Tuesday, May 19, 2015

॥ द्रक्ष्यति रूपसिद्धिः ॥


दृशिर् प्रेक्षणे इति धातोः "लृट् शेषे च" (३-३-१३) इति सूत्रेण लृट् । दृशिर्+लृट् इति स्थिते "इर इत्संज्ञा वाच्या" इति वार्तीकेन दृशिर् इत्यत्र इर् इत्यस्य इत्संज्ञा, "तस्य लोपः" (१-३-९) इति लोपः । दृश्+लृट् इति स्थिते, "उपदेशेऽजननुनासिक इत्" (१-३-२) इति ऋकारस्य इत्संज्ञा, "हलन्त्यम्" (१-३-३) इति ट् इत्यस्य इत्संज्ञा, "तस्य लोपः" (१-३-९) इति लोपः । दृश्+ल् इति स्थिते "तिप्तस्झि..."(३-४-७८) इति सूत्रेण ल्-थाने तिप् । दृश्+तिप् इति स्थिते "हलन्त्यम्" (१-३-३) इति सूत्रेण प् इत्यस्य इत्संज्ञा, "तस्य लोपः" (१-३-९) इति लोपः । दृश्+ति इति स्थिते "स्यतासी लृलुटोः" (३-१-३३) इति सूत्रेण "स्य" भवति । दृश्+स्य​+ति इति स्थिते "सृजिदृशोर्झल्यमकिति" (६-१-५८) इति अम् इति आगमे, "मिदचोऽन्त्यात्परः" (१-१-४७) इति सूत्रेण दृश् इत्यस्य ऋकारात् परम् अम् भवति । दृ+अम्+श्+स्य​+ति इति स्थिते "हलन्त्यम्" (१-३-३) इत्यनेन अम् इत्यत्र म् इत्यस्य इत्संज्ञायां, "तस्य लोपः" (१-३-९) इत्यनेन म् इत्यस्य लोपः । दृ+अ+श्+स्य​+ति इति स्थिते "इको यणचि" (६-१-७७) इत्यनेन यण् आदेशे, द्र​+श्+स्य​+ति इति स्थिते "व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः" (८-२-३६) इति सूत्रेण श् इत्यस्य ष् इति आदेशः । द्र​+ष्+स्य​+ति इति स्थिते, "षढोः कः सि" (८-२-४१) इति सूत्रेण ष् इत्यस्य क् इति आदेशः । द्र​+क्+स्य​+ति इति स्थिते, "आदेशप्रत्यययो:" (८-३-५९) इति सूत्रेण स्य इत्यत्र स् इत्यस्य ष् इति भवति । तथा च द्र​+क्+ष्+य​+ति = द्रक्ष्यति (अक्षराणां योजनेन​) इति रूपं सिद्धम् ॥

******

No comments: