Saturday, May 30, 2015

वात्यापुरेश्वरीसुप्रभातम् - १०

वात्यापुरेश्वरीसुप्रभातम् - १०

उच्चण्डवेगरणकर्मणि चण्डमुण्डौ
तं रक्तबीजमथ घोरतरं निसुम्भम् ।
हत्वाऽथ सुम्भममरैः परिगीतकीर्त्ते
वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥१०॥

पदच्छेदः


उच्चण्डवेगरणकर्मणि चण्डमुण्डौ तं रक्तबीजम् अथ घोरतरं निसुम्भं हत्वा अथ सुम्भम् अमरैः परिगीतकीर्त्ते वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


अन्वयः


उच्चण्डवेगरणकर्मणि चण्डमुण्डौ अथ रक्तबीजं घोरतरं तं निशुम्भम् अथ शुम्भं हत्वा अमरैः परिगीतकीर्त्ते वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥


प्रतिपदार्थः


उच्चण्डवेगरणकर्मणि = अत्युग्रे युद्धकार्ये, चण्डमुण्डौ = चण्ड​-मुण्डनामकौ शुम्भसेनानायकौ, अथ = अपि च​, रक्तबीजं = रक्तादुत्पन्नं, घोरतरं = भयानकं, तं = तादृशं, निशुम्भं = निशुम्भनामकम् असुरं च​, अथ = अपि च​, शुम्भं = शुम्भनामकम् असुरं, हत्वा = निहन्य​, अमरैः = देवैः, परिगीतकीर्ते = स्तुतयशस्के, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभप्रभातं (व्याहरामः) ॥


विशेषः


१) उच्चण्डवेगरणकर्मणि = उच्चण्डः वेगः, उच्चण्डवेगः रणः, उच्चण्डवेगरणः, तद्रूपं कर्म उच्चण्डवेगरणकर्म​, तस्य सप्तमी । उच्चण्डः = अत्युग्रः ।
२) चण्ड​-मुण्डौ = चण्डः मुण्डः च चण्डमुण्डौ । एतन्नामकौ असुरौ निशुम्भस्य सेनानायकौ आस्ताम् । एतौ दुर्गायाः ललाटात् निर्गतया शक्त्या नाशितौ । अत एव तस्याः शक्तेः चामुण्डा इति नाम प्रदत्तं दुर्गया । तद्यथा - "देव्याः ललाटनिष्क्रान्ताया कालीति च विश्रुता", यस्माच्चण्डञ्च मुण्डञ्च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि भविष्यति" इति कालिकापुराणे । चण्डः प्रचण्डः अत्युग्रवान् योद्धा इत्यर्थः । मुण्डः मुण्डम् एव अवयवः अस्य इति मत्वर्थीये "अ"प्रत्यये रूपम् । एतस्य केवलं शिरः एव अासीद् इति पौराणिकप्रसिद्धिः ।
३) रक्तबीजं = रक्तं शोणितं बीजं कारणम् अस्य रक्तबीजः । अर्थात् रक्ताद् उत्पन्नः एषः निशुम्भः इति पुराणकथा । एतस्य शरीराद् यदा रक्तबिन्दुः भूमौ पतति तदा प्रतिबिन्दु तादृशः एव असुर उत्पद्यते । तदा देव्या स्ववदनात् काञ्चित् शक्तिम् उत्पाद्य तद्द्वारा भूमौ पतितान् रक्तबिन्दून् पीत्वा रक्तबीजं जघान । तदुपाख्यान यथा - पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यास्तत्प्रमाणस्तदासुरः ॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः । ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥
कुलिशेनाहतस्याशु तस्य सुस्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जातास्तद्बीर्य्यबलविक्रमाः ॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि । पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥
तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा । उवाच कालीं चामुण्डे ! विस्तरं वदनं कुरु ॥ मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता ॥ भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् । एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥ भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे । इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ मुखेन काली जगृहे रक्तबीजस्य शोणितम् । तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ यतस्ततस्तद्वक्त्रेण चामुण्डा संप्रतीच्छति । मुखे समुद्गता येऽस्या रक्तपातान्महासुराः । तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥ देवी शूलेन वज्रेण वाणैरसिभिरृष्टिभिः । जघान रक्तबीजं तं चामुण्डापीतशोणितम् ॥ स पपात महीपृष्ठे शस्त्रसंघसमाहतः । नीरक्तश्च महीपाल ! रक्तबीजो महासुरः ॥ ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ! । तेषां मातृगणो जातो ननर्त्तासृङ्मदोद्धतः ॥ इति मार्कण्डेयपुराणे रक्तबीजवधवर्णनम् । महिषासुरस्य पिता रम्भ इत्याख्यः एव जन्मान्तरे रक्तबीजरूपेण जन्म अलभत इति देवीमाहात्म्ये श्रूयते ।
४) शुम्भः निशुम्भः = एतौ असुरौ महाबलौ आस्ताम् । अग्रजः शुम्भः अनुजः निशुम्भः । एतौ देव्या हतौ । तदुपाख्यानं मार्कण्डेयपुराणे, कालिकापुराणे, देवीमाहात्म्ये च द्रष्टव्यम् ।
५) परिगीतकीर्ते = परिगीता कीर्तिः यस्याः सा = परिगीतकीर्तिः, तस्य सम्बोधनम् ॥

तात्पर्यम्

अत्युग्रयुद्धे चण्ड​-मुण्डौ नामकौ शुम्भसेनानायकौ, रक्तबीजनामकम् अपरं सेनापतिं, भयानकं शुम्भं निशुम्भं च हत्वा देवानां स्तुतेः पात्रम् अभवत् । हे वात्यापुरेशरि, भद्रे तव शुभ्प्रभातं व्याहरामः ॥

हिन्दी

अति घोर युद्ध में चण्ड एवं मुण्ड नामक शुम्भ के दो सेनानायकों को, रक्तबीज नामक और एक सेनानायक को, शुम्भ तथा निशुम्ह नामक असुरों को मारकर देवताओं की स्तुति के पात्र हुई । हे वात्यापुर की ईश्वरि, भद्रे हम आप को शुभ प्रभात कहते हैं ॥


(Translation by Brahmasri Ganeshan @vezhamukhan)

You killed Canda, Munda and Raktabeeja the fierce warlords of Shumbha the DemonThus becoming the object of prayer of all Gods, Hey VatyapureSvari, benign DivineWe sing Your Morning praise, kill such evil forces from our mind.


(Translation by Muddassir Ahmad @muddassirahmad7)


In extremely vehement battle by slaying Chand and Munda, then that Raktabīja and awful Nisumbha and then by finally killing Sumbha, you earned the glory sung by the Immortals, O Lady of Vātyapura, the benigant! Good Morning to you!

******

No comments: