वात्यापुरेश्वरीसुप्रभातम् – ६
दैत्यारिकर्णमलजौ मधुकैटभौ तौ दृष्ट्वाऽशु कातरधिया कमलासनेन ।
दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥
पदच्छेदः
दैत्यारिकर्णमलजौ मधुकैटभौ तौ दृष्ट्वा आशु कातरधिया कमलासनेन दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥
अन्वयः
दैत्यारिकर्णमलजौ तौ मधुकैटभौ दृष्ट्वा कमलासनेन कातरधिया आशु दिव्यैः स्तवैः परिणुते हरियोगनिद्रे वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥
प्रतिपदार्थः
दैत्यारिकर्णमलजौ = विष्णोः श्रोत्राद् उत्पन्नमलाद् उत्पन्नौ, तौ = तौ द्वौ, मधुकैटभौ = मधु-कैटभनामानौ, दृष्ट्वा = अवलोक्य, कमलासनेन = ब्रह्मणा, कातरधिया = भयबुद्ध्या, आशु = झटिति, दिव्यैः = श्रेष्ठैः, स्तवैः = स्तोत्रैः, परिणुते = वन्दिते, हरियोगनिद्रे = विष्णोः योगनिद्रास्वरूपिणि, वात्यापुरेश्वरि = वात्यापुरस्य ईश्वरि, शिवे = कल्याणि, तव = तुभ्यं, सुप्रभातं = शुभ्प्रभातं (व्याहरामः) ॥
विशेषः
१) दैत्यारिकर्णमलजौ = दैत्यारिः = विष्णुः (दैत्यानाम् अरिः), कर्णस्य (कर्णयोः) मलं = कर्णमलं, दैत्यारेः कर्णमलं = द्ऐत्यारिकर्णमलं, तस्मात् जातौ = दैत्यारिकर्णमलजौ ।
२) मधुकैटभौ = मधुः च कैटभः च = मधुकैटभौ । एतौ असुरविशेषौ । एतौ द्वौ असुरौ विष्णोः कर्णमलात् जातौ इति पुराणकथा । एतौ उत्पन्नौ विष्णोः नाभिकमले आसीनं ब्रह्माणं हन्तुम् उद्यतौ । तदानीं भगवान् योगनीद्रां परित्यज्य तौ जघनभागे संस्थाप्य नाशितवान् इति श्रूयते । तद्यथा मार्कण्डेयपुराणे - योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥ तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥ इति । विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभाविति इति देवीमाहात्म्ये च श्रूयते । यदा एतौ ब्रह्माणं हन्तुम् उद्यतौ तदा ब्रह्मा भीत्या आत्मनः रक्षणाय हरेः योगनिद्रारूपेण विद्यमानां त्वां दिव्यैः स्तोत्रैः स्तुतवान् । तेन एव सः रक्षितः ।
३) हरियोगनिद्रे = हरेः (विष्णोः) योगनिद्रा = हरियोगनिद्रा, तस्य सम्बोधनम् । हरे योगनिद्रारुपिणी दुर्गा वात्यापुरेश्वरी इति तात्पर्यम् ।
४) कातरधिया = कातरः भीतिः अधैर्यं वा । कातरधीः = भीतिबुद्धिः । तया ।
५) कमलासनेन = कमलम् आसनं यस्य सः = कमलासनः, तेन । ब्रह्मा इत्यर्थः ।
तात्पर्यम्
पुरा विष्णोः कर्णमलाद् द्वौ असुरौ मधु-कैटभनामानौ उत्पन्नौ । तौ ब्रह्माणं हन्तुम् उद्यतौ । तदा ब्रह्मा भीत्या विष्णोह् योगनिद्रारूपिणीं दुर्गाम् (वात्यापुरेश्वरीं) स्तुतवान् । तेनैव ब्रह्मा रक्षितः । ब्रह्मणः रक्षणकर्त्री वात्यापुरेश्वरी वर्तते । हे ईश्वरि, भद्रे, तव शुभप्रभातम् व्याहरामः, त्वम् उत्तिष्ठ ॥
हिन्दी
पुरा विष्णु के कान के मल से मधु और कैटभ नाम के दो असुर जन्म लिए । वे दोनों जब ब्रह्मा की हत्या करने के लिए तत्पर हुए, तब ब्रह्मा ने डर से विष्णु की योगनिद्रारूपिणी दुर्गा की स्तुति की । वही योगनिद्रा ब्रह्मा को बचाया । ऐसी ब्रह्मा को बचानेवाली हे वात्यापुरेश्वरि, भद्रे, आप का शुभ प्रभात कहते हैं, आप उठो ॥
(Translation by Brahmasri Ganeshan @vezhamukhan)
(Translation by Muddassir Ahmad @muddassirahmad7)
(Translation by Muddassir Ahmad @muddassirahmad7)
Upon seeing those two demons,named Madhu and Kaiṭabha, risen from earwax of Hari, the demons' foe the lotus-seated Brahmā, with fear, immediately evoked you with divine hymns,O meditative slumber of Hari! (Oh protector of that Brahmā!), Lady of Vātyapuri, the Benignant! Good Morning to you!
No comments:
Post a Comment