमूर्त्तयः ते वशे वर्त्तन्ते यस्य सः इति । ३) केशं (केशिनामकं दैत्यं) वाति (हन्ति) इति केशवः । ४) हरिवंशे इत्थं दर्शिता व्युत्पत्तिः - को ब्रह्मेति समाख्यातः ईशोऽहं सर्वदेहिनाम् । आवां तवांशसम्भूतौ तस्मात् केशवनामवान् ॥ इति । ५) महाभारते तावत् केशाः = अंशवः (सूर्यादिनां) सन्ति अस्मिन् इत्यर्थे मत्वर्थीये व​-प्रत्यये केशवः इति, तद्यथा - अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः । सर्वज्ञाः केशवं तस्मात् प्राहुः मां द्विजसत्तमाः ॥ इति । तथा च शक्तित्रयस्य अपाङ्गवीक्षा = केशवनेत्रमणिकटाक्षः ॥

ENGLISH
(Translation by the Great Scholar & Linguist Brahmasri Ganeshan @vezhamukhan)

Just as Radhika has embraced You as Your nightly queen Usha, the goddess of Dawn is here bright & serene 
At your feet seeking refuge in You Keshava for Your divine sight
To fall on her and us,HeyGuruvayurappa,now we all wait
*******

No comments: