अनुमानविचारः
उपायहृदयः इति (बौद्ध)न्यायग्रन्थः वादलक्षणं विवृणोति ।
एतस्य कर्त्ता नूनं कश्चिद् उत्तमः नैयायिकः बहुशास्त्रवेत्ता इति ग्रन्थपठनेन
अनुमीयते । परन्तु कर्त्ता कः इति न ज्ञायते । अस्य ग्रन्थस्य प्रतिपाद्यं तावत्
वादधर्माणां विवरणम् एव । तद्यथा ग्रन्थकर्त्त्रा ग्रन्थस्य आरम्भे उच्यते –
एतद्वादावबोधेन वादधर्मावबोधनम् ।
विस्तरेण च गम्भीरोऽयमर्थोऽत्राभिधीयते ॥
उपायहृदयः इति नाम्नः मूलं न दृश्यते । परन्तु एतेन श्लोकेन
ग्रन्थकर्त्त्रा विहितं नाम वादावबोधः अथवा वादधर्मावबोधः स्याद् इति अनुमीयते । किञ्च "मयैष
सम्यग्वादः आरभ्यते" इति अग्रे ग्रन्थकृतः स्वीया उक्तिः, एतेन एतस्य
ग्रन्थस्य नाम "सम्यग्वादः" इत्यपि भवितुम् अर्हति ॥
अस्मिन् ग्रन्थे विविधप्रमाणानां विस्तरेण विवरणं दृश्यते ।
प्रकृते अनुमानप्रमाणं परिशीलयामः । प्रायः सर्वैः आस्तिक-नास्तिकदर्शनैः
अनुमानप्रमाणम् अङ्गीक्रियते चार्वाकदर्शनं विहाय । चार्वाकदर्शने प्रत्यक्षम्
एकम् एव प्रमाणम् अङ्गीक्रियते । किं नाम अनुमानम्? अनुमानशब्दे अनु+मान इति शब्दद्वयं वर्तते । अनु=पश्चात्, मानं=ज्ञानम् इति तात्पर्यम् । अर्थात् कस्यचिद्
ज्ञानात् परम् इदं ज्ञानं प्राप्यते । तथा च पूर्ववर्त्ति किञ्चिद् ज्ञानम्
आश्रित्य इदं ज्ञानं जायते इति कारणाद् एतस्य अनुमानम् इति नाम । अत्र किं पूर्ववर्त्ति
ज्ञानम्? तत् च प्रत्यक्षम्
इति प्रायः सर्वे अपि दर्शनिकाः अङ्गीकुर्वन्ति । एवं च अनुमानं प्रत्यक्षम्
आश्रित्य जायमानं ज्ञानम् इति स्पष्टम् ॥
एतस्य अनुमानस्य लक्षणविषये अपि प्रायः सर्वेषु दार्शनिकेषु
ऐकमत्यं दृश्यते । अनुमितिकरणम् अनुमानम् इति लक्षणम् । अर्थात् यद् अनुमितेः
(अनुमितिज्ञानस्य करणं = साधनं तद् अनुमानम् । तथा च येन अनुमितिः प्राप्यते तद्
अनुमानम् इति । तच्च द्विविधम् स्वार्थानुमानं,
परार्थानुमानम् इति तर्कसङ्ग्रहे । न्यायदर्शने तु पूर्ववत्, शेषवत्, सामान्यतोदृष्टम्
इति त्रिविधम् निरूपितम् । एषः न मतभेदः । परन्तु वर्गीकरणभेदः एव । तर्कसंग्रहे
अपि अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि इति त्रयः भेदाः अनुमानस्य
प्रकारान्तरेण दर्शिताः ॥
एतादृशस्य अनुमानस्य द्वौ आधारौ वर्तेते - व्याप्तिः, पक्षधर्मता च इति । का नाम व्याप्तिः? व्याप्तिः नाम पूर्वं यत् प्रत्यक्षं जातं, तस्य आधारेण द्वयोः वस्तुनोः अर्थात् साध्यस्य
साधकस्य च मध्ये यः नियतः
संबन्धः सा एव व्याप्तिः । यथा पूर्वं केनचित् पाकशालायां धूमः अग्निः च दृष्टौ ।
एवं बहुवारं दर्शनेन तस्य इदं ज्ञानम् अभवत् - यत्र यत्र धूमः तत्र तत्र अग्निः
इति । एतद् एव ज्ञानं व्याप्तिः इति उच्यते । पक्षधर्मता नाम का? पक्षे यः धर्मः तस्य भावः पक्षधर्मता । यथा
संक्षेपेण इत्थं वक्तुं शक्यते - पर्वते यत् धूमस्य प्रत्यक्षं जायते सा एव
पक्षधर्मता । अर्थात् व्याप्तिज्ञानेन पक्षधर्मतायाः ज्ञानेन च पर्वते अग्नेः
अनुमानं क्रियते । तेन पर्वतः अग्निमान् इति ज्ञानं प्राप्यते - तदेव अनुमितिः -
अनुमानेन जन्यं ज्ञानं भवति ॥
साधनेन साध्यस्य ज्ञानम् अनुमानम् इत्यत्र कस्यापि विरोधः
नास्ति । अनुमितिकरणम् अनुमानम् इति न्यायदर्शने । साधनात् साध्यज्ञानम् अनुमानम्
इति जैनग्रन्थे न्यायबिन्दुः इत्याख्ये । इदम् अनुमानं सामान्यतः
स्वार्थ-परार्थभेदेन द्विधा । स्वार्थानुमानस्य तु पूर्ववत् शेषवत्, सामान्यतोदृष्टम् इति त्रिधा भेदः ॥
एषः एव अस्माकं चर्चायाः विषयः । तत्र पूर्ववद् अनुमानं नाम
किम्? अत्र न्यायसूत्रे
कारणात् कार्यस्य अनुमानम् इति लक्षणं दर्शितम् । यदि कश्चित् मेघं दृष्ट्वा
पश्चाद् वृष्टिम् अपि पश्यति, स एव अपरस्मिन् काले
मेघाच्छन्नम् आकाशं दृष्ट्वा "नूनं वृष्टिः भविष्यति" इति अनुमानं करोति
। इदं पूर्ववद् भवति । अत्र न्यायबिन्दुकारः पर्वतः अग्निमान् धूमात् इति अनुमानम्
उदाहरति । अत्र उपायहृदयकारः विशिष्टं किञ्चिद् उदाहरणं प्रस्तौति । तद्यथा -
षडङ्गुलिं सपिडकमूर्धानं बालं दृष्ट्वा पश्चाद् वृद्धं बहुश्रुतं देवदत्तं
दृष्ट्वा षडङ्गुलिस्मरणात् सोऽयमिति पूर्ववत् । अर्थात् बाल्यावस्थायां दृष्टः
षडङ्गुलिविशिष्टः पिडकयुक्तः वृद्धावस्थायां षडङ्गुलिस्मरणेन, पिडकस्मरणेन च स एव एषः इति अनुमानं करोति तदेव
पूर्ववद् इति ॥
किं नाम शेषवद् अनुमानम्? अत्र "कार्येण कारणं यत्र अनुमीयते तत् शेषवत्" इति न्यायसूत्रे ।
उदाहरणं च दत्तं - पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा
स्रोतः अनुमीयते भूता वृष्टिरिति । अर्थात् कश्चित् पूर्वं नद्याम् अल्पं जलं
वेगहीनतां च दृष्टवान् । स एव पश्चात् तस्याम् एव नद्यां जलस्य पूर्णतां वेगं च
पश्यति । तदा अनुमानं करोति "नूनं वृष्टिः भूता" इति । अर्थात् अत्र
कार्येण (नद्याः पूर्णत्वेन वेगवत्त्वेन च) कारणम् (वृष्टिः) अनुमीयते । अत्र
न्यायबिन्दुकारः "येन पूर्वं विषाणविषाणिनोः संबन्धः उपलब्धः तस्य
विषाणरूपदर्शनाद् विषाणिनि (विषाणयुक्ते प्राणिनि) अनुमानं शेषवत्" इति
उदाहरणं दर्शयति । अर्थात् कश्चित् पूर्वं विषाणस्य तद्युक्तस्य च प्राणिनः दर्शनं
कृतवान् । यदा सः एव अन्यत्र विषाणं पश्यति चेत् तदितरेषाम् (शिष्टानाम्)
अवयवानाम् अथवा पूर्णस्य अवयविनः वा ज्ञानं प्राप्नोति, इदं शेषवद् अनुमानम् उच्यते । अत्र उपायहृदयकारः
किञ्चन विशिष्टम् उदाहरणं प्रस्तौति । तद्यथा - सागरसलिलं पीत्वा तल्लवणरसम्
अनुभूय शेषमपि सलिलं तुल्यमेव लवणमिति । अर्थात् समुद्रस्य एकं बिन्दुं पीत्वा तत्र
लवणत्वम् अनुभूय शेषं सर्वम् अपि समुद्रजलं लवणम् इति अनुमीयते तत् शेषवत् । इदम्
अनुमानं प्रतिदिनम् अस्माभिः पाकशालायां क्रियते । स्थाल्याः एकं पुलाकं पक्वं
विज्ञाय शेषं सर्वम् अपि पुलाकं पक्वम् इति अनुमीयते ननु । एतदाधारेणैव
स्थालिपुलाकन्यायः प्रवृत्तः ॥
सामान्यतोदृष्टं यथा । न्यायबिन्दुकारेण - देवदत्तस्य
देशान्तरप्राप्तिं गतिपूर्विकां दृष्ट्वा संबन्ध्यन्तरे सवितरि
देशान्तरप्राप्तिदर्शनाद् गतेः अत्यन्तपरोक्षाया अनुमानं सामान्यतोदृष्टम् इति
उदाह्रियते । न्यायसूत्रे अपि एतद् एव उदाहरणं प्रदत्तम् । उपायहृदये - कश्चित्
गच्छन् तं देशं प्राप्नोति, गगनेऽपि
सूर्याचन्द्रमसौ पूर्वस्यां दिशि उदितौ पश्चिमायां च अस्तं गतौ, तच्चेष्टायाम् अदृष्टायामपि तद्गमनम् अनुमीयते इति तदेव
उदाहरणं वाक्यान्तरेण प्रस्तौति । अर्थात् देवदत्तः यदा गच्छति तदा देशान्तरं
प्राप्नोति । अर्थात् कश्चित् देशात् देशान्तरं प्राप्नोति चेत् तत्र गमनं
प्रत्यक्षं दृश्यते । सूर्यस्य यद्यपि गमनं प्रत्यक्षं न दृश्यते, तस्य देशान्तरप्राप्तिः तु दृश्यते । तेन
देशान्तरप्राप्तिफलेन न दृष्टम् अपि गमनम् अनुमीयते यत्र तत् सामान्यतोदृष्टस्य
उदाहरणम् भवति ॥
इत्थम् अनुमानस्य सामान्यरूपेण विवेचनं विहितम् । इतोऽपि
विशेषाः सन्ति । तत् सर्वं सति समये पश्चाद् विचारयिष्यते ॥
*******
No comments:
Post a Comment