Sunday, May 24, 2015

वात्यापुरेश्वरीस्तोत्रम् – ५

वात्यापुरेश्वरीस्तोत्रम्

मातः प्रपन्नकनकामितदानशीले
शीतांशुचूडहृदयाम्बुजपीठवासे ।
वेदात्मिके विधिमुखैर्विबुधैः सुपूज्ये
वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥५॥

पदच्छेदः

मातः प्रपन्नकनकामितदानशीले शीतांशुचूडहृदयाम्बुजपीठवासे वेदात्मिके विधिमुखैः विबुधैः सुपूज्ये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

अन्वयः

मातः प्रपन्नकनकामितदानशीले शीतांशुचूडहृदयाम्बुजपीठवासे वेदात्मिके विधिमुखैः विबुधैः सुपूज्ये वात्यापुरेश्वरि शिवे तव सुप्रभातम् ॥

प्रतिपदार्थः

मातः = हे अम्ब​, प्रपन्नकनकामितदानशीले = शरणम् आगतेभ्यः कनकस्य अपरिमितदानगुणयुक्ते, शीतांशुचूडहृदयाम्बुजपीठवासे = ब् हगवतः शिवस्य हृदये वासं कुर्वाणे, वेदात्मिके = श्रुतिरूपे, विधिमुखैः = ब्रह्मादिभिः, विबुधैः = देवैः, सुपूज्ये = वन्द्ये, वात्यापुरेश्वरि = हे वात्यापुरस्य ईश्वरि, शिवे = भद्रे, तव = तुभ्यं, सुप्रभातं = शुभप्रभातम् ॥

विशेषः

१) मातः इति मातृशब्दस्य सम्बोधने प्रथमा-एकवचनम् ।
२) प्रपन्नकनकामितदानशीले = अमितं दानम् = अमितदानं, कनकानाम् अमितदानं = कनकामितदानं, कनकामितदानस्य शीलं = कनकामितदानशीलं, प्रपन्नेभ्यः कनकामितदानशीलं यस्याः सा = प्रपन्नकनकामितदानशीला, तस्य सम्बोधनम् । अथवा अमितं कनकं = कनकामितम् इत्यपि भवितुमर्हति राजदन्तादिषु परम् (२-२-३१) ।
३) शीतांशुचूडहृदयाम्बुजपीठवासे = शीतांशुः (चन्द्रः) चूडायां यस्य सः = शीतांशुचूडः (शिवः), हृदयरूपम् अम्बुजं = हृदयाम्बुजं, तदेव पीठं = हृदयाम्बुजपीठं, शीतांशुचूडस्य हृदयाम्बुजपीठं = शीतांशुचूडहृदयाम्बुजपीठम् । शीतांशुचूडाहृदयाम्बुजपीठे वासः यस्याः सा = शीतांशुचुडाहृदयाम्बुजवासपीठा, तस्य सम्बोधनम् ।
४) विधिमुखैः = विधिः (ब्रह्मा) मुखम् (आदिः) येषां ते = विधिमुखाः, तैः ॥

तात्पर्यम्

हे अम्ब​, शरणागतेभ्यः अपरिमितसुवर्णदानगुणयुक्ते, भगवतः शिवस्य हृदये वासं कुर्वाणे, श्रुतिरूपे, ब्रह्मादिभिः देवैः पूज्यमाने, हे वात्यापुरेश्वरि भद्रे तव शुभप्रभातं व्याहरामः ॥

हिन्दी

हे अम्ब​, शरण में आए हुए लोगों को अपरिमित सुवर्णदानकरनेवाली, भगवान् शिव के हृदय में रहनेवाली, वेद स्वरूपिणि, ब्रह्मा आदि देवों के पूजनीय​, हे वात्यापुर की ईश्वरि भद्रे हम आप के शुभ प्रभात कहते हैं ॥

ENGLISH
(Translation by Brahmasri Ganeshan @vezhamukhan)

Oh Mother of world showering plenty gold on the devotees in your refuge Residing in the lotus-heart of Siva who wears the cool moon atop his visage
Soul of Vedas being worshipped by Gods led by Brahma the Creator Hey VatyApureSwari bestower of all welfare, rise gently here is the morning star!


*******

No comments: